சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீமஹாக³ணபதிஸ்தோத்ரபஞ்சகம்

श्रीमहागणपतिस्तोत्रपञ्चकम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 9
எழுத்துரு / மொழி தேர்வு: देवनागरी (संस्कृत)
14px

श्रीमहागणपतिस्तोत्रपञ्चकम्

ॐ श्रीगणेशाय नमः । वन्दे सिन्दूरकान्तिं मदयुतकरटप्रान्तसम्भ्रान्तभृङ्ग- ध्वानैरापूरिताशामुखमचलसुताह्लादपार्थाधिविचन्द्रम् । शुण्डाकाण्डे समुद्रान् सुमणिगणयुतान् लीलयापूर्य लोके दिव्ये भौम्ये किरन्तं गजवरवदनं शोणशैलेन्द्रसूनुम् ॥ १॥ वन्दे दन्तेन मेरौ विधुकुलनृभुजां कौरवाणां चरित्रं व्यासोक्तं भारताख्यं सकलवृषयुतं संलिखन्तं द्विपास्यम् । शुण्डादण्डेन भित्त्वा कुलधरनिवहं कन्दुकीकृत्य बाल्ये व्योम्नो मार्गे क्षिपन्तं क्षितिवरतनयाशोणशैलेन्द्रसूनुम् ॥ २॥ चन्दे दन्तावलास्यं दशनजपसरौ लड्डुकं सत्कुठारं हस्तैरत्यद्भुताम्भोरुहवरसदृशैः सन्दधानं गणेशम् । आरुह्याखुं महान्तं अमररिपुगणैरङ्कुशाग्रेण युद्धे हन्तारं हस्तिवक्त्रैर्गजमुखदनुजं शोणशैलेन्द्रसूनुम् ॥ ३॥ वन्दे सन्तापशान्त्यै सकलमुनिजनैः सामऋङ्मुख्यवेदा- नध्येतुं मुक्तिवाञ्छाप्रदफलसहितान् वन्दितं विघ्नराजम् । भक्तानामन्तरायाञ्छिरसिकृतमहाडिण्डिमाडम्बरेणा- मुष्णन्तं वर्ष्मभासा जितघनमनघं शोणशैलेन्द्रसूनुम् ॥ ४॥ कैलासे कमनीयरत्नखचिते सैंहे स्थितं विष्टरे शम्भुं सर्वचराचरात्मकजगद्रूपं प्रणत्वा फलम् । चूतं तत्करसंस्थितं रसयुतं स्कन्दागतेः प्राङ् मुदा चर्वन्तं परिगृह्य कुञ्जरमुखं वन्दामहे शाङ्करम् ॥ ५॥ इति श्रीमहागणपतिस्तोत्रपञ्चकम्
ஜப எண்ணிக்கை: 0/108