சனாதன ஸ்தோத்திர மஞ்சரி
Chandra Graha
ஸனாதன தே³வ

.. சந்த்³ராஷ்டவிம்ʼஶதிநாமஸ்தோத்ரம் ..

॥ चन्द्राष्टविंशतिनामस्तोत्रम् ॥
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 10
எழுத்துரு / மொழி தேர்வு: देवनागरी (संस्कृत)
14px

चन्द्रस्य शृणु नामानि शुभदानि महीपते। यानि श्रुत्वा नरो दुःखान्मुच्यते नात्र संशयः॥ १॥

सुधाकरो विधुः सोमो ग्लौरब्जः कुमुदप्रियः। लोकप्रियः शुभ्रभानुश्चन्द्रमा रोहिणीपतिः॥ २॥

शशी हिमकरो राजा द्विजराजो निशाकरः। आत्रेय इन्दुः शीतांशुरोषधीशः कलानिधिः॥ ३॥

जैवातृको रमाभ्राता क्षीरोदार्णवसम्भवः। नक्षत्रनायकः शम्भुशिरश्चूडामणिर्विभुः॥ ४॥

तापहर्ता नभोदीपो नामान्येतानि यः पठेत्। प्रत्यहं भक्तिसंयुक्तस्तस्य पीडा विनश्यति॥ ५॥

तद्दिने च पठेद्यस्तु लभेत्सर्वं समीहितम्। ग्रहादीनां च सर्वेषां भवेच्चन्द्रबलं सदा॥ ६॥

॥ इति श्रीचन्द्राष्टविंशतिनामस्तोत्रं सम्पूर्णम् ॥

ஜப எண்ணிக்கை: 0/108