सनातन देव
नित्यानुसन्धेय श्लोका:
stotra-4bef8750
श्रीमते रामानुजाय नमः नित्यानुसन्धेय श्लोका:
श्रीवरवरमुनि स्वामीजीको स्तुति श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम्। यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम्।।
श्रीगुरुपरम्परा तनियन् लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम्। अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्।।
श्रीरामानुजस्वामीजी को स्तुति यो नित्यमच्युतपदाम्बुजयुग्मरुक्म- व्यामोहतस्तदितराणि तृणाय मेने। अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः- रामानुजस्य चरणौ शरणं प्रपद्ये।।
श्रीशठकोपस्वामीजीको स्तुति मातापितायुवतयस्तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानाम्। आद्यस्य नः कुलपतेर्वकुळाभिरामं- श्रीमत्तदंघ्रियुगळं प्रणमामि मूर्ध्ना ।।
दिव्यसूरि स्तुति भूतं सरश्च महदाह्वयभट्टनाथ- श्रीभक्तिसार कुलशेखर योगिवाहान्। भक्ताङ्घ्रिरेणु परकाल यतीन्द्रमिश्रान् श्रीमत्पराकुशमुनिं प्रणतोऽस्मि नित्यम्।।