॥ আদিত্যস্তোত্রম্ ॥
नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक्। पीडा च दुःसहा राजन् जायते सततं नृणाम् ॥१॥
पीडानाशाय राजेन्द्र नामानि शृणु भास्वतः। सूर्यादीनां च सर्वेषां पीडा नश्यति शृण्वतः॥२॥
आदित्यः सविता सूर्यः पूषाऽर्कः शीघ्रगो रविः। भगस्त्वष्टाऽर्यमा हंसो हेलिस्तेजोनिधिर्हरिः॥३॥
दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः। विभावसुर्वेदकर्ता वेदाङ्गो वेदवाहनः॥४॥
हरिदश्वः कालवक्त्रः कर्मसाक्षी जगत्पतिः। पद्मिनीबोधको भानुर्भास्करः करुणाकरः॥५॥
द्वादशात्मा विश्वकर्मा लोहिताङ्गस्तमोनुदः। जगन्नाथोऽरविन्दाक्षः कालात्मा कश्यपात्मजः॥६॥
भूताश्रयो ग्रहपतिः सर्वलोकनमस्कृतः। जपाकुसुमसङ्काशो भास्वानदितिनन्दनः॥७॥
ध्वान्तेभसिंहः सर्वात्मा लोकनेत्रो विकर्तनः। मार्तण्डो मिहिरः सूरस्तपनो लोकतापनः॥८॥
जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः। सहस्ररश्मिस्तरणिर्भगवान् भक्तवत्सलः॥९॥
विवस्वानादिदेवश्च देवदेवो दिवाकरः। धन्वन्तरिर्व्याधिहर्ता दद्रुकुष्ठविनाशनः॥१०॥
चराचरात्मा मैत्रेयोऽमितो विष्णुर्विकर्तनः। लोकशोकापहर्ता च कमलाकर आत्मभूः॥११॥
नारायणो महादेवो रुद्रः पुरुष ईश्वरः। जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः॥१२॥
इन्द्रोऽनलो यमश्चैव नैऱ्तो वरुणोऽनिलः। श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः॥१३॥
सौरिर्विधुन्तुदः केतुः कालः कालात्मको विभुः। सर्वदेवमयो देवः कृष्णः कामप्रदायकः॥१४॥
य एतैर्नामभिर्मर्त्यो भक्त्या स्तौति दिवाकरम्। सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः॥१५॥
पुत्रवान् धनवाञ्छ्रीमान् जायते स न संशयः। रविवारे पठेद्यस्तु नामान्येतानि भास्वतः॥१६॥
पीडाशान्तिर्भवेत्तस्य ग्रहाणां च विशेषतः। सद्यः सुखमवाप्नोति चऽऽयुर्दीर्घं च नीरुजम्॥१७॥
॥ इति श्रीभविष्यपुराणे आदित्यस्तोत्रं सम्पूर्णम् ॥