सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीगजाननस्तोत्रम्

stotra-073bcca4
रचयिता: पारंपरिक पाठ संख्या: 1
23px
श्रीगजाननस्तोत्रम् श्रीगणेशाय नमः । जय देव गजानन प्रभो जय सर्वासुरगर्वभेदक । जय सङ्कटपाशमोचन प्रणवाकार विनायकाऽव माम् ॥ १॥ तव देव जयन्ति मूर्तयः कलितागण्यसुपुण्यकीर्तयः । मनसा भजतां हतार्तयः कृतशीघ्राधिककामपूर्तयः ॥ २॥ तव रम्यकथास्वनादरः स नरो जन्मलयैकमन्दिरम् । न परत्र न चेह सौख्यभाङ् निजदुष्कर्मवशाद्विमोहभाक् ॥ ३॥ गजवक्त्र तवाङ्घ्रिपङ्कजे ध्वजवज्राङ्कयुते सदा भजे । तव मूर्तिमहं परिष्वजे त्वयि हृन्मेऽस्तु सुमूषकध्वजे ॥ ४॥ त्वदृते हि गजानन प्रभो न हि भक्तौघसुखौघदायकः । सुदृढा मम भक्तिरस्तु ते चरणाब्जे विबुधेश विश्वपाः ॥ ५॥ फलपूरगदेक्षुकार्मुकैर्युत रुक्चक्रधराब्जपाशधृक् । अव वारिजशालिमञ्जरीरदधृग्रत्नघटाढ्यशुण्ड माम् ॥ ६॥ करयुग्मसुहेमश‍ृङ्खल द्विजराजाढ्यक तुन्दिलोदर । शशिसुप्रभ विद्यया युत स्तनभारानमितेड्य रक्ष माम् ॥ ७॥ शशिभास्करवीतिहोत्रदृक् शुभसिन्दूररुचे विनायक । द्विपवक्त्र महाहिभूषण त्रिदिवेशासुरवन्द्य पाहि माम् ॥ ८॥ सृणिपाशवरद्विजैर्युत द्विजराजार्धक मूषकध्वज । शुभलोहितचन्दनोक्षित श्रुतिवेद्याभयदायकाऽव माम् ॥ ९॥ स्मरणात्तव शम्भुविध्यजेन्द्विनशक्रादिसुराः कृतार्थताम् । गणपाऽऽपुरघौघभञ्जन द्विपराजास्य सदैव पाहि माम् ॥ १०॥ शरणं भगवान्विनायकः शरणं मे सततं च सिद्धिका । शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥ ११॥ गलद्दानगण्डं महाहस्तितुण्डं सुपर्वप्रचण्डं धृतार्धेन्दुखण्डम् । करास्फोटिताण्डं महाहस्तदण्डं हृताढ्यारिमुण्डं भजे वक्रतुण्डम् ॥ १२॥ गणनाथ निबन्धसंस्तवं कृपयाङ्गीकुरु मत्कृतं ह्यमुम् । इदमेव सदा प्रदीयतां करुणा मय्यतुलाऽस्तु सर्वदा ॥ १३॥ इति गजाननस्तोत्रम् ॥
पाठ जप: 0/108