சனாதன ஸ்தோத்திர மஞ்சரி
Ketu Graha
ஸனாதன தே³வ

.. கேதுபஞ்சவிம்ʼஶதிநாமஸ்தோத்ரம் ..

॥ केतुपञ्चविंशतिनामस्तोत्रम् ॥
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 9
23px

केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः। लोककेतुर्महाकेतुः सर्वकेतुर्भगप्रदः॥१॥

रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक्। पलालधूमसङ्काशश्चित्रयज्ञोपवीतधृक्॥२॥

तारागणविमर्दी च जैमिनेयो ग्रहाधिपः। गणेशदेवो विघ्नेशो विषरोगार्तिनाशनः॥३॥

प्रव्राज्यदो ज्ञानदश्च तीर्थयात्राप्रवर्तकः। पञ्चविंशतिनामानि केतोर्यः सततं पठेत्॥४॥

तस्य नश्यति बाधा च सर्वा केतुप्रसादतः। धनधान्यपशूनां च भवेद्वृद्धिर्न संशयः॥५॥

॥ इति श्री स्कान्दपुराणे श्री केतुपञ्चविंशतिनामस्तोत्रं सम्पूर्णम् ॥

ஜப எண்ணிக்கை: 0/108