सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

गजाननस्तोत्रं देवर्षिकृतम्

stotra-58a918a5
रचयिता: पारंपरिक पाठ संख्या: 1
23px

गजाननस्तोत्रम्

श्री गणेशाय नमः ॥

मुद्गल उवाच शान्तिरूपधरं लोभं दृष्ट्वा देवर्षयोऽमलाः । गजाननं निजं नाथं हर्षिता नेमुरादरात् ॥

गजाननं पूजयित्वा विधानेन सुरर्षयः । पुनः प्रणम्य तं सर्वे तुष्टुवुः करसम्पुटैः ॥

देवर्षय ऊचुः । विदेहरूपं भवबन्धहारं सदा स्वनिष्ठं स्वसुखप्रदम् तम् । अमेयसांख्येन च लक्ष्मीशं गजाननं भक्तियुतं भजामः ॥ १॥

मुनीन्द्रवन्द्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तम् । विकारहीनं सकलांमकं वै गजाननं भक्तियुतं भजामः ॥ २॥

अमेय रूपं हृदि संस्थितं तं ब्रह्माऽहमेकं भ्रमनाशकारम् । अनादि-मध्यान्तमपाररूपं गजाननं भक्तियुतं भजामः ॥ ३॥

जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादिहीनम् । अनात्मनां मोहप्रदं पुराणं गजाननं भक्तियुतं भजामः ॥ ४॥

न पृथ्विरूपं न जलप्रकाशनं न तेजसंस्थं न समीरसंस्थम् । न खे गतं पंचविभूतिहीनं गजाननं भक्तियुतं भजामः ॥ ५॥

न विश्वगं तैजसगं न प्राज्ञं समष्टि-व्यष्टिस्थ-मनन्तगं तम् । गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुतं भजामः ॥ ६॥

गणेशगं नैव च बिन्दुसंस्थं न देहिनं बोधमयं न ढुण्ढी । सुयोगहीनं प्रवदन्ति तत्स्थं गजाननं भक्तियुतं भजामः ॥ ७॥

अनागतं ग्रैवगतं गणेशं कथं तदाकारमयं वदामः । तथापि सर्वं प्रतिदेहसंस्थं गजाननं भक्तियुतं भजामः ॥ ८॥

यदि त्वया नाथ! घृतं न किंचित्तदा कथं सर्वमिदं भजामि । अतो महात्मानमचिन्त्यमेवं गजानन भक्तियुतं भजामः ॥ ९॥

सुसिद्धिदं भक्तजनस्य देवं सकामिकानामिह सौख्यदं तम् । अकामिकानां भवबन्धहारं गजाननं भक्तियुतं भजामः ॥ १०॥

सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयन्तम् । अनन्तबाहु मूषकध्वजं तं गजाननं भक्तियुतं भजामः ॥ ११॥

सदा सुखानन्दमयं जले च समुद्रजे इक्षुरसे निवासम् । द्वन्द्वस्य यानेन च नाशरूपे गजाननं भक्तियुतं भजामः ॥ १२॥

चतुःपदार्था विविधप्रकाशस्तदेव हस्तं सुचतुर्भुजं तम् । अनाथनाथं च महोदरं वै गजाननं भक्तियुतं भजामः ॥ १३॥

महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् । अमायिनं मायिकमोहदं तं गजाननं भक्तियुतं भजामः ॥ १४॥

रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् । शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुतं भजामः ॥ १५॥

महेश्वरीस्थं च सुशक्तिहीनं प्रभुं परेशं परवन्द्यमेवम् । अचालकं चालकबीजरूपं गजाननं भक्तियुतं भजामः ॥ १६॥

शिवादि-देवैश्च खगैश्च वन्द्यं नरैर्लता-वृक्ष-पशुप्रमुख्यैः । चराऽचरैर्लोक-विहीनमेवं गजाननं भक्तियुतं भजामः ॥ १७॥

मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् । तथाऽपि देवं पुरसंस्थितं तं गजाननं भक्तियुतं भजामः ॥ १८॥

वयं सुधन्या गणपस्तवेन तथैव मर्त्यार्चनतस्तथैव । गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्तियुतं भजामः ॥ १९॥

गजाख्यबीजं प्रवदन्ति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् । गच्छन्ति तेनैव गजाननं तं गजाननं भक्तियुतं भजामः ॥ २०॥

पुराणवेदाः शिवविष्णुकाद्यामराः शुकाद्या गणपस्तवे वै । विकुण्ठिताः किं च वयं स्तवामो गजाननं भक्तियुतं भजामः ॥ २१॥

मुद्गल उवाच ॥

एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः । तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥ २२॥

गजानन उवाच ॥

वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् । स्तोत्रेण प्रीतिसंयुक्तो दास्यामि वांछितं परम् ॥ २३॥

गजाननवचः श्रुत्वा हर्षयुक्ता सुरर्षयः । जगुस्तं भक्तिभावेन साश्रुनेत्रा प्रजापते ॥ २४॥

देवर्षय ऊचुः ॥

यदि गजानन स्वामिन् प्रसन्नो वरदोऽसि मे । तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥ २५॥

लोभासुरस्य देवेश कृता शान्तिः सुखप्रदा । तया गजदिदं सर्वं वरयुक्तं कृतं त्वया ॥ २६॥

अधुना देवदेवेश! कर्मयुक्ता द्विजातयः । भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा ॥ २७॥

स्व-स्वधर्मरताः सर्वे कृतास्त्वया गजानन!। अतः परं वरं ढुण्ढे याचमानः किमप्यहो!॥ २८॥

यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो । तदा संकटहीनान् वै कुरू त्वं नो गजानन!॥ २९॥

एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् । तानुवाच सप्रीत्यात्मा भक्ताधीनः स्वभावतः ॥ ३०॥

गजानन उवाच ॥

यद्यच्च प्रार्थितं देवा मुनयः सर्वमंजसा । भविष्यति न सन्देहो मत्स्मृत्या सर्वदा हि वः ॥ ३१॥

भवत्कृतमदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् । भविष्यति विशेषेण मम भक्ति-प्रदायकम् ॥ ३२॥

पुत्र-पौत्र-प्रदं पूर्णं धन-धान्य-प्रवर्धनम् । सर्वसम्पत्करं देवाः पठनाच्छ्रवणान्नृणाम् ॥ ३३॥

मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः । परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥ ३४॥

संग्रामे जयदं चैव यात्राकाले फलप्रदम् । शत्रूच्चाटनादिषु च प्रशस्तं तद् भविष्यति ॥ ३५॥

कारागृहगतस्यैव बन्धनाशकरं भवेत् । असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥ ३६॥

एकविंशति वारं तत् चैकविंशद्दिनावधिम् । प्रयोगं यः करोत्येव सर्वसिद्धियुतो भवेत् ॥ ३७॥

धर्माऽर्थकाम-मोक्षाणां ब्रह्मभूतस्य दायकम् । भविष्यति न सन्देहः स्तोत्रं मद्भक्तिवर्धनम् ॥ ३८॥

एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ॥

इति मुद्गलपुराणान्तर्गतं गजाननस्तोत्रम् ॥

पाठ जप: 0/108