சனாதன ஸ்தோத்திர மஞ்சரி
1008 Sahasranamawali
ஸனாதன தே³வ

உட்³டா³மரேஶ்வரதந்த்ரே உச்சி²ஷ்டக³ணேஶஸஹஸ்ரநாமாவலி꞉

उड्डामरेश्वरतन्त्रे उच्छिष्टगणेशसहस्रनामावलिः
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px

उच्छिष्टगणेशसहस्रनामावलिः

ॐ महागणाधिनाथाख्याय नमः । ॐ अष्टाविंशत्यक्षरात्मकाय नमः । ॐ तारश्रीशक्तिकन्दर्पभूस्मृतिबिन्दुसंयुताय नमः । ॐ ङेन्तगणपतिप्रोक्ताय नमः । ॐ वरवरदसंयुताय नमः । ॐ सर्वजनद्वितीयान्ताय नमः । ॐ आदित्यशिवसंयुताय नमः । ॐ वशमानयसंयुक्ताय नमः । ॐ वह्निजायासमर्पिताय नमः । ॐ गणकमुनिसन्दृष्टाय नमः । १० ॐ निचृद्गायत्रभाषिताय नमः । ॐ सुरादिवन्द्यपादाब्जाय नमः । ॐ मनुराजविजृम्भिताय नमः । ॐ इक्षुसागरमध्यस्थाय नमः । ॐ रत्नद्वीपस्य मध्यगाय नमः । ॐ तरङ्गमालिकाधौतशीततरामलालयाय नमः । ॐ कल्पपादपसंशोभिमणिभूमिविराजिताय नमः । ॐ मृदुवातसमानीतदिव्यगन्धनिषेविताय नमः । ॐ नानाकुसुमसङ्कीर्णाय नमः । ॐ पक्षिवृन्दरवप्रियाय नमः । २० ॐ युगपदृतुषटकेन संसेवितपदद्वयाय नमः । ॐ नवरत्नसमाविद्धसिंहासनसमास्थिताय नमः । ॐ जपापुष्पतिरस्कारिरक्तकान्तिसमुज्ज्वलाय नमः । ॐ वल्लभाश्लिष्टवामाङ्गाय नमः । ॐ एकादशकरान्विताय नमः । ॐ रत्नकुम्भाढ्यशुण्डाग्राय नमः । ॐ बीजापूरिणे नमः । ॐ गदाधराय नमः । ॐ इक्षुचापधराय नमः । ॐ शूलिने नमः । ३० ॐ चक्रपाणये नमः । ॐ सरोजभृते नमः । ॐ पाशिने नमः । ॐ धृतोत्पलाय नमः । ॐ शालीमञ्जरीभृते नमः । ॐ स्वदन्तभृते नमः । ॐ पञ्चावरणचक्रेशाय नमः । ॐ षडाम्नायप्रपूजिताय नमः । ॐ मूलमन्त्राढ्यपूजाकाय नमः । ॐ षडङ्गपरिवारिताय नमः । ४० ॐ परौघपूजनातुष्टाय नमः । ॐ दिव्यौघादिनिषेविताय नमः । ॐ श्रीश्रीपतिसन्तुष्टाय नमः । ॐ गिरिजातत्पतिप्रियाय नमः । ॐ रतिमन्मथसम्प्रीताय नमः । ॐ महीवराहपूजिताय नमः । ॐ ऋद्ध्यामोदप्रपूजाकाय नमः । ॐ समृद्धितत्पतिप्रियाय नमः । ॐ कान्तिसुमुखसुप्रीताय नमः । ॐ मदनावतिकदुर्मुखाय नमः । ५० ॐ मदद्रवाविघ्नपूज्याय नमः । ॐ द्राविणीविघ्नेकर्तृकाय नमः । ॐ वसुधाराशङ्खपूज्याय नमः । ॐ वसुमतिकपद्मकाय नमः । ॐ ब्राह्मीप्रियाय नमः । ॐ ईश्वरीशाय नमः । ॐ कौमारीसेविताङ्घ्रिकाय नमः । ॐ वैष्णव्यर्चितपद्वन्द्वाय नमः । ॐ वाराहीसेविताङ्घ्रिकाय नमः । ॐ इद्राणीपूजितश्रीकाय नमः । ६० ॐ चामुण्डश्रितपादुकाय नमः । ॐ महालक्ष्मीमहामातृसम्पूजितपदद्वयाय नमः । ॐ ऐरावतसमारूढवज्रहस्तेन्द्रपूजिताय नमः । ॐ अजोपरिसमारूढशक्तिहस्ताग्निसेविताय नमः । ॐ महिषारूढदण्डाढ्ययमदेवप्रपूजिताय नमः । ॐ नरारोहिखड्गहस्तनिरृत्याश्रितपादुकाय नमः । ॐ मकरवाहनारूढपाशाढ्यवरुणार्चिताय नमः । ॐ रुरोरुपरिसन्तिष्ठद्ध्वजाढ्यश्वसनार्चिताय नमः । ॐ अश्ववाहनशङ्खाढ्यसोमदेवप्रपूजिताय नमः । ॐ वृषभवाहनारूढत्रिशूलाढ्येशसेविताय नमः । ७० ॐ पञ्चावरणपूजोद्यत्कारुण्याकुलमानसाय नमः । ॐ पञ्चावृतिनमस्याकभक्तवाञ्छाप्रपूरणाय नमः । ॐ एकमूर्तये नमः । ॐ अष्टमूर्तये नमः । ॐ पञ्चाशन्मूर्तिभेदकाय नमः । ॐ ब्रह्मचारिसमाख्याकाय नमः । ॐ पत्नीसंयुतमूर्तिकाय नमः । ॐ नग्नपत्नीसमाश्लिष्टाय नमः । ॐ सुरतानन्दतुन्दिलाय नमः । ॐ सुमबाणेक्षुकोदण्डपाशाङ्कुशवरायुधाय नमः । ८० ॐ कामिनीचुम्बनायुक्तसदालिङ्गनतत्पराय नमः । ॐ अण्डकर्णकपोलाख्यत्रिस्थानमदवारिराजे नमः । ॐ मदापोलुब्धमधुपैर्विचुम्बितकपोलकाय नमः । ॐ कामुकाय नमः । ॐ कामिनीकान्ताय नमः । ॐ कान्ताधरमधुव्रताय नमः । ॐ कामिनीहृदयाकर्षिणे नमः । ॐ वशागणनिषेविताय नमः । ॐ ऐरावतादिदिङ्नागमिथुनाष्टकपूजिताय नमः । ॐ सदा जायाश्रिताय नमः । ९० ॐ अश्रान्ताय नमः । ॐ नग्नोपासकपूजिताय नमः । ॐ मांसाशिने नमः । ॐ वारुणीमत्ताय नमः । ॐ मत्स्यभुजे नमः । ॐ मैथुनप्रियाय नमः । ॐ मुद्रासप्तकसम्प्रीताय नमः । ॐ मपञ्चकनिषेविताय नमः । ॐ पञ्चाङ्गरागसुप्रीताय नमः । ॐ श‍ृङ्गाररसलम्पटाय नमः । १०० ॐ कर्पूरवीटीसौगन्ध्यकल्लोलितककुप्तटाय नमः । ॐ उपासकवरिष्ठास्यवीट्यामौक्यनिरासकाय नमः । ॐ योन्याहितसुशुण्डाकाय नमः । ॐ योनिलालनलालसाय नमः । ॐ भगामोदसमाश्वासिने नमः । ॐ भगचुम्बनलम्पटाय नमः । ॐ कान्ताकुचसमालिङ्गिशुण्डामण्डितविग्रहाय नमः । ॐ उच्छिष्टाख्यगणेशानाय नमः । ॐ उच्छिष्टास्वादिसिद्धिदाय नमः । ॐ उच्छिष्टपूजनरताय नमः । ११० ॐ उच्छिष्टजपसिद्धिदाय नमः । ॐ उच्छिष्टहोमसम्प्रीताय नमः । ॐ उच्छिष्टव्रतधारकाय नमः । ॐ उच्छिष्टतर्पणप्रीताय नमः । ॐ उच्छिष्टमार्जने रताय नमः । ॐ उच्छिष्टब्राह्मणकुलसन्तर्पणसुसाधिताय नमः । ॐ उच्छिष्टविघ्नराजेन्द्राय नमः । ॐ उच्छिष्टवस्तुपूजिताय नमः । ॐ उच्छिष्टमन्त्रसञ्जापिसर्वसिद्धिप्रकाशकाय नमः । ॐ उच्छिष्टोपचाररताय नमः । १२० ॐ उच्छिष्टोपास्तिसिद्धिदाय नमः । ॐ मदिरानन्दसन्तोषिणे नमः । ॐ सदामत्ताय नमः । ॐ मदोद्धताय नमः । ॐ मधुराशिने नमः । ॐ मधूद्रिक्ताय नमः । ॐ मधुपानपरायणाय नमः । ॐ मधुस्नानपरामोदाय नमः । ॐ माधुर्यैकरसाश्रयाय नमः । ॐ मदिरासिन्धुसम्भूताय नमः । १३० ॐ सुधामज्जनतत्पराय नमः । ॐ मदिराम्बुधिसंस्थायिने नमः । ॐ मदिरामज्जने रताय नमः । ॐ मदिरातर्पणप्रीताय नमः । ॐ मदिरामार्जनादृताय नमः । ॐ मदिरामोदसन्तोषिणे नमः । ॐ मदिरामोदलोलुपाय नमः । ॐ कादम्बरीरसोन्मत्ताय नमः । ॐ कादम्बरीप्रियाश्रिताय नमः । ॐ द्राक्षारससमाह्लादिने नमः । १४० ॐ द्राक्षारसमदोल्वणाय नमः । ॐ वारुणीमदघूर्णाम्बाय नमः । ॐ वारुणीमदविह्वलाय नमः । ॐ नारिकेलरसास्वादिने नमः । ॐ नारिकेलमधुप्रियाय नमः । ॐ तालफलरसोन्मत्ताय नमः । ॐ तालमद्यपरायणाय नमः । ॐ पानसमद्यसुप्रीताय नमः । ॐ कदलीमद्यपानकाय नमः । ॐ दाडिमीरससम्प्रीताय नमः । १५० ॐ गौडपानकलम्पटाय नमः । ॐ पौष्पीपानसदामत्ताय नमः । ॐ पौष्पीकरण्डमण्डिताय नमः । ॐ युवतीसुरतासक्ताय नमः । ॐ युवतीमणिते रताय नमः । ॐ मोदप्रमोदकृत्सङ्गाय नमः । ॐ भैरवानन्दवत्सलाय नमः । ॐ शुक्लसेव्याय नमः । ॐ शुक्लतुष्टाय नमः । ॐ शुक्लसिद्धिवरप्रदाय नमः । १६० ॐ शुक्लधातुमहःपूज्याय नमः । ॐ ओजश्शक्तिप्रकाशनाय नमः । ॐ शुक्रादिमान्त्रिकैर्धुर्यैरर्धरात्रप्रपूजिताय नमः । ॐ मुक्तकच्छाय नमः । ॐ मुक्तकेशाय नमः । ॐ नग्नकान्तासमाश्रिताय नमः । ॐ ताम्बूलचर्वणायुक्ताय नमः । ॐ कर्पूरवीटिकामदाय नमः । ॐ कान्ताचर्वितताम्बूलरसास्वादनलम्पटाय नमः । ॐ विशेषतः कलियुगेसिद्धिदाय सुरपादपाय नमः । १७० ॐ महापद्मादिखर्वान्तनिधिपौष्कल्यपोषकाय नमः । ॐ स्वल्पायाससुसम्प्रीताय नमः । ॐ कलौ तूर्णफलप्रदाय नमः । ॐ पितृकाननसंस्थायिने नमः । ॐ पितृकाननसिद्धिदाय नमः । ॐ माचीपत्रसमाराध्याय नमः । ॐ बृहतीपत्रतोषिताय नमः । ॐ दूर्वायुग्मनमस्याकाय नमः । ॐ धुत्तूरदलपूजिताय नमः । ॐ विष्णुक्रान्तसपर्याकाय नमः । १८० ॐ गण्डलीपत्रसेविताय नमः । ॐ अर्कपत्रसुसंराध्याय नमः । ॐ अर्जुनपत्रकपूजिताय नमः । ॐ नानापत्रसुसम्प्रीताय नमः । ॐ नानापुष्पसुसेविताय नमः । ॐ सहस्रार्चनपूजायांसहस्रकमलप्रियाय नमः । ॐ पुन्नागपुष्पसम्प्रीताय नमः । ॐ मन्दारकुसुमप्रियाय नमः । ॐ बकुलपुष्पसन्तुष्टाय नमः । ॐ धुत्तूरसुमशेखराय नमः । १९० ॐ रसालपुष्पसंशोभिने नमः । ॐ केतकीपुष्पसुप्रियाय नमः । ॐ पारिजातप्रसूनाढ्याय नमः । ॐ माधवीकुन्दतोषिताय नमः । ॐ शम्यालङ्कारसुप्रीताय नमः । ॐ मृणालपाटलीप्रियाय नमः । ॐ लक्षपङ्कजपूजायामणिमादिप्रसाधकाय नमः । ॐ संहितापदपाठादिघनान्तज्ञानदायकाय नमः । ॐ अष्टावधानसन्धायिने नमः । ॐ शतावधानपोषकाय नमः । २०० ॐ साहस्रिकावधानश्रीपरिपाटीप्रवर्धनाय नमः । ॐ मनश्चिन्तितविज्ञात्रे नमः । ॐ मनसा चिन्तितप्रदाय नमः । ॐ भक्तत्राणव्यग्रचित्ताय नमः । ॐ स्मृतिमात्राभयप्रदाय नमः । ॐ स्मृतिमात्राखिलत्रात्रे नमः । ॐ साधकेष्टदतल्लजाय नमः । ॐ स्वसाधकविपक्षच्छिदे नमः । ॐ विपक्षजनभक्षकाय नमः । ॐ व्याधिहन्त्रे नमः । २१० ॐ व्यथाहन्त्रे नमः । ॐ महाव्याधिविनाशनाय नमः । ॐ पैत्तिकार्तिप्रशमनाय नमः । ॐ श्लैष्मिकस्य विनाशकाय नमः । ॐ वातिकज्वरविध्वंसिने नमः । ॐ शूलगुल्मादिनाशनाय नमः । ॐ नेत्ररोगप्रशमनाय नमः । ॐ नित्यज्वरविनाशनाय नमः । ॐ कासादिव्याधिसंहर्त्रे नमः । ॐ सर्वज्वरविनाशनाय नमः । २२० ॐ आधिहन्त्रे नमः । ॐ तमोहन्त्रे नमः । ॐ सर्वापद्विनिवारकाय नमः । ॐ धनदायिने नमः । ॐ यशोदायिने नमः । ॐ ज्ञानदायिने नमः । ॐ सुरद्रुमाय नमः । ॐ कल्यत्वदायकाय नमः । ॐ चिन्तामणये नमः । ॐ आयुष्यदायकाय नमः । २३० ॐ परकायप्रवेशादियोगसिद्धिविधायकाय नमः । ॐ महाधनित्वसन्धात्रे नमः । ॐ धराधीशत्वदायकाय नमः । ॐ तापत्रयाग्निसन्तप्तसमाह्लादनकौमुद्यै नमः । ॐ जन्मव्याधिजरामृत्युमहाव्याधिविनाशकाय नमः । ॐ संसारकाननच्छेत्रे नमः । ॐ ब्रह्मविद्याप्रकाशकाय नमः । ॐ संसारभयविध्वंसिपराकामकलावपुषे नमः । ॐ उच्छिष्टाख्यगणाधीशाय नमः । ॐ वामाचरणपूजिताय नमः । २४० ॐ नवाक्षरीमन्त्रराजाय नमः । ॐ दशवर्णकमन्त्रराजे नमः । ॐ एकादशाक्षरीरूपाय नमः । ॐ सप्तविंशतिवर्णकाय नमः । ॐ षट्त्रिंशदर्णसम्पूज्याय नमः । ॐ बलिमन्त्रप्रपूजिताय नमः । ॐ द्वादशाक्षरसन्निष्ठाय नमः । ॐ एकोनविंशतीष्टदाय नमः । ॐ सप्तवर्णाधिकत्रिंशदर्णमन्त्रस्वरूपकाय नमः । ॐ द्वात्रिंशदक्षरारूढाय नमः । २५० ॐ दक्षिणाचारसेविताय नमः । ॐ पञ्चावृतिकयन्त्रोद्धवरिवस्याविधिप्रियाय नमः । ॐ नववर्णादिमन्त्रौघसम्प्रपूजितपादुकाय नमः । ॐ परौघीयगुरुव्यूहसन्तर्पणसुसाधिताय नमः । ॐ महत्पदसमायुक्तपादुकापूजनप्रियाय नमः । ॐ दक्षिणाभिमुखेशस्यपूजनेन वरप्रदाय नमः । ॐ दिव्यवृन्दसिद्धवृन्दमानवौघनिषेविताय नमः । ॐ त्रिवारं मूलमन्त्रेणबिन्दुचक्रे सुतर्पिताय नमः । ॐ षडङ्गदेवतापूज्याय नमः । ॐ षण्मुखाम्नायराजिताय नमः । २६० ॐ तुषारसमशोभाकहृदयाम्बानमस्कृताय नमः । ॐ स्फटिकाश्मसमानश्रीशिरोदेवीनिषेविताय नमः । ॐ श्यामशोभासमुज्जृम्भिशिखादेवीप्रपूजिताय नमः । ॐ इन्द्रनीलमणिच्छायकवचाम्बापरीवृताय नमः । ॐ कृष्णवर्णसुशोभिश्रीनेत्रमातृसमावृताय नमः । ॐ आरुण्यौघनदीमज्जदस्त्राम्बासेविताङ्घ्रिकाय नमः । ॐ वसुदलाब्जमूलेषुशक्त्यष्टकसमन्विताय नमः । ॐ विद्यापूज्याय नमः । ॐ विश्वधात्रीभोगदार्चितपादुकाय नमः । ॐ विघ्ननाशिकया पूज्याय नमः । २७० ॐ निधिप्रदापरीवृताय नमः । ॐ पापघ्निकापूज्यपादाय नमः । ॐ पुण्यादेवीनिषेविताय नमः । ॐ अन्वर्थनामसंराजिशशिप्रभाप्रपूजिताय नमः । ॐ दलाष्टकस्य मध्येषुसिद्ध्यष्टकपरीवृताय नमः । ॐ अणिम्नीपूजितपदाय नमः । ॐ महिम्न्यर्चितपादुकाय नमः । ॐ लघिम्नीचिन्तितपदाय नमः । ॐ गरिम्णीपूजिताङ्घ्रिकाय नमः । ॐ ईशित्वार्चितदेवेन्द्राय नमः । २८० ॐ वशित्वार्चितवैभवाय नमः । ॐ प्राकाम्यदेवीसम्प्रीताय नमः । ॐ प्राप्तिसिद्धिप्रपूजिताय नमः । ॐ बाह्याष्टदलराजीवेवक्रतुण्डादिरूपकाय नमः । ॐ वक्रतुण्डाय नमः । ॐ एकदंष्ट्राय नमः । ॐ महोदराय नमः । ॐ गजाननाय नमः । ॐ लम्बोदराख्याय नमः । ॐ विकटाय नमः । २९० ॐ विघ्नराजे नमः । ॐ धूम्रवर्णकाय नमः । ॐ बहिरष्टदलाग्रेषुब्राह्म्यादिमातृसेविताय नमः । ॐ मृगचर्मावृतस्वर्णकान्तिब्राह्मीसमावृताय नमः । ॐ नृकपालादिसम्बिभ्रच्चन्द्रगौरमहेशिकाय नमः । ॐ इन्द्रगोपारुणच्छायकौमारीवन्द्यपादुकाय नमः । ॐ नीलमेघसमच्छायवैष्णवीसुपरिष्कृताय नमः । ॐ अञ्जनाद्रिसमानश्रीवाराहीपर्यलङ्कृताय नमः । ॐ इन्द्रनीलप्रभापुञ्जलसदिन्द्राणिकायुताय नमः । ॐ शोणवर्णसमुल्लासिचामुण्डार्चितपादुकाय नमः । ३०० ॐ स्वर्णकान्तितिरस्कारिमहालक्ष्मीनिषेविताय नमः । ॐ ऐरावतादिवज्रादिदेवेन्द्रादिप्रपूजिताय नमः । ॐ पञ्चावृतिनमस्यायामणिमादिप्रकाशकाय नमः । ॐ सङ्गुप्तविद्याय नमः । ॐ सङ्गुप्तवरिवस्याविधिप्रियाय नमः । ॐ वामाचरणसुप्रीताय नमः । ॐ क्षिप्रसन्तुष्टमानसाय नमः । ॐ कोङ्काचलशिरोवर्तिने नमः । ॐ कोङ्काचलजनप्रियाय नमः । ॐ कोङ्काम्बुदजलास्वादिने नमः । ३१० ॐ कावेरीतीरवासकाय नमः । ॐ जाह्नवीमज्जनासक्ताय नमः । ॐ कालिन्दीमज्जने रताय नमः । ॐ शोणभद्राजलोद्भूताय नमः । ॐ शोणपाषाणरूपकाय नमः । ॐ सरय्वापःप्रवाहस्थाय नमः । ॐ नर्मदावारिवासकाय नमः । ॐ कौशिकीजलसंवासाय नमः । ॐ चन्द्रभागाम्बुनिष्ठिताय नमः । ॐ ताम्रपर्णीतटस्थायिने नमः । ३२० ॐ महासारस्वतप्रदाय नमः । ॐ महानदीतटावासाय नमः । ॐ ब्रह्मपुत्राम्बुवासकाय नमः । ॐ तमसातम आकाराय नमः । ॐ महातमोपहारकाय नमः । ॐ क्षीरापगातीरवासिने नमः । ॐ क्षीरनीरप्रवर्धकाय नमः । ॐ कामकोटीपीठवासिने नमः । ॐ शङ्करार्चितपादुकाय नमः । ॐ ऋश्यश‍ृङ्गपुरस्थायिने नमः । ३३० ॐ सुरेशार्चितवैभवाय नमः । ॐ द्वारकापीठसंवासिने नमः । ॐ पद्मपादार्चिताङ्घ्रिकाय नमः । ॐ जगन्नाथपुरस्थायिने नमः । ॐ तोटकाचार्यसेविताय नमः । ॐ ज्योतिर्मठालयस्थायिने नमः । ॐ हस्तामलकपूजिताय नमः । ॐ विद्याभोगयशोमोक्षयोगलिङ्गप्रतिष्ठिताय नमः । ॐ पञ्चलिङ्गप्रतिष्ठायिने नमः । ॐ द्वादशलिङ्गसंस्थिताय नमः । ३४० ॐ कोलाचलपुरस्थायिने नमः । ॐ कामेशीनगरेश्वराय नमः । ॐ ज्वालामुखीमुखस्थायिने नमः । ॐ श्रीशैलकृतवासकाय नमः । ॐ लङ्केश्वराय नमः । ॐ कुमारीशाय नमः । ॐ काशीशाय नमः । ॐ मथुरेश्वराय नमः । ॐ मलयाद्रिशिरोवासिने नमः । ॐ मलयानिलसेविताय नमः । ३५० ॐ शोणाद्रिशिखरारूढाय नमः । ॐ शोणाद्रीशप्रियङ्कराय नमः । ॐ जम्बूवनान्तमध्यस्थाय नमः । ॐ वल्मीकपुरमध्यगाय नमः । ॐ पञ्चाशत्पीठनिलयाय नमः । ॐ पञ्चाशदक्षरात्मकाय नमः । ॐ अष्टोत्तरशतक्षेत्राय नमः । ॐ अष्टोत्तरशतपूजिताय नमः । ॐ रत्नशैलकृतावासाय नमः । ॐ शुद्धज्ञानप्रदायकाय नमः । ३६० ॐ शातकुम्भगिरिस्थायिने नमः । ॐ शातकुम्भोदरस्थिताय नमः । ॐ गोमयप्रतिमाविष्टाय नमः । ॐ श्वेतार्कतनुपूजिताय नमः । ॐ हरिद्राबिम्बसुप्रीताय नमः । ॐ निम्बबिम्बसुपूजिताय नमः । ॐ अश्वत्थमूलसंस्थायिने नमः । ॐ वटवृक्षाधरस्थिताय नमः । ॐ निम्बवृक्षस्य मूलस्थाय नमः । ॐ प्रतिग्रामाधिदैवताय नमः । ३७० ॐ अश्वत्थनिम्बसंयोगेप्रियालिङ्गितमूर्तिकाय नमः । ॐ गम्बीजरूपाय नमः । ॐ एकार्णाय नमः । ॐ गणाध्यक्षाय नमः । ॐ गणाधिपाय नमः । ॐ ग्लैम्बीजाख्याय नमः । ॐ गणेशानाय नमः । ॐ गोङ्काराय नमः । ॐ एकवर्णकाय नमः । ॐ विरिरूपाय नमः । ३८० ॐ विघ्नहन्त्रे नमः । ॐ दृष्टादृष्टफलप्रदाय नमः । ॐ पत्नीवराङ्गसत्पाणये नमः । ॐ सिन्दूराभाय नमः । ॐ कपालभृते नमः । ॐ लक्ष्मीगणेशाय नमः । ॐ हेमाभाय नमः । ॐ एकोनत्रिंशदक्षराय नमः । ॐ वामाङ्गाविष्टलक्ष्मीकाय नमः । ॐ महाश्रीप्रविधायकाय नमः । ३९० ॐ त्र्यक्षराय नमः । ॐ शक्तिगणपाय नमः । ॐ सर्वसिद्धिप्रपूरकाय नमः । ॐ चतुरक्षरशक्तीशाय नमः । ॐ हेमच्छायाय नमः । ॐ त्रिणेत्रकाय नमः । ॐ क्षिप्रप्रसादपङ्क्त्यर्णाय नमः । ॐ रक्ताभाय नमः । ॐ कल्पवल्लिभृते नमः । ॐ पञ्चवक्त्राय नमः । ४०० ॐ सिंहवाहाय नमः । ॐ हेरम्बाय नमः । ॐ चतुरर्णकाय नमः । ॐ सुब्रह्मण्यगणेशानाय नमः । ॐ धात्वर्णाय नमः । ॐ सर्वकामदाय नमः । ॐ अरुणाभतनुश्रीकाय नमः । ॐ कुक्कुटोद्यत्करान्विताय नमः । ॐ अष्टाविंशतिवर्णात्ममन्त्रराजसुपूजिताय नमः । ॐ गन्धर्वसिद्धसंसेव्याय नमः । ४१० ॐ व्याघ्रद्विपादिभीकराय नमः । ॐ मन्त्रशास्त्रमहोदन्वत्समुद्यतकलानिधये नमः । ॐ जनसम्बाधसम्मोहिने नमः । ॐ नवद्रव्यविशेषकाय नमः । ॐ कामनाभेदसंसिद्धविविधध्यानभेदकाय नमः । ॐ चतुरावृत्तिसन्तृप्तिप्रीताय नमः । ॐ अभीष्टसमर्पकाय नमः । ॐ चन्द्रचन्दनकाश्मीरकस्तूरीजलतर्पिताय नमः । ॐ शुण्डाग्रजलसन्तृप्तिकैवल्यफलदायकाय नमः । ॐ शिरःकृतपयस्तृप्तिसर्वसम्पद्विधायकाय नमः । ४२० ॐ गुह्यदेशमधुद्रव्यसन्तृप्त्याकामदायकाय नमः । ॐ नेत्रद्वयमधुद्रव्यतृप्त्याकृष्टिविधायकाय नमः । ॐ पृष्ठदेशघृतद्रव्यतृप्तिभूपवशङ्कराय नमः । ॐ एरण्डतैलसन्तृप्तिरण्डाकर्षकनाभिकाय नमः । ॐ ऊरुयुग्मकतैलीयतर्पणातिप्रमोदिताय नमः । ॐ प्रीतिप्रवर्धकांसीयपयःपयःप्रतर्पणाय नमः । ॐ धर्मवर्धकतुण्डीयद्रव्यत्रयसुतर्पणाय नमः । ॐ अष्टद्रव्याहुतिप्रीताय नमः । ॐ विविधद्रव्यहोमकाय नमः । ॐ ब्राह्ममुहूर्तनिष्पन्नहोमकर्मप्रसादिताय नमः । ४३० ॐ मधुद्रव्यकहोमेनस्वर्णसमृद्धिवर्धकाय नमः । ॐ गोदुग्धकृतहोमेनगोसमृद्धिविधायकाय नमः । ॐ आज्याहुतिकहोमेनलक्ष्मीलासविलासकाय नमः । ॐ शर्कराहुतिहोमेनकाष्ठाष्टकयशःप्रदाय नमः । ॐ दधिद्रव्यकहोमेनसर्वसम्पत्तिदायकाय नमः । ॐ शाल्यन्नकृतहोमेनान्नसमृद्धिवितारकाय नमः । ॐ सतण्डुलतिलाहुत्याद्रव्यकदम्बपूरकाय नमः । ॐ लाजाहुतिकहोमेनदिगन्तव्यापिकीर्तिदाय नमः । ॐ जातीप्रसूनहोमेनमेधाप्रज्ञाप्रकाशकाय नमः । ॐ दूर्वात्रिकीयहोमेनपूर्णायुःप्रतिपादकाय नमः । ४४० ॐ सुपीतसुमहोमेनवैरिभूपतिशिक्षकाय नमः । ॐ विभीतकसमिद्धोमैःस्तम्भनोच्चाटसिद्धिदाय नमः । ॐ अपामार्गसमिद्धौमैःपण्ययोषावशङ्कराय नमः । ॐ एरण्डकसमिद्धोमैःरण्डासङ्घवशङ्कराय नमः । ॐ निम्बद्रुदलहोमेनविद्वेषणविधायकाय नमः । ॐ धृताक्तदौग्धशाल्यन्नहोमैरिष्टफलप्रदाय नमः । ॐ तिलादिचतुराहुत्यासर्वप्राणिवशङ्कराय नमः । ॐ नानाद्रव्यसमिद्धोमैराकर्षणादिसिद्धिदाय नमः । ॐ त्रैलोक्यमोहनाय नमः । ॐ विघ्नाय नमः । ४५० ॐ त्र्यधिकत्रिंशदर्णकाय नमः । ॐ द्वादशाक्षरशक्तीशाय नमः । ॐ पत्नीवराङ्गहस्तकाय नमः । ॐ मुक्ताचन्द्रौघदीप्ताभाय नमः । ॐ विरिविघ्नेशपद्धतये नमः । ॐ एकादशाक्षरीमन्त्रोल्लासिने नमः । ॐ भोगगणाधिपाय नमः । ॐ द्वात्रिंशदर्णसंयुक्ताय नमः । ॐ हरिद्रागणपाय नमः । ॐ महते नमः । ४६० ॐ जगत्त्रयहिताय नमः । ॐ भोगमोक्षदाय नमः । ॐ कविताकराय नमः । ॐ षडर्णाय नमः । ॐ पापविध्वंसिने नमः । ॐ सर्वसौभाग्यदायकाय नमः । ॐ वक्रतुण्डाभिधाय नमः । ॐ श्रीमते नमः । ॐ भजतां कामदाय मणये नमः । ॐ मेघोल्कादिमहामन्त्राय नमः । ४७० ॐ सर्ववश्यफलप्रदाय नमः । ॐ आथर्वणिकमन्त्रात्मने नमः । ॐ रायस्पोषादिमन्त्रराजे नमः । ॐ वक्रतुण्डेशगायत्रीप्रतिपादितवैभवाय नमः । ॐ पिण्डमन्त्रादिमालान्तसर्वमन्त्रौघविग्रहाय नमः । ॐ सञ्जप्तिहोमसन्तृप्तिसेकभोजनसाधिताय नमः । ॐ पञ्चाङ्गकपुरश्चर्याय नमः । ॐ अर्णलक्षजपसाधिताय नमः । ॐ कोट्यावृत्तिकसञ्जप्तिसिद्धीश्वरत्वदायकाय नमः । ॐ कृष्णाष्टमीसमारब्धमासेनैकेनसाधिताय नमः । ४८० ॐ मातृकया पुटीकृत्यमासेनैकेन साधिताय नमः । ॐ भूतलिप्या पुटीकृत्यमासेनैकेन साधिताय नमः । ॐ त्रिषष्ट्यक्षरसंयुक्तमातृकापुटसिद्धिदाय नमः । ॐ कृष्णाष्टमीसमारब्धदिनसप्तकसिद्धिदाय नमः । ॐ अर्केन्दुग्रहकालीनजपाज्झटितिसिद्धिदाय नमः । ॐ निशात्रिकालपूजाकमासेनैकेनसिद्धिदाय नमः । ॐ मन्त्रार्णौषधिनिष्पन्नगुटिकाभिःसुसिद्धिदाय नमः । ॐ सूर्योदयसमारम्भदिनेनैकेनसाधिताय नमः । ॐ सहस्राराम्बुजारूढदेशिकस्मृतिसिद्धिदाय नमः । ॐ शिवोंहभावनासिद्धसर्वसिद्धिविलासकाय नमः । ४९० ॐ पराकामकलाध्यानसिद्धीश्वरत्वदायकाय नमः । ॐ अकाराय नमः । ॐ अग्रियपूजाकाय नमः । ॐ अमृतानन्ददायकाय नमः । ॐ अनन्ताय नमः । ॐ अनन्तावतारेष्वनन्तफलदायकाय नमः । ॐ अष्टाङ्गपातसम्प्रीताय नमः । ॐ अष्टविधमैथुनप्रियाय नमः । ॐ अष्टपुष्पसमाराध्याय नमः । ॐ अष्टाध्यायीज्ञानदायकाय नमः । ५०० ॐ आरब्धकर्मनिर्विघ्नपूरयित्रे नमः । ॐ आक्षपाटिकाय नमः । ॐ इन्द्रगोपसमानश्रिये नमः । ॐ इक्षुभक्षणलालसाय नमः । ॐ ईकारवर्णसम्बुद्धपराकामकलात्मकाय नमः । ॐ ईशानपुत्राय नमः । ॐ ईशानाय नमः । ॐ ईषणात्रयमार्जकाय नमः । ॐ उद्दण्डाय नमः । ॐ उग्राय नमः । ५१० ॐ उदग्राय नमः । ॐ उण्डेरकबलिप्रियाय नमः । ॐ ऊर्जस्वते नमः । ॐ ऊष्मलमदाय नमः । ॐ ऊहापोहदुरासदाय नमः । ॐ ऋजुचित्तैकसुलभाय नमः । ॐ ऋणत्रयविमोचकाय नमः । ॐ ऋगर्थवेत्रे नमः । ॐ ॠकाराय नमः । ॐ ॠकाराक्षररूपधृजे नमः । ५२० ॐ ऌवर्णरूपाय नमः । ॐ ॡवर्णाय नमः । ॐ ॡकाराक्षरपूजिताय नमः । ॐ एधिताखिलभक्तश्रिये नमः । ॐ एधिताखिसंश्रयाय नमः । ॐ एकाररूपाय नमः । ॐ ऐकाराय नमः । ॐ ऐम्पुटितस्मृतिबिन्दुकाय नमः । ॐ ओङ्कारवाच्याय नमः । ॐ ओङ्काराय नमः । ५३० ॐ ओङ्काराक्षररूपधृजे नमः । ॐ औङ्काराढ्यगभूयुक्ताय नमः । ॐ औम्पूर्वयुग्गकारकाय नमः । ॐ अंशांशिभावसन्दृष्टाय नमः । ॐ अंशांशिभावविवर्जिताय नमः । ॐ अःकारान्तसमस्ताच्कवर्णमण्डलपूजिताय नमः । ॐ कतृतीयविसर्गाढ्याय नमः । ॐ कतृतीयार्णकेवलाय नमः । ॐ कर्पूरतिलकोद्भासिललाटोर्ध्वप्रदेशकाय नमः । ॐ खल्वाटभूमिसंरक्षिणे नमः । ५४० ॐ खल्वाटबुद्धिभेषजाय नमः । ॐ खट्वाङ्गायुधसंयुक्ताय नमः । ॐ खड्गोद्यतकरान्विताय नमः । ॐ खण्डिताखिलदुर्भिक्षाय नमः । ॐ खनिलक्ष्मीप्रदर्शकाय नमः । ॐ खदिराधिकसाराढ्याय नमः । ॐ खलीकृतविपक्षकाय नमः । ॐ गान्धर्वविद्याचतुराय नमः । ॐ गन्धर्वनिकरप्रियाय नमः । ॐ घपूर्वबीजसन्निष्टाय नमः । ५५० ॐ घोरघर्घरबृंहिताय नमः । ॐ घण्टानिनादसन्तुष्टाय नमः । ॐ घार्णाय नमः । ॐ घनागमप्रियाय नमः । ॐ चतुर्वेदेषु सङ्गीताय नमः । ॐ चतुर्थवेदनिष्ठिताय नमः । ॐ चतुर्दशकसंयुक्तचतुर्युक्तचतुश्शताय नमः । ॐ चतुर्थीपूजनप्रीताय नमः । ॐ चतुरात्मने नमः । ॐ चतुर्गतये नमः । ५६० ॐ चतुर्थीतिथिसम्भूताय नमः । ॐ चतुर्वर्गफलप्रदाय नमः । ॐ छत्रिणे नमः । ॐ छद्मने नमः । ॐ छलाय नमः । ॐ छन्दोवपुषे नमः । ॐ छन्दोवतारकाय नमः । ॐ जगद्बन्धवे नमः । ॐ जगन्मात्रे नमः । ॐ जगद्रक्षिणे नमः । ५७० ॐ जगन्मयाय नमः । ॐ जगद्योनये नमः । ॐ जगद्रूपाय नमः । ॐ जगदात्मने नमः । ॐ जगन्निधये नमः । ॐ जरामरणविध्वंसिने नमः । ॐ जगदानन्ददायकाय नमः । ॐ जागुडानुकृतिच्छायाय नमः । ॐ जाग्रदादिप्रकाशकाय नमः । ॐ जाम्बूनदसमच्छायाय नमः । ५८० ॐ जपसम्प्रीतमानसाय नमः । ॐ जपयोगसुसंवेद्याय नमः । ॐ जपतत्परसिद्धिदाय नमः । ॐ जपाकुसुमसङ्काशाय नमः । ॐ जातीपूजकवाक्प्रदाय नमः । ॐ जयन्तीदिनसुप्रीताय नमः । ॐ जयन्तीपूजिताङ्घ्रिकाय नमः । ॐ जगद्भानतिरस्कारिणे नमः । ॐ जगद्भानतिरोहिताय नमः । ॐ जगद्रूपमहामायाधिष्ठानचिन्मयात्मकाय नमः । ५९० ॐ झञ्झानिलसमश्वासिन नमः । ॐ झिल्लिकासमकान्तिकाय नमः । ॐ झलझ्झलासुसंशोभिशूर्पाकृतिद्विकर्णकाय नमः । ॐ टङ्ककर्मविनाभावस्वयम्भूतकलेवराय नमः । ॐ ठक्कुराय नमः । ॐ ठक्कुराराध्याय नमः । ॐ ठक्कुराकृतिशोभिताय नमः । ॐ डिण्डिमस्वनसंवादिने नमः । ॐ डमरुप्रियपुत्रकाय नमः । ॐ ढक्कावादनसन्तुष्टाय नमः । ६०० ॐ ढुण्ढिराजविनायकाय नमः । ॐ तुन्दिलाय नमः । ॐ तुन्दिलवपुषे नमः । ॐ तपनाय नमः । ॐ तापरोषध्ने नमः । ॐ तारकब्रह्मसंस्थानाय नमः । ॐ तारानायकशेखराय नमः । ॐ तारुण्याढ्यवधूसङ्गिने नमः । ॐ तत्त्ववेत्रे नमः । ॐ त्रिकालविदे नमः । ६१० ॐ स्थूलाय नमः । ॐ स्थूलकराय नमः । ॐ स्थेयाय नमः । ॐ स्थितिकर्त्रे नमः । ॐ स्थितिप्रदाय नमः । ॐ स्थाणवे नमः । ॐ स्थिराय नमः । ॐ स्थलेशायिने नमः । ॐ स्थाण्डिलकुलपूजिताय नमः । ॐ दुःखहन्त्रे नमः । ६२० ॐ दुःखदायिने नमः । ॐ दुर्भिक्षादिविनाशकाय नमः । ॐ धनधान्यप्रदाय नमः । ॐ ध्येयाय नमः । ॐ ध्यानस्तिमितलोचनाय नमः । ॐ धीराय नमः । ॐ धिये नमः । ॐ धीरधिये नमः । ॐ धुर्याय नमः । ॐ धुरीणत्वप्रदायकाय नमः । ६३० ॐ ध्यानयोगैकसन्दृष्टाय नमः । ॐ ध्यानयोगैकलम्पटाय नमः । ॐ नारायणप्रियाय नमः । ॐ नम्याय नमः । ॐ नरनारीजनाश्रयाय नमः । ॐ नग्नपूजनसन्तुष्टाय नमः । ॐ नग्ननीलासमावृताय नमः । ॐ निरञ्जनाय नमः । ॐ निराधाराय नमः । ॐ निर्लेपाय नमः । ६४० ॐ निरवग्रहाय नमः । ॐ निशीथिनीनमस्याकाय नमः । ॐ निशीथिनीजपप्रियाय नमः । ॐ नामपारायणप्रीताय नमः । ॐ नामरूपप्रकाशकाय नमः । ॐ पुराणपुरुषाय नमः । ॐ प्रातस्सन्ध्यारुणवपुःप्रभाय नमः । ॐ फुल्लपुष्पसमूह श्रीसम्भूषितसुमस्तकाय नमः । ॐ फाल्गुनानुजपूजाकाय नमः । ॐ फेत्कारतन्त्रवर्णिताय नमः । ६५० ॐ ब्राह्मणादिसमाराध्याय नमः । ॐ बालपूज्याय नमः । ॐ बलप्रदाय नमः । ॐ बाणार्चितपदद्वन्द्वाय नमः । ॐ बालकेलिकुतूहलाय नमः । ॐ भवानीहृदयानन्दिने नमः । ॐ भावगम्याय नमः । ॐ भवात्मजाय नमः । ॐ भवेशाय नमः । ॐ भव्यरूपाढ्याय नमः । ६६० ॐ भार्गवेशाय नमः । ॐ भृगोःसुताय नमः । ॐ भव्याय नमः । ॐ भव्यकलायुक्ताय नमः । ॐ भावनावशतत्पराय नमः । ॐ भगवते नमः । ॐ भक्तिसुलभाय नमः । ॐ भयहन्त्रे नमः । ॐ भयप्रदाय नमः । ॐ मायाविने नमः । ६७० ॐ मानदाय नमः । ॐ मानिने नमः । ॐ मनोभिमानशोधकाय नमः । ॐ महाहवोद्यतक्रीडाय नमः । ॐ मन्दहासमनोहराय नमः । ॐ मनस्विने नमः । ॐ मानविध्वंसिने नमः । ॐ मदलालसमानसाय नमः । ॐ यशस्विने नमः । ॐ यशाशंसिने नमः । ६८० ॐ याज्ञिकाय नमः । ॐ याज्ञिकप्रियाय नमः । ॐ राजराजेश्वराय नमः । ॐ राज्ञे नमः । ॐ रामाय नमः । ॐ रमणलम्पटाय नमः । ॐ रसराजसमास्वादिने नमः । ॐ रसराजैकपूजिताय नमः । ॐ लक्ष्मीवते नमः । ॐ लक्ष्मसम्पन्नाय नमः । ६९० ॐ लक्ष्याय नमः । ॐ लक्षणसंयुताय नमः । ॐ लक्ष्यलक्षणभावस्थाय नमः । ॐ लययोगविभाविताय नमः । ॐ वीरासनसमासीनाय नमः । ॐ वीरवन्द्याय नमः । ॐ वरेण्यदाय नमः । ॐ विविधार्थज्ञानदात्रे नमः । ॐ वेदवेदान्तवित्तमाय नमः । ॐ शिखिवाहसमारूढाय नमः । ७०० ॐ शिखिवाहननाथिताय नमः । ॐ श्रीविद्योपासनप्रीताय नमः । ॐ श्रीविद्यामन्त्रैविग्रहाय नमः । ॐ षडाधारक्रमप्रीताय नमः । ॐ षडाम्नायेषु संस्थिताय नमः । ॐ षड्दर्शनीपारदृश्वने नमः । ॐ षडध्वातीतरूपकाय नमः । ॐ षडूर्मिवृन्दविध्वंसिने नमः । ॐ षट्कोणमध्यबिन्दुगाय नमः । ॐ षट्त्रिंशत्तत्त्वसन्निष्ठाय नमः । ७१० ॐ षट्कर्मसङ्घसिद्धिदाय नमः । ॐ षड्वैरिवर्गविध्वंसिविघ्नेश्वरगजाननाय नमः । ॐ सत्ताज्ञानादिरूपाढ्याय नमः । ॐ साहसाद्भुतखेलनाय नमः । ॐ सर्परूपधराय नमः । ॐ संविदे नमः । ॐ संसाराम्बुधितारकाय नमः । ॐ सर्पसङ्घसमाश्लिष्टाय नमः । ॐ सर्पकुण्डलितोदराय नमः । ॐ सप्तविंशतिऋक्पूज्याय नमः । ७२० ॐ स्वाहायुङ्मन्त्रविग्रहाय नमः । ॐ सर्वकर्मसमारम्भसम्पूजितपदद्वयाय नमः । ॐ स्वयम्भुवे नमः । ॐ सत्यसङ्कल्पाय नमः । ॐ स्वयम्प्रकाशमूर्तिकाय नमः । ॐ स्वयन्भूलिङ्गसंस्थायिने नमः । ॐ स्वयम्भूलिङ्गपूजिताय नमः । ॐ हव्याय नमः । ॐ हुतप्रियाय नमः । ॐ होत्रे नमः । ७३० ॐ हुतभुजे नमः । ॐ हवनप्रियाय नमः । ॐ हरलालनसन्तुष्टाय नमः । ॐ हलाहलाशिपुत्रकाय नमः । ॐ ह्रीङ्काररूपाय नमः । ॐ हुङ्काराय नमः । ॐ हाहाकारसमाकुलाय नमः । ॐ हिमाचलसुतासूनवे नमः । ॐ हेमभास्वरदेहकाय नमः । ॐ हिमाचलशिखारूढाय नमः । ७४० ॐ हिमधामसमद्युतये नमः । ॐ क्षोभहन्त्रे नमः । ॐ क्षुधाहन्त्रे नमः । ॐ क्षैण्यहन्त्रे नमः । ॐ क्षमाप्रदाय नमः । ॐ क्षमाधारिणे नमः । ॐ क्षमायुक्ताय नमः । ॐ क्षपाकरनिभाय नमः । ॐ क्षमिणे नमः । ॐ ककारादिक्षकारान्तसर्वहल्कप्रपूजिताय नमः । ७५० ॐ अकारादिक्षकारान्तवर्णमालाविजृम्भिताय नमः । ॐ अकारादिक्षकारान्तमहासरस्वतीमयाय नमः । ॐ स्थूलतमशरीराढ्याय नमः । ॐ कारुकर्मविजृम्भिताय नमः । ॐ स्थूलतरस्वरूपाढ्याय नमः । ॐ चक्रजालप्रकाशिताय नमः । ॐ स्थूलरूपसमुज्जृम्भिणे नमः । ॐ हृदब्जध्यातरूपकाय नमः । ॐ सूक्ष्मरूपसमुल्लासिने नमः । ॐ मन्त्रजालस्वरूपकाय नमः । ७६० ॐ सूक्ष्मतरतनुश्रीकाय नमः । ॐ कुण्डलिनीस्वरूपकाय नमः । ॐ सुक्ष्मतमवपुश्शोभिने नमः । ॐ पराकामकलातनवे नमः । ॐ पररूपसमुद्भासिने नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ परापरवपुर्धारिणे नमः । ॐ सप्तरूपविलासिताय नमः । ॐ षडाम्नायमहामन्त्रनिकुरुम्बनिषेविताय नमः । ॐ तत्पुरुषमुखोत्पन्नपूर्वाम्नायमनुप्रियाय नमः । ७७० ॐ अघोरमुखसञ्जातदक्षिणाम्नायपूजिताय नमः । ॐ सद्योजातमुखोत्पन्नपश्चिमाम्नायसेविताय नमः । ॐ वामदेवमुखोत्पन्नोत्तराम्नायप्रपूजिताय नमः । ॐ ईशानमुखसञ्जातोर्ध्वाम्नायमनुसेविताय नमः । ॐ विमर्शमुखसञ्जातानुत्तराम्नायपूजिताय नमः । ॐ तोटकाचार्यसन्दिष्टपूर्वाम्नायकमन्त्रकाय नमः । ॐ सुरेशसमुपादिष्टदक्षिणाम्नायमन्त्रकाय नमः । ॐ पद्मपादसमादिष्टपश्चिमाम्नायमन्त्रकाय नमः । ॐ हस्तामलकसन्दिष्टोत्तराम्नायकमन्त्रकाय नमः । ॐ शङ्कराचार्यसन्दिष्टोर्ध्वाम्नायाखिलमन्त्रकाय नमः । ७८० ॐ दक्षिणामूर्तिसन्दिष्टनुत्तराम्नायमन्त्रकाय नमः । ॐ सहजानन्दसन्दिष्टानुत्तराम्नायमन्त्रकाय नमः । ॐ पूर्वाम्नायकमन्त्रौघैःसृष्टिशक्तिप्रकाशकाय नमः । ॐ दक्षिणाम्नायमन्त्रौघैःस्थितिशक्तिप्रकाशकाय नमः । ॐ पश्चिमाम्नायमन्त्रौघैर्हृतिशक्तिप्रकाशकाय नमः । ॐ उत्तराम्नायमन्त्रौघैस्तिरोधानप्रकाशकाय नमः । ॐ ऊर्ध्वाम्नायकमन्त्रौघैरनुग्रहप्रकाशकाय नमः । ॐ अनुत्तरगमन्त्रौघैःसहजानन्दलासकाय नमः । ॐ सर्वाम्नायकसन्दिष्टानुस्यूतचित्सुखात्मकाय नमः । ॐ सृष्टिकर्त्रे नमः । ७९० ॐ ब्रह्मरूपाय नमः । ॐ गोप्त्रे नमः । ॐ गोविन्दरूपकाय नमः । ॐ संहारकृते नमः । ॐ रुद्ररूपाय नमः । ॐ तिरोधायकाय नमः । ॐ ईश्वराय नमः । ॐ सदाशिवाय नमः । ॐ अनुग्रहीत्रे नमः । ॐ पञ्चकृत्यपरायणाय नमः । ८०० ॐ अणिमादिगुणास्पृष्टाय नमः । ॐ निर्गुणानन्दरूपकाय नमः । ॐ सर्वात्मभावनारूपाय नमः । ॐ सुखमात्रानुभावकाय नमः । ॐ स्वस्वरूपसुसंशोभिने नमः । ॐ ताटस्थिकस्वरूपकाय नमः । ॐ षड्गुणाय नमः । ॐ अखिलकल्याणगुणराजिविराजिताय नमः । ॐ यज्ञाग्निकुण्डसम्भूताय नमः । ॐ क्षीरसागरमध्यगाय नमः । ८१० ॐ त्रिदशकारुनिष्पन्नस्वानन्दभवनस्थिताय नमः । ॐ ऊरीकृतेशपुत्रत्वाय नमः । ॐ नीलवाणीविवाहिताय नमः । ॐ नीलसरस्वतीमन्त्रजपतात्पर्यसिद्धिदाय नमः । ॐ विद्यावदसुरध्वंसिने नमः । ॐ सुररक्षासमुद्यताय नमः । ॐ चिन्तामणिक्षेत्रवासिने नमः । ॐ चिन्तिताखिलपूरकाय नमः । ॐ महापापौघविध्वंसिने नमः । ॐ देवेन्द्रकृतपूजनाय नमः । ८२० ॐ तारारम्भिणे नमः । ॐ नमोयुक्ताय नमः । ॐ भगवत्पदङेन्तगाय नमः । ॐ एकदंष्ट्रायसंयुक्ताय नमः । ॐ हस्तिमुखायसंयुताय नमः । ॐ लम्बोदरचतुर्थ्यन्तविराजितकलेवराय नमः । ॐ उच्छिष्टपदसंराजिने नमः । ॐ महात्मनेपदप्रियाय नमः । ॐ आङ्क्रोंह्रीङ्गंसमायुक्ताय नमः । ॐ घेघेस्वाहासमापिताय नमः । ८३० ॐ तारारब्धमहामन्त्राय नमः । ॐ हस्तिमुखान्तङेयुताय नमः । ॐ लम्बोदरायसंयुक्ताय नमः । ॐ डेन्तोच्छिष्टमहात्मयुजे नमः । ॐ पाशाङ्कुशत्रपामाराय नमः । ॐ हृल्लेखासमलङ्कृताय नमः । ॐ वर्मघेघेसमारूढाय नमः । ॐ उच्छिष्टायपदोपधाय नमः । ॐ वह्निजायासुसम्पूर्णाय नमः । ॐ मन्त्रराजद्वयान्विताय नमः । ८४० ॐ हेरम्बाख्यगणेशानाय नमः । ॐ लक्ष्मीयुतगजाननाय नमः । ॐ तारुण्येशाय नमः । ॐ बालरूपिणे नमः । ॐ शक्तीशाय नमः । ॐ वीरनामकाय नमः । ॐ ऊर्ध्वसमाख्याय नमः । ॐ उच्छिष्टाय नमः । ॐ विजयाय नमः । ॐ नृत्यकर्मकाय नमः । ८५० ॐ विघ्नविध्वंसिविघ्नेशाय नमः । ॐ द्विजपूर्वगणाधिपाय नमः । ॐ क्षिप्रेशाय नमः । ॐ वल्लभाजानये नमः । ॐ भक्तीशाय नमः । ॐ सिद्धिनायकाय नमः । ॐ द्व्यष्टावतारसम्भिन्नलीलावैविध्यशोभिताय नमः । ॐ द्वात्रिंशदवताराढ्याय नमः । ॐ द्वात्रिंशद्दीक्षणक्रमाय नमः । ॐ शुद्धविद्यासमारब्धमहाषोडशिकान्तिमाय नमः । ८६० ॐ महत्पदसमायुक्तपादुकासम्प्रतिष्ठिताय नमः । ॐ प्रणवादये नमः । ॐ त्रितारीयुजे नमः । ॐ बालाबीजकशोभिताय नमः । ॐ वाणीभूबीजसंयुक्ताय नमः । ॐ हंसत्रयसमन्विताय नमः । ॐ खेचरीबीजसम्भिन्नाय नमः । ॐ नवनाथसुशोभिताय नमः । ॐ प्रासादश्रीसमायुक्ताय नमः । ॐ नवनाथविलोमकाय नमः । ८७० ॐ पराप्रासादबीजाढ्याय नमः । ॐ महागणेशमन्त्रकाय नमः । ॐ बालाक्रमोत्क्रमप्रीताय नमः । ॐ योगबालाविजृम्भिताय नमः । ॐ अन्नपूर्णासमायुक्ताय नमः । ॐ वाजिवाहाविलासिताय नमः । ॐ सौभाग्यपूर्वविद्यायुजे नमः । ॐ रमादिषोडशीयुताय नमः । ॐ उच्छिष्टपूर्वचाण्डालीसमायुक्तसुविग्रहाय नमः । ॐ त्रयोदशार्णवाग्देवीसमुल्लसितमूर्तिकाय नमः । ८८० ॐ नकुलीमातृसंयुक्ताय नमः । ॐ महामातङ्गिनीयुताय नमः । ॐ लघुवार्तालिकायुक्ताय नमः । ॐ स्वप्नवार्तालिकान्विताय नमः । ॐ तिरस्कारीसमायुक्ताय नमः । ॐ महावार्तालिकायुक्ताय नमः । ॐ पराबीजसमायुक्ताय नमः । ॐ लोपामुद्राविजृम्भिताय नमः । ॐ त्रयोदशाक्षरीहादिज्ञप्तिविद्यासमन्विताय नमः । ॐ महावाक्यमहामातृचतुष्टयविलासिताय नमः । ८९० ॐ ब्रह्मण्यरसबीजाढ्यब्रह्मण्यद्वयशोभिताय नमः । ॐ सप्तदशाक्षरीशैवतत्त्वविमर्शिनीयुताय नमः । ॐ चतुर्विंशतिवर्णात्मदक्षिणामूर्तिशोभिताय नमः । ॐ रदनाक्षरसंशोभिगणपोच्छिष्टमन्त्रकाय नमः । ॐ गिरिव्याहृतिवर्णात्मगणपोच्छिष्टराजकाय नमः । ॐ हंसत्रयसमारूढाय नमः । ॐ रसावाणीसमर्पिताय नमः । ॐ श्रीविद्यानन्दनाथाढ्याय नमः । ॐ आत्मकपदसंयुताय नमः । ॐ श्रीचर्यानन्दनाथाढ्याय नमः । ९०० ॐ श्रीमहापादुकाश्रिताय नमः । ॐ पूजयामिपदप्रीताय नमः । ॐ नमःपदसमापिताय नमः । ॐ गुरुमुखैकसंवेद्याय नमः । ॐ गुरुमण्डलपूजिताय नमः । ॐ दीक्षागुरुसमारब्धशिवान्तगुरुसेविताय नमः । ॐ गुरुभिःकुलरूपिभिःसमाराध्यपदद्वन्द्वाय नमः । ॐ विद्यावतारगुरुभिःसम्पूजितपदद्वयाय नमः । ॐ परौघीयगुरुप्रीताय नमः । ॐ दिव्यौघगुरुपूजिताय नमः । ९१० ॐ सिद्धौघदेशिकाराध्याय नमः । ॐ मानवौघनिषेविताय नमः । ॐ गुरुत्रयसमाराध्याय नमः । ॐ गुरुषट्कप्रपूजिताय नमः । ॐ शाम्भवीक्रमसम्पूज्याय नमः । ॐ अशीत्युत्तरशतार्चिताय नमः । ॐ क्षित्यादिरश्मिसन्निष्ठाय नमः । ॐ लङ्घिताखिलरश्मिकाय नमः । ॐ षडन्वयक्रमाराध्याय नमः । ॐ देशिकान्वयरक्षिताय नमः । ९२० ॐ सर्वश्रुतिशिरोनिष्ठपादुकाद्वयवैभवाय नमः । ॐ पराकामकलारूपाय नमः । ॐ शिवोहम्भावनात्मकाय नमः । ॐ चिच्छक्त्यारव्यपराहंयुजे नमः । ॐ सर्वज्ञानिस्वरूपकाय नमः । ॐ संविद्बिन्दुसमाख्याताय नमः । ॐ अपराकामकलामयाय नमः । ॐ मायाविशिष्टसर्वेशाय नमः । ॐ महाबिन्दुस्वरूपकाय नमः । ॐ अणिमादिगुणोपताय नमः । ९३० ॐ सर्जनादिक्रियान्विताय नमः । ॐ मायाविशिष्टचैतन्याय नमः । ॐ अगण्यरूपविलासकाय नमः । ॐ मिश्रकामकलारूपाय नमः । ॐ अग्नीषोमीयस्वरूपकाय नमः । ॐ मिश्रबिन्दुसमाख्याकाय नमः । ॐ जीववृन्दसमाश्रिताय नमः । ॐ कामकलात्रयाविष्टाय नमः । ॐ बिन्दुत्रयविलासिताय नमः । ॐ कामकलात्रयध्यानसर्वबन्धविमोचकाय नमः । ९४० ॐ बिन्दुत्रयैकताध्यानविकलेवरमुक्तिदाय नमः । ॐ महायजनसम्प्रीताय नमः । ॐ वीरचर्याधरप्रियाय नमः । ॐ अन्तर्यागक्रमाराध्याय नमः । ॐ बहिर्यागपुरस्कृताय नमः । ॐ आत्मयागसमाराध्याय नमः । ॐ सर्वविश्वनियामकाय नमः । ॐ मातृकादशकन्यासदेवताभावसिद्धिदाय नमः । ॐ प्रपञ्चयागन्यासेनसर्वेश्वरत्वदायकाय नमः । ॐ लघुषोढामहाषोढान्यासद्वयसमर्चिताय नमः । ९५० ॐ श्रीचक्रत्रिविधन्यासमहासिद्धिविधायकाय नमः । ॐ रश्मिमालामहान्यासवज्रवर्मस्वरूपकाय नमः । ॐ हंसपरमहंसाख्यन्यासद्वयविभाविताय नमः । ॐ महापदावनीन्यासकलाशताधिकाष्टकाय नमः । ॐ त्रिपुरापूजनप्रीताय नमः । ॐ त्रिपुरापूजकप्रियाय नमः । ॐ नवावृतिमहायज्ञसंरक्षणधुरन्धराय नमः । ॐ लम्बोदरमहारूपाय नमः । ॐ भैरवीभैरवात्मकाय नमः । ॐ उत्कृष्टशिष्टसद्वस्तुने नमः । ९६० ॐ परसंवित्तिरूपकाय नमः । ॐ शुभाशुभकराय कर्मणे नमः । ॐ जीवयात्राविधायकाय नमः । ॐ सते नमः । ॐ चिते नमः । ॐ सुखाय नमः । ॐ नाम्ने नमः । ॐ रूपाय नमः । ॐ अधिष्ठानात्मकाय नमः । ॐ पराय (परस्मै) नमः । ९७० ॐ आरोपितजगज्जाताय नमः । ॐ मिथ्याज्ञानाय नमः । ॐ अमङ्गलाय नमः । ॐ अकारादिक्षकारान्ताय नमः । ॐ शब्दसृष्टिस्वरूपाय नमः । ॐ परायै वाचे नमः । ॐ विमर्शरूपिणे नमः । ॐ पश्यन्त्यै नमः । ॐ स्फोटरूपधृते नमः । ॐ मध्यमायै नमः । ९८० ॐ चिन्तनारूपाय नमः । ॐ वैखर्यै नमः । ॐ स्थूलवाचकाय नमः । ॐ ध्वनिरूपाय नमः । ॐ वर्णरूपिणे नमः । ॐ सर्वभाषात्मकाय नमः । ॐ अपराय (अपरस्मै) नमः । ॐ मूलाधारगताय नमः । ॐ सुप्ताय नमः । ॐ स्वाधिष्ठाने प्रपूजिताय नमः । ९९० ॐ मणिपूरकमध्यस्थाय नमः । ॐ अनाहताम्बुजमध्यगाय नमः । ॐ विशुद्धिपङ्कजोल्लासाय नमः । ॐ आज्ञाचक्राब्जवासकाय नमः । ॐ सहस्राराम्बुजारूढाय नमः । ॐ शिवशक्त्यैक्यरूपकाय नमः । ॐ मूलकुण्डलिनीरूपाय नमः । ॐ महाकुण्डलिनीमयाय नमः । ॐ षोडशान्तमहास्थानाय नमः । ॐ अस्पर्शाभिधमहास्थित्यै नमः । १०००

इति उड्डामरेश्वरतन्त्रे क्षिप्रप्रसादनपटले गुह्यनाम उच्छिष्टगणेशसहस्रनामावलिः
ஜப எண்ணிக்கை: 0/108