சனாதன ஸ்தோத்திர மஞ்சரி
Sri Venkatesha Stotram
ஸனாதன தே³வ

.. வேங்கடேஶஸுப்ரபா⁴தம் ..

॥ वेङ्कटेशसुप्रभातम् ॥
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 6
23px

Venkatesha Suprabhatam

वेङ्कटेशसुप्रभातम्

कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १॥

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २॥

मातस्समस्तजगतां मधुकैटभारेः वक्षोविहारिणि मनोहरदिव्यमूर्ते । श्रीस्वामिनि श्रितजनप्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥ ३॥

तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले । विधिशङ्करेन्द्रवनिताभिरर्चिते वृषशैलनाथदयिते दयानिधे ॥ ४॥

अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां आकाशसिन्धुकमलानि मनोहराणि । आदाय पादयुगमर्चयितुं प्रपन्नाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ५॥

पञ्चाननाब्जभवषण्मुखवासवाद्याः त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति । भाषापतिः पठति वासरशुद्धिमारात् शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ६॥

ईषत्प्रफुल्लसरसीरुहनारिकेल- पूगद्रुमादिसुमनोहरपालिकानाम् । आवाति मन्दमनिलस्सह दिव्यगन्धैः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ७॥

उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्रावशिष्टकदलीफलपायसानि । भुक्त्वा सलीलमथ केलिशुकाः पठन्ति शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ८॥

तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या गायत्यनन्तचरितं तव नारदोऽपि । भाषासमग्रमसकृत्करचाररम्यं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ९॥

भृङ्गावली च मकरन्दरसानुविद्ध झङ्कारगीत निनदैःसह सेवनाय । निर्यात्युपान्तसरसीकमलोदरेभ्यः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १०॥

योषागणेन वरदध्निविमथ्यमाने घोषालयेषु दधिमन्थनतीव्रघोषाः । रोषात्कलिं विदधते ककुभश्च कुम्भाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ११॥

पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या । भेरीनिनादमिव बिभ्रति तीव्रनादं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १२॥

श्रीमन्नभीष्टवरदाखिललोकबन्धो श्रीश्रीनिवास जगदेकदयैकसिन्धो । श्रीदेवतागृहभुजान्तर दिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १३॥

श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः । द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १४॥

श्रीशेषशैलगरुडाचलवेङ्कटाद्रि नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्याम् । आख्यां त्वदीयवसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १५॥

सेवापराः शिवसुरेशकृशानुधर्म- रक्षोऽम्बुनाथपवमानधनाधिनाथाः । बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १६॥

घाटीषु ते विहगराजमृगाधिराज- नागाधिराजगजराजहयाधिराजाः । स्वस्वाधिकारमहिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १७॥

सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः । त्वद्दासदासचरमावधिदासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १८॥

त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः । कल्पागमाऽऽकलनयाऽऽकुलतां लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १९॥

त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः । मर्त्या मनुष्यभुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २०॥

श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते । श्रीमन्ननन्त गरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २१॥

श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे । श्रीवत्सचिन्ह शरणागतपारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २२॥

कन्दर्पदर्पहरसुन्दर दिव्यमूर्ते कान्ताकुचाम्बुरुह कुट्मललोलदृष्टे । कल्याणनिर्मलगुणाकर दिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २३॥

मीनाकृते कमठ कोल नृसिंह वर्णिन् स्वामिन् परश्वथतपोधन रामचन्द्र । शेषांशराम यदुनन्दन कल्किरूप श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २४॥

एलालवङ्गघनसारसुगन्धितीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम् । धृत्वाऽऽद्य वैदिकशिखामणयः प्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥ २५॥

भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः । श्रीवैष्णवास्सततमर्थितमङ्गलास्ते धामाऽऽश्रयन्ति तव वेङ्कट सुप्रभातम् ॥ २६॥

ब्रह्मादयः सुरवरास्समहर्षयस्ते सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः । धामान्तिके तव हि मङ्गलवस्तु हस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २७॥

लक्ष्मीनिवास निरवद्यगुणैकसिन्धो संसारसागरसमुत्तरणैकसेतो । वेदान्तवेद्य निजवैभव भक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २८॥

इत्थं वृषाचलपतेरिह सुप्रभातम् ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ २९॥

॥ इति वेङ्कटेशसुप्रभातम् ॥

ஜப எண்ணிக்கை: 0/108