ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
Ashtakam
ಸನಾತನ ದೇವ

.. ಶ್ರೀ ದೇವರಾಜಾಷ್ಟಕಂ ..

॥ श्री देवराजाष्टकम् ॥
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 3
23px

श्रीमत्काञ्चीमुनिं वन्दे कमलापतिनन्दनम् । वरदाङ्घ्रि सदासङ्ग रसायन परायणम् ॥ देवराजदयापात्रं श्रीकाञ्चीपूर्णमुत्तमम् । रामानुजमुनेर्मान्यं वन्देऽहं सज्जनाश्रयम् ॥

नमस्ते हस्तिशैलेश श्रीमन्नम्बुजलोचनः । शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत ॥ १  ॥

समस्तप्राणिसन्त्राणप्रवीण करुणोल्बण । विलसन्तु कटाक्षस्ते मय्यस्मिञ्जगताम्पते ॥ २  ॥

निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः । पापीयांस ममर्यादं पाहि मां वरदप्रभो ॥ ३ ॥

संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषणे । विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि ॥ ४  ॥

पुत्रदारगृहक्षेत्रमृगतृष्णाम्बुपुष्कले । कृत्याकृत्यविवेकान्धं परिभ्रान्तमितस्ततः ॥ ५  ॥

अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम् । क्षीणशक्तिबलारोग्यं केवलं क्लेशसम्श्रयम् ॥ ६ ॥

सन्तप्तं विविधैर्दुःखैर्दुर्वचै रेवमादिभिः । देवराज दयासिन्धो देवदेव जगत्पते ॥ ७  ॥

त्वदीक्षणसुधासिन्धुवीचिविक्षेपशीकरैः । कारुण्यमारुतानीतैः शीतलैरभिषिञ्च माम् ॥ ८ ॥

॥ इति श्रीकाञ्ची पूर्ण विरचितम् देवराजाष्टकम् संपूर्णम् ॥

ಜಪ ಎಣಿಕೆ: 0/108