সনাতন স্তোত্র মঞ্জরী
নভ়গ্রহ স্তোত্রম্
সনাতন দেব

॥ শুক্রচতুর্বিংশতিনামস্তোত্রম্ ॥

॥ शुक्रचतुर्विंशतिनामस्तोत्रम् ॥
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 7
লিপি নির্বাচন করুন: देवनागरी (संस्कृत)
14px

शृण्वन्तु मुनयः सर्वे शुक्रस्तोत्रमिदं शुभम्॥ रहस्यं सर्वभूतानां शुक्रप्रीतिकरं शुभम्॥ १॥

येषां सङ्कीर्तनान्नित्यं सर्वान् कामानवाप्नुयात्। तानि शुक्रस्य नामानि कथयामि शुभानि च॥२॥

शुक्रः शुभग्रहः श्रीमान् वर्षकृद्वर्षविघ्नकृत्। तेजोनिधिर्ज्ञानदाता योगी योगविदां वरः॥३॥

दैत्यसञ्जीवनो धीरो दैत्यनेतोशना कविः। नीतिकर्ता ग्रहाधीशो विश्वात्मा लोकपूजितः॥४॥

शुक्लमाल्याम्बरधरः श्रीचन्दनसमप्रभः। अक्षमालाधरः काव्यः तपोमूर्तिर्धनप्रदः॥५॥

चतुर्विंशतिनामानि अष्टोत्तरशतं यथा। देवस्याग्रे विशेषेण पूजां कृत्वा विधानतः॥६॥

य इदं पठति स्तोत्रं भार्गवस्य महात्मनः। विषमस्थोऽपि भगवान् तुष्टः स्यान्नात्र संशयः॥७॥

स्तोत्रं भृगोरिदमनन्तगुणप्रदं यो भक्त्या पठेच्च मनुजो नियतः शुचिः सन्। प्राप्नोति नित्यमतुलां श्रियमीप्सितार्थान् राज्यं समस्तधनधान्ययुतां समृद्धिम्॥८॥

॥ इति श्रीस्कान्दपुराणे श्रीशुक्रचतुर्विंशतिनामस्तोत्रं सम्पूर्णम् ॥

পাঠ জপ: 0/108