ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

ಪಂಚಾಯುಧಸ್ತೋತ್ರಂ

पञ्चायुधस्तोत्रम्
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 1
23px

स्फुरत्सुहस्रार शिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम्। सुरद्विषां प्राणविनाशि विष्णो- श्चक्रं सदाऽहं शरणं प्रपद्ये।। १ ।।

विष्णोर्मुखोत्थानिल पूरितस्य यस्य ध्वनिर्दानव दर्पहन्ता । तं पाञ्चजन्यं शशिकोटि शुभ्रं शङ्खं  सदाऽहं शरणं प्रपद्ये।। २ ।।

हिरण्मयीं मेरुसमानसारां कौमोदकी दैत्यकुलैकहंत्रीम्। वैकुंठ वामाग्र कराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये।। ३ ।।

रक्षोऽसुराणां कठिनोग्र कण्ठ- छेदक्षरच्छोणितदिग्धधारम्। तं  नंदकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये।। ४ ।।

यज्ज्यानिनाद श्रवणात्सुराणां चेतांसि निर्मुक्त भयानि सद्यः। भवन्ति दैत्याशनि बाणवर्षि शार्ङ्गं सदाऽहं शरणं प्रपद्ये।। ५ ।।

इमं हरे पञ्चमहायुधानां स्तवं पठेत् योऽनुदिनं प्रभाते। समस्त दुःखानि भयानि सद्यः पापानि नश्यन्ति सुखानि सन्ति।। ६ ।।

वने रणे शत्रुजलाग्निमध्ये यदृच्छयापत्सु महाभयेषु । इदं पठन् स्तोत्र मनाकुलात्मा सुखी भवेत्तत्कृतसर्वरक्षः।। ७ ।।

सशंखचक्रं सगदाऽसि शार्ङ्गं पीतांबरं कौस्तुभवत्स चिह्नम्। श्रिया समेतोज्ज्वलशोभिताङ्गं विष्णुं सदाऽहं शरणं प्रपद्ये।। ८ ।।

जले रक्षतु वाराहः स्थले रक्षतु वामनः । अटव्यां नारसिंहश्च सर्वतः पातु केशवः।। ९ ।।

ಜಪ ಎಣಿಕೆ: 0/108