ಹರ್ಯಷ್ಟಕಂ
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः। अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः।। १ ।।
स गंगा स गया सेतुः स काशी स च पुष्करम्। जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम्।। २ ।।
वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च। यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम्।।३ ।।
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च। तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम्।। ४ ।।
गवां कोटिसहस्राणि हेमकन्यासहस्त्रकम्। दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम्।। ५ ।।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः। अधीतस्तेन येनोक्तं हरि रित्यक्षरद्वयम्।। ६ ।।
अश्वमेधैर्महायज्ञैर्नरमेधैः स्तथैव च। इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम्।। ७ ।।
प्राणप्रयाण-पाथेयं संसारव्याधिनाशनम्। दुःखात्यंतपरित्राणं हरिरित्यक्षरद्वयम्।।८ ।।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति। सकृदुच्चारितं येन हरि रित्यक्षर द्वयम्।। ९ ।।
फलश्रुति हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् । आयुष्यं बलमारोग्यं यशोवृद्धिशियावहम्।। प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम्। यः पठेत् स नरो याति तद्विष्णोः परमं पदम्।।