সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

দুর্গাষ্টকম্

दुर्गाष्टकम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 1
23px

दुर्गाष्टकम्

कात्यायनि महामाये खड्गबाणधनुर्धरे । खड्गधारिणि चण्डि दुर्गादेवि नमोऽस्तु ते ॥ १॥

वसुदेवसुते कालि वासुदेवसहोदरि । वसुन्धराश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते ॥ २॥

योगनिद्रे महानिद्रे योगमाये महेश्वरि । योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते ॥ ३॥

शङ्खचक्रगदापाणे शार्ङ्गज्यायतबाहवे । पीताम्बरधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ४॥

ऋग्यजुस्सामाथर्वाणश्चतुस्सामन्तलोकिनि । ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते ॥ ५॥

वृष्णीनां कुलसम्भूते विष्णुनाथसहोदरि । वृष्णिरूपधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ६॥

सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणि । सर्वामृतजटाभारे दुर्गादेवि नमोऽस्तु ते ॥ ७॥

अष्टबाहु महासत्त्वे अष्टमी नवमि प्रिये । अट्टहासप्रिये भद्रे दुर्गादेवि नमोऽस्तु ते ॥ ८॥

दुर्गाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः । सर्वकाममवाप्नोति दुर्गालोकं स गच्छति ॥ ९॥

इति श्रीदुर्गाष्टकं सम्पूर्णम् ।

পাঠ জপ: 0/108