॥ শ্রী দেবরাজাষ্টকম্ ॥
श्रीमत्काञ्चीमुनिं वन्दे कमलापतिनन्दनम् । वरदाङ्घ्रि सदासङ्ग रसायन परायणम् ॥ देवराजदयापात्रं श्रीकाञ्चीपूर्णमुत्तमम् । रामानुजमुनेर्मान्यं वन्देऽहं सज्जनाश्रयम् ॥
नमस्ते हस्तिशैलेश श्रीमन्नम्बुजलोचनः । शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत ॥ १ ॥
समस्तप्राणिसन्त्राणप्रवीण करुणोल्बण । विलसन्तु कटाक्षस्ते मय्यस्मिञ्जगताम्पते ॥ २ ॥
निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः । पापीयांस ममर्यादं पाहि मां वरदप्रभो ॥ ३ ॥
संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषणे । विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि ॥ ४ ॥
पुत्रदारगृहक्षेत्रमृगतृष्णाम्बुपुष्कले । कृत्याकृत्यविवेकान्धं परिभ्रान्तमितस्ततः ॥ ५ ॥
अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम् । क्षीणशक्तिबलारोग्यं केवलं क्लेशसम्श्रयम् ॥ ६ ॥
सन्तप्तं विविधैर्दुःखैर्दुर्वचै रेवमादिभिः । देवराज दयासिन्धो देवदेव जगत्पते ॥ ७ ॥
त्वदीक्षणसुधासिन्धुवीचिविक्षेपशीकरैः । कारुण्यमारुतानीतैः शीतलैरभिषिञ्च माम् ॥ ८ ॥
॥ इति श्रीकाञ्ची पूर्ण विरचितम् देवराजाष्टकम् संपूर्णम् ॥