સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

નિત્યાનુસન્ધેય શ્લોકા:

नित्यानुसन्धेय श्लोका:
રચયિતા: પારંપરિક વાચન સંખ્યા: 10
લિપિ પસંદ કરો: देवनागरी (संस्कृत)
14px

श्रीमते रामानुजाय नमः नित्यानुसन्धेय श्लोका:

श्रीवरवरमुनि स्वामीजीको स्तुति श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम्। यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम्।।

श्रीगुरुपरम्परा तनियन् लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम्। अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्।।

श्रीरामानुजस्वामीजी को स्तुति यो नित्यमच्युतपदाम्बुजयुग्मरुक्म- व्यामोहतस्तदितराणि तृणाय मेने। अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः- रामानुजस्य चरणौ शरणं प्रपद्ये।।

श्रीशठकोपस्वामीजीको स्तुति मातापितायुवतयस्तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानाम्। आद्यस्य नः कुलपतेर्वकुळाभिरामं- श्रीमत्तदंघ्रियुगळं प्रणमामि मूर्ध्ना ।।

दिव्यसूरि  स्तुति भूतं सरश्च महदाह्वयभट्टनाथ- श्रीभक्तिसार कुलशेखर योगिवाहान्। भक्ताङ्घ्रिरेणु परकाल यतीन्द्रमिश्रान् श्रीमत्पराकुशमुनिं प्रणतोऽस्मि नित्यम्।।

પાઠ જપ: 0/108