সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

শ্রীমদনন্তানন্দ সরস্বতি বিরচিতং শ্রীদুর্গাষ্টকম্

श्रीमदनन्तानन्द सरस्वति विरचितं श्रीदुर्गाष्टकम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 1
23px

दुर्गाष्टकम्

दुर्गे परेशि शुभदेशि परात्परेशि वन्द्ये महेशदयिते करूणार्णवेशि । स्तुत्ये स्वधे सकलतापहरे सुरेशि कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ १॥

दिव्ये नुते श्रुतिशतैर्विमले भवेशि कन्दर्पदाराशतसुन्दरि माधवेशि । मेधे गिरीशतनये नियते शिवेशि कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ २॥

रासेश्वरि प्रणततापहरे कुलेशि धर्मप्रिये भयहरे वरदाग्रगेशि । वाग्देवते विधिनुते कमलासनेशि कृष्णस्तुतेकुरु कृपां ललितेऽखिलेशि ॥ ३॥

पूज्ये महावृषभवाहिनि मंगलेशि पद्मे दिगम्बरि महेश्वरि काननेशि । रम्येधरे सकलदेवनुते गयेशि कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ४॥

श्रद्धे सुराऽसुरनुते सकले जलेशि गंगे गिरीशदयिते गणनायकेशि । दक्षे स्मशाननिलये सुरनायकेशि कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ५॥

तारे कृपार्द्रनयने मधुकैटभेशि विद्येश्वरेश्वरि यमे निखलाक्षरेशि । ऊर्जे चतुःस्तनि सनातनि मुक्तकेशि कृष्णस्तुते कुरु कृपां ललितऽखिलेशि ॥ ६॥

मोक्षेऽस्थिरे त्रिपुरसुन्दरिपाटलेशि माहेश्वरि त्रिनयने प्रबले मखेशि । तृष्णे तरंगिणि बले गतिदे ध्रुवेशि कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ७॥

विश्वम्भरे सकलदे विदिते जयेशि विन्ध्यस्थिते शशिमुखि क्षणदे दयेशि । मातः सरोजनयने रसिके स्मरेशि कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ८॥

दुर्गाष्टकं पठति यः प्रयतः प्रभाते सर्वार्थदं हरिहरादिनुतां वरेण्यां । दुर्गां सुपूज्य महितां विविधोपचारैः प्राप्नोति वांछितफलं न चिरान्मनुष्यः ॥ ९॥

॥ इति श्रीमदनन्तानन्द-सरस्वति विरचितं श्री दुर्गाष्टकम्॥

পাঠ জপ: 0/108