ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

ಗುಣೇಶಕೃತಾ ಗಣೇಶಸ್ತುತಿಃ

गुणेशकृता गणेशस्तुतिः
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 3
23px

गणेशस्तुतिः

श्रीगणेशाय नमः । गुणेश उवाच । नमामि देवं गणनाथमीशं सदा सुशान्तं हृदि योगिनां वै । अपारयोगं दृढयोगनाथं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४२॥ अयोगरूपं कथितुं त्वशक्यं निवृत्तिमात्रं ह्यसमाधिसंस्थम् । अभेदभेदात्मकमूलहीनं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४३॥ सदा समाधिस्थमनन्तपारं प्रभुं स्वसंवेद्यमयं विभान्तम् । निजात्मयोगेन च लभ्यमेवं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४४॥ विदेहयोगेन च साङ्ख्यरूपं जनेन लभ्यं गणराजमीड्यम् । सदा ह्युपाधौ न हितं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४५॥ सुसंस्थितं सर्वविलासयुक्तं हृद्विज्ञबोधात्मकमादिदेवम् । अभेदमात्रं परमार्थरूपं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४६॥ अनादिमध्यान्तमनन्तपारं सुसंवृतं सन्ततमात्मरूपम् । गणेशमाद्यं पुरुषं पुराणं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४७॥ अनादिरूपं प्रकृतिप्रभेदं सदा सुबिन्द्वात्मकमप्रमेयम् । अमायिकं मोहकरं प्रसिद्धं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४८॥ गुणेषु रूपेण विराजमानमपारमव्यक्तमयं गणेशम् । गुणैर्विहीनं गुणचालकं च सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४९॥ समस्वरूपं जगदीशमेकं सुषुप्तिरूपं सकलावभासम् । अनादिमायामयमोहधारं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५०॥ जगन्मयं सूक्ष्मविभूतिधारं हिरण्मयं स्वप्नगतं गणेशम् । जनस्य विज्ञानकर पुराणं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५१॥ स्तुतं सदा देवमुनीन्द्रसिद्धैः स्थितं जगन्मोहमयं प्रसिद्धम् । सदा परं स्थूलविहारयुक्तं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५२॥ असत्स्वरूपं विविधेष्वभेदं गणेशमायामयशक्तिरूपम् । मनोवचोहीनमहानुभावं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५३॥ रविस्वरूपं ह्यमृतं पुराणमभेदमेकात्मकमात्मरूपम् । अखण्डमानन्दघनं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५४॥ समं सदा विष्णुमचिन्त्यभावमभेदभेदादिविवर्जितं च । सदा सुखानन्दमयं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५५॥ अचिन्त्यरूपं सकलैर्विहीनं सदाशिवं मोहविहीनमाद्यम् । अपारवेशं स्वसुखावभासं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५६॥ पदार्थरूपं विविधप्रभेदं विकारयुक्तं परमप्रमेयम् । बोधात्मकं त्वंपदरूपमेव सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५७॥ अखण्डमेकात्मकविश्वरूपं विकारहीनं महदप्रमेयम् । गणेशमेकं हृदि तत्पदस्थं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५८॥ गणेश चैते विविधस्वरूपाः कलावतारा भवतो हि भव्याः । सुशान्तमेकं भवदीयरूपं कथं विभाव्यं मनसा न लभ्यम् ॥ ५९॥ यदा च सर्वात्ममयं वदामि तदा तु सोऽहं प्रकृतिस्वरूपम् । गकाररूपं जगदीशभेदं गकारमेकं शरणं प्रपद्ये ॥ ६०॥ मनोवचोहीनमथो वदामि ह्ययोगसंयोगमयं णकारम् । निवृत्तिरूपं शरणं सदा वै नमामि ते सर्ववरिष्ठमाद्यम् ॥ ६१॥ न शक्यसे वक्तुमवक्तुमेवमतो भवन्तं प्रणमामि ढुण्ढे । गणेश विघ्नेश महानुभाव प्रसीद भो ब्रह्मपते महात्मन् ॥ ६२॥ जन्म धन्यं धन्यमक्षि विद्या ज्ञानं तपः फलम् । येन दृष्टो गणाधीशः कृतकृत्योऽम्मि साम्प्रतम् ॥ ६३॥ मह्यं यदि वरो दयस्तदा भक्तिं दृढां त्वयि । देहि मे परमेशान यया मोहो विनश्यति ॥ ६४॥ सृष्टिसजनसामर्थ्यं भजतां कामपूरणम । निर्विघ्नं सर्वकार्येषु देहि विघ्नविनाशन ॥ ६५॥ गुणेशवचनं श्रुत्वा सुप्रसन्नो गजाननः । मेघगाम्भीर्यसादृश्यं वचनं त्विदमब्रवीत् ॥ ६६॥ श्रीगणेश उवाच । भविता में महाभक्तिः मृष्टीनां रचनास्तथा । नानाविधा भविष्यन्ति निर्विघ्नं सर्वदा भवत् ॥ ६७॥ भवद्भ्यः सर्वदातृत्वं भविष्यति तथाऽनघ । महाकार्ये समुत्पन्ने दाम्येऽहं दर्शनं च ते ॥ ६८॥ स्तोत्रं त्वया कृतं यच्च सर्वमान्यं भविष्यति । पठतां श‍ृण्वतां चैव ब्रह्मभूतकरं महत् ॥ ६९॥ स्तोत्रं ब्रह्मपतेः साक्षान्नाम्ना वै स्तुतिसारकम् । भविष्यति महाभाग सर्वसिद्धिकरं परम् ॥ ७०॥ सकामेभ्यो जनेभ्योऽपि कामदं चिन्तितप्रदम् । निष्कामेभ्यः स्वभक्तेभ्यो मुक्तिदं प्रभविष्यति ॥ ७१॥ मम प्रीतिकरं पूर्णं सारं सर्वत्र भाषितम् । त्रिकालपठनादस्य साध्योऽहं नात्र संशयः ॥ ७२॥ श्रीशिव उवाच । इत्युक्त्वान्तर्हितः साक्षाद्गणेशो भक्तवत्सलः । देवस्यापि वियोगेन गुणेशो विमना ह्यभूत् ॥ ७३॥ इति गुणेशकृता समाप्ता गणेशस्तुतिः
ಜಪ ಎಣಿಕೆ: 0/108