ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

ತತ್ತ್ವೈಃ ಕೃತಾ ಗಣೇಶಸ್ತುತಿಃ

तत्त्वैः कृता गणेशस्तुतिः
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 4
ಲಿಪಿಯನ್ನು ಆಯ್ಕೆಮಾಡಿ: देवनागरी (संस्कृत)
14px
गणेशस्तुतिः श्रीगणेशाय नमः । तत्त्वान्यूचुः । नमस्ते वक्रतुण्डाय भक्तसंरक्षकाय च । सर्वाधीशाय सर्वाय गणानां पतये नमः ॥ ३९॥ अव्यक्ताव्यक्तरूपाय सत्यासत्याय ते नमः । समाय विषमायैव विघ्नेशाय नमो नमः ॥ ४०॥ आत्मनेऽनात्मने तुभ्यं निर्गुणाय गुणात्मने । नामरूपधरायैव द्वाभ्यां हीनाय ते नमः ॥ ४१॥ अनन्तोदरसंस्थाय नानाभोगकराय च । भोगहीनाय सर्वत्र स्वानन्दपतये नमः ॥ ४२॥ मायाधाराय वै तुभ्यं मायाहीनाय ते नमः । मायिनां मोहकाराय सर्वज्ञाय च ते नमः ॥ ४३॥ सर्वसिद्धिधरायैव सिद्धीनां पतये नमः । सिद्धिहीनाय सिद्धाय सिद्धानां पतये नमः ॥ ४४॥ जगन्मयाय वै तुभ्यं जगद्धीनाय ते नमः । कर्मणां फलदात्रे च कर्मरूपाय ते नमः ॥ ४५॥ कर्महीनाय तेऽज्ञानज्ञानदात्रे नमो नमः । ज्ञानिनां ज्ञानकर्त्रे च ज्ञानहीनाय ते नमः ॥ ४६॥ चतुर्विधधरायैव चतुर्विधमयाय च । चतुर्विधविहीनाय स्वसंवेद्याय ते नमः ॥ ४७॥ पाशाङ्कुशधरायैव दन्ताभयधराय च । चतुर्भुजाय वै शूर्पश्रुतये तुन्दिलाय च ॥ ४८॥ महते चैकदन्ताय महतां च महीयसे । लघवे लघुरूपाय लघूनां लाघवे नमः ॥ ४९॥ गजवक्त्राय देवाय ब्रह्मणे ब्रह्मरूपिणे । ब्रह्मणस्पतये चैव ब्रह्मदात्रे नमो नमः ॥ ५०॥ किमस्माभिः स्तुतिः कार्या ह्यपारगुणराशये । नमो नमो गणेशाय त्वं तुष्टो भव सर्वदा ॥ ५१॥ कृताञ्जलिपुटाः सर्वे ऋषयश्च स्थिताः पुरः । तान् दृष्ट्वा गणराजस्तु हृष्टः सन् प्रत्युवाच ह ॥ ५२॥ (भो भोस्तत्त्वानि सर्वाणि वरं ब्रूत हृदीप्सितम् । तपसाऽहं प्रसन्तुष्टो भक्त्या स्तोत्रेण भावतः ॥ ३॥ भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम । सर्वसिद्धिप्रदं चैव पठते श‍ृण्वते भवेत् ॥ ४॥ विद्याकामो लभेद्विद्यां धनकामो धनं लभेत् । स्त्रीकामः स्त्रियमाप्नोति पुत्रकामः सुपुत्रकान् ॥ ५॥ मुक्तिकामो लभेन्मुक्तिं जयकामो जयं लभेत् । अस्य स्तोत्रस्य पठनात् वाञ्छितं लभते परम् ॥ ६॥) इति तत्त्वैः कृता गणेशस्तुतिः समाप्ता । १.७-८
ಜಪ ಎಣಿಕೆ: 0/108