சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

மஹாக³ணபதிஸஹஸ்ரநாமஸ்தோத்ரம்

महागणपतिसहस्रनामस्तोत्रम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px

महागणपतिसहस्रनामस्तोत्रम्

। मुनिरुवाच । कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् । शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ १॥ । ब्रह्मोवाच । देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे । अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ २॥ मनसा स विनिर्धार्य ददृशे विघ्नकारणम् । महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ ३॥ विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् । सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥ ४॥ सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् । ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ॥ ५॥ अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य । गणेश ऋषिः । महागणपतिर्देवता । नानाविधानिच्छन्दांसि । हुमिति बीजम् । तुङ्गमिति शक्तिः । स्वाहाशक्तिरिति कीलकम् ॥ अथ करन्यासः । गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः । कुमारगुरुरीशान इति तर्जनीभ्यां नमः ॥ १॥ ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः । रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः ॥ २॥ सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः । लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ॥ ३॥ अथ हृदयादिन्यासः । छन्दश्छन्दोद्भव इति हृदयाय नमः । निष्कलो निर्मल इति शिरसे स्वाहा । सृष्टिस्थितिलयक्रीड इति शिखायै वषट् । ज्ञानं विज्ञानमानन्द इति कवचाय हुम् । अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् । अनन्तशक्तिसहित इत्यस्त्राय फट् । भूर्भुवः स्वरोम् इति दिग्बन्धः ॥ अथ ध्यानम् । गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं बृहदुदरमशेषं भूतिराजं पुराणम् । अमरवरसुपूज्यं रक्तवर्णं सुरेशं पशुपतिसुतमीशं विघ्नराजं नमामि ॥ १॥ सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ श्रीगणपतिरुवाच । ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः । एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ॥ १॥ लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः । सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ २॥ भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः । हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ ३॥ नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः । विनायको विरूपाक्षो वीरः शूरवरप्रदः ॥ ४॥ महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः । रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ ५॥ कुमारगुरुरीशानपुत्रो मूषकवाहनः । सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ ६॥ अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः । कटङ्कटो राजपुत्रः शाकलः संमितोऽमितः ॥ ७॥ कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः । भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥ ८॥ विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः । कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ॥ ९॥ ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः । हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ॥ १०॥ कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् । उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ॥ ११॥ किरीटी कुण्डली हारी वनमाली मनोमयः । वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ १२॥ सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् । दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥ १३॥ सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः । पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः ॥ १४॥ चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः । योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ १५॥ गणाधिराजो विजयः स्थिरो गजपतिर्ध्वजी । देवदेवः स्मरः प्राणदीपको वायुकीलकः ॥ १६॥ विपश्चिद्वरदो नादो नादभिन्नमहाचलः । वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥ १७॥ इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः । शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥ १८॥ शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः । उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ १९॥ यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः । सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ॥ २०॥ ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः । जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥ २१॥ गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः । ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ २२॥ भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः । कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ॥ २३॥ नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः । व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥ २४॥ कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः । पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥ २५॥ पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः । ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ॥ २६॥ हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः । सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥ २७॥ प्रतापी काश्यपो मन्ता गणको विष्टपी बली । यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ॥ २८॥ चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः । रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥ २९॥ तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः । नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः ॥ ३०॥ सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः । तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ ३१॥ सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः । लिपिपद्मासनाधारो वह्निधामत्रयालयः ॥ ३२॥ उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः । पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ ३३॥ निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः । पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥ ३४॥ भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः । ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ ३५॥ स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः । सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ ३६॥ सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः । सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ॥ ३७॥ रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः । रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ ३८॥ श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः । श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ ३९॥ सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः । सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ ४०॥ सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् । सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ॥ ४१॥ शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । किरीटी कुण्डली हारी वनमाली शुभाङ्गदः ॥ ४२॥ इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् । पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् ॥ ४३॥ कल्पवल्लीधरो विश्वाभयदैककरो वशी । अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ ४४॥ पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः । करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ॥ ४५॥ पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः । भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥ ४६॥ महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः । रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥ ४७॥ महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः । आमोदमोदजननः सम्प्रमोदप्रमोदनः ॥ ४८॥ संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः । दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥ ४९॥ मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः । विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः ॥ ५०॥ विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः । तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥ ५१॥ मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः । कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥ ५२॥ वसुधारामदोन्नादो महाशङ्खनिधिप्रियः । नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ॥ ५३॥ सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः । ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ॥ ५४॥ प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् । ऐरावतादिसर्वाशावारणो वारणप्रियः ॥ ५५॥ वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः । जयाजयपरिकरो विजयाविजयावहः ॥ ५६॥ अजयार्चितपादाब्जो नित्यानन्दवनस्थितः । विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ॥ ५७॥ अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः । ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ॥ ५८॥ सुभगासंश्रितपदो ललिताललिताश्रयः । कामिनीपालनः कामकामिनीकेलिलालितः ॥ ५९॥ सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः । गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ ६०॥ नलिनीकामुको वामारामो ज्येष्ठामनोरमः । रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥ ६१॥ विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः । अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ ६२॥ उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः । सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ॥ ६३॥ अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः । अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ॥ ६४॥ अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः । अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ॥ ६५॥ अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः । आधारपीठमाधार आधाराधेयवर्जितः ॥ ६६॥ आखुकेतन आशापूरक आखुमहारथः । इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ ६७॥ इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः । इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥ ६८॥ इन्दीवरदलश्याम इन्दुमण्डलमण्डितः । इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ॥ ६९॥ इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः । ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥ ७०॥ ईषणात्रयकल्पान्त ईहामात्रविवर्जितः । उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ॥ ७१॥ उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः । ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ ७२॥ ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः । ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ॥ ७३॥ लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् । लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ ७४॥ एकारपीठमध्यस्थ एकपादकृतासनः । एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ ७५॥ ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः । ऐरंमदसमोन्मेष ऐरावतसमाननः ॥ ७६॥ ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः । औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ॥ ७७॥ अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः । अः समस्तविसर्गान्तपदेषु परिकीर्तितः ॥ ७८॥ कमण्डलुधरः कल्पः कपर्दी कलभाननः । कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ७९॥ कदम्बगोलकाकारः कूष्माण्डगणनायकः । कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ ८०॥ खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः । खल्वाटश‍ृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥ ८१॥ गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः । गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ ८२॥ गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः । गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ॥ ८३॥ घण्टाघर्घरिकामाली घटकुम्भो घटोदरः । ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ॥ ८४॥ चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः । चराचरपिता चिन्तामणिश्चर्वणलालसः ॥ ८५॥ छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः । जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ ८६॥ जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः । स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः ॥ ८७॥ टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः । ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ॥ ८८॥ डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः । ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः ॥ ८९॥ तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः । तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥ ९०॥ स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् । दक्षयज्ञप्रमथनो दाता दानं दमो दया ॥ ९१॥ दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः । दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥ ९२॥ दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः । धनं धनपतेर्बन्धुर्धनदो धरणीधरः ॥ ९३॥ ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः । ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ॥ ९४॥ नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः । निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ ९५॥ परं व्योम परं धाम परमात्मा परं पदम् ॥ ९६॥ परात्परः पशुपतिः पशुपाशविमोचनः । पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ॥ ९७॥ पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः । प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ॥ ९८॥ फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः । बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली । ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ ९९॥ बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः । बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ १००॥ भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः । भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥ १०१॥ भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः । मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः ॥ १०२॥ मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः । महाबलो महावीर्यो महाप्राणो महामनाः ॥ १०३॥ यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः । यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ १०४॥ रसो रसप्रियो रस्यो रञ्जको रावणार्चितः । राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ १०५॥ लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः । लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ १०६॥ वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः । विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥ १०७॥ वामदेवो विश्वनेता वज्रिवज्रनिवारणः । विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः ॥ १०८॥ शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः । शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः ॥ १०९॥ षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः । संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ ११०॥ सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः । सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः ॥ १११॥ साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः । स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ॥ ११२॥ हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् । हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः ॥ ११३॥ क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः । क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥ ११४॥ धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः । विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ॥ ११५॥ आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः । सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥ ११६॥ मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः । प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ ११७॥ पराभिचारशमनो दुःखहा बन्धमोक्षदः । लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ॥ ११८॥ घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् । पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ॥ ११९॥ राशिस्तारा तिथिर्योगो वारः करणमंशकम् । लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥ १२०॥ राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः । कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् ॥ १२१॥ भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान् । ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ॥ १२२॥ त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः । सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ॥ १२३॥ समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः । साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः ॥ १२४॥ वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः । आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ॥ १२५॥ वैखानसं भागवतं मानुषं पाञ्चरात्रकम् । शैवं पाशुपतं कालामुखम्भैरवशासनम् ॥ १२६॥ शाक्तं वैनायकं सौरं जैनमार्हतसंहिता । सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥ १२७॥ बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् । स्वस्ति हुं फट् स्वधा स्वाहा श्रौषड् वौषड् वषण्णमः ॥ १२८॥ ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः । एक एकाक्षराधार एकाक्षरपरायणः ॥ १२९॥ एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् । द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ॥ १३०॥ द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः । त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ॥ १३१॥ त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः । चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ॥ १३२॥ चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः । चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः । चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ॥ १३३॥ पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः ॥ १३४॥ पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः । पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः ॥ १३५॥ पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः । पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः ॥ १३६॥ षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः । षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः ॥ १३७॥ षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः । षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ॥ १३८॥ षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः । सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ॥ १३९॥ सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः । सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः ॥ १४०॥ सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः । सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥ १४१॥ सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः । अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ॥ १४२॥ अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः । अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ॥ १४३॥ अष्टपीठोपपीठश्रीरष्टमातृसमावृतः । अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ॥ १४४॥ अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः । अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः । नवनागासनाध्यासी नवनिध्यनुशासितः ॥ १४५॥ नवद्वारपुरावृत्तो नवद्वारनिकेतनः । नवनाथमहानाथो नवनागविभूषितः ॥ १४६॥ नवनारायणस्तुल्यो नवदुर्गानिषेवितः । नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः ॥ १४७॥ दशात्मको दशभुजो दशदिक्पतिवन्दितः । दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ॥ १४८॥ दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः । एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ॥ १४९॥ द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः । त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ॥ १५०॥ चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः । चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ॥ १५१॥ सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः । तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः ॥ १५२॥ षोडशाधारनिलयः षोडशस्वरमातृकः । षोडशान्तपदावासः षोडशेन्दुकलात्मकः ॥ १५३॥ कलासप्तदशी सप्तदशसप्तदशाक्षरः । अष्टादशद्वीपपतिरष्टादशपुराणकृत् ॥ १५४॥ अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः । अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ॥ १५५॥ अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् । एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः ॥ १५६॥ चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः । सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ १५७॥ द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः । षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः ॥ १५८॥ पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः । द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः । पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः ॥ १५९॥ चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः । नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ॥ १६०॥ चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः । अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः ॥ १६१॥ चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः । शतानन्दः शतधृतिः शतपत्रायतेक्षणः ॥ १६२॥ शतानीकः शतमखः शतधारावरायुधः । सहस्रपत्रनिलयः सहस्रफणिभूषणः ॥ १६३॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ॥ १६४॥ दशसाहस्रफणिभृत्फणिराजकृतासनः । अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ॥ १६५॥ लक्षाधारः प्रियाधारो लक्षाधारमनोमयः । चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ॥ १६६॥ चतुरशीतिलक्षाणां जीवानां देहसंस्थितः । कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ॥ १६७॥ शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः । सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ॥ १६८॥ त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः । अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः ॥ १६९॥ अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः । अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ॥ १७०॥ इति वैनायकं नाम्नां सहस्रमिदमीरितम् । इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ॥ १७१॥ करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् । आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ॥ १७२॥ मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता । सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ॥ १७३॥ जगत्संवननं विश्वसंवादो वेदपाटवम् । सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ॥ १७४॥ ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता । ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ॥ १७५॥ धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् । वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ॥ १७६॥ राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः । जप्यते यस्य वश्यार्थे स दासस्तस्य जायते ॥ १७७॥ धर्मार्थकाममोक्षाणामनायासेन साधनम् । शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ॥ १७८॥ साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् । समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ॥ १७९॥ दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् । षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ॥ १८०॥ परकृत्यप्रशमनं परचक्रप्रमर्दनम् । सङ्ग्राममार्गे सर्वेषामिदमेकं जयावहम् ॥ १८१॥ सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् । पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥ १८२॥ देशे तत्र न दुर्भिक्षमीतयो दुरितानि च । न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ॥ १८३॥ क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः । गुल्मं प्लीहानमशमानमतिसारं महोदरम् ॥ १८४॥ कासं श्वासमुदावर्तं शूलं शोफामयोदरम् । शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ॥ १८५॥ वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् । आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् ॥ १८६॥ इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् । सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ॥ १८७॥ प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि । सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये ॥ १८८॥ महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् । इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ॥ १८९॥ मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः । चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ॥ १९०॥ कामरूपः कामगतिः कामदः कामदेश्वरः । भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः ॥ १९१॥ गणेशानुचरो भूत्वा गणो गणपतिप्रियः । नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः ॥ १९२॥ शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः । शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ॥ १९३॥ जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते । निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥ १९४॥ योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः । निरन्तरे निराबाधे परमानन्दसंज्ञिते ॥ १९५॥ विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते । लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ॥ १९६॥ यो नामभिर्हुतैर्दत्तैः पूजयेदर्चयीन्नरः । राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ॥ १९७॥ तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः । मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम ॥ १९८॥ नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि । दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ॥ १९९॥ अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः । तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ॥ २००॥ भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् । इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ॥ २०१॥ व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् । इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ॥ २०२॥ स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः । स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ॥ २०३॥ लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् । तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥ २०४॥ दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च । न तत्फलं विन्दति यद्गणेश- सहस्रनामस्मरणेन सद्यः ॥ २०५॥ एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः । स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति दारिद्र्यं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ २०६॥ अकिञ्चनोऽप्येकचित्तो नियतो नियतासनः । प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ॥ २०७॥ दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि । लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ २०८॥ आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तिनाशः var चार्तदानाः कीर्तिर्नित्यावदाता भवति खलु नवा कान्तिरव्याजभव्या । var भणितिरभिनवा पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्तन् var सत्यं नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ॥ २०९॥ गणञ्जयो गणपतिर्हेरम्बो धरणीधरः । महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ॥ २१०॥ var गणपतिर्लक्षप्रदः अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः । सुमङ्गलो बीजमाशापूरको वरदः कलः ॥ २११॥ var वरदः शिवः काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः । मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ २१२॥ उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति । वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये ॥ २१३॥ यः स्तौति मद्गतमना ममाराधनतत्परः । स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ॥ २१४॥ नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो निरुपममङ्गलात्मने । नमो नमो विपुलदयैकसिद्धये नमो नमः करिकलभाननाय ते ॥ २१५॥ किङ्किणीगणरचितचरणः प्रकटितगुरुमितचारुकरणः । मदजललहरीकलितकपोलः शमयतु दुरितं गणपतिनाम्ना ॥ २१६॥ ॥ इति श्रीगणेशपुराणे गणेशसहस्रनामस्तोत्रम् ॥
ஜப எண்ணிக்கை: 0/108