சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீக³ணாதி⁴பஸ்துதி꞉

श्रीगणाधिपस्तुतिः
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 8
எழுத்துரு / மொழி தேர்வு: देवनागरी (संस्कृत)
14px

गोकर्ण गणाधिपस्तुतिः

श्रीमत्परमहंसेत्यादि समस्तबिरुदालङ्कृत श्रीजगद्गुरु सार्वभौम श्रीश्री शिवाभिनव नृसिंह भारती महास्वामिरनुग्रहीता । कुक्षिस्फुरन्नागभीत्या मूषिकः प्रपलायते । इति मत्वा मयूरं किमारूढोऽसि गनाधिप ॥ १॥ मत्कुक्षिसुस्थमखिलजगदिति सर्वान् प्रबोधयितुम् । बृहदुदरतां कृपाब्धे धत्से किम् करिवरास्य त्वम् ॥ २॥ त्वद्दर्शनकृतहासं चन्द्रमसं हन्तुमुद्युक्तम् । त्वामनुनेतुं ताराः कुसुमव्याजेन सेवन्ते ॥ ३॥ यज्जातुर्येण हि लोकानुद्धर्तुमम्बिकानाथः । गोकर्णे स्थितिमकरोल्लोकहितं तं प्रणौमि विघ्नेशम् ॥ ४॥ ॥ इति श्रीगणाधिपस्तुतिः  ॥
ஜப எண்ணிக்கை: 0/108