சனாதன ஸ்தோத்திர மஞ்சரி
Sri Venkatesha Stotram
ஸனாதன தே³வ

வேங்கடேஶமங்க³லாஶாஸனம்

वेङ्कटेशमङ्गलाशासनम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 5
எழுத்துரு / மொழி தேர்வு: देवनागरी (संस्कृत)
14px

 Sri Venkatesha Mangalashasanam वेङ्कटेशमङ्गलाशासनम्

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनां श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १॥

लक्ष्मी सविभ्रमालोकसुभ्रूविभ्रमचक्षुषे चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २॥

श्रीवेङ्कटाद्रिश‍ृङ्गाङ्ग्रमङ्गलाभरणाङ्घ्रये मङ्गलानां निवासाय वेङ्कटेशाय मङ्गलम् ॥ ३॥

सर्वावयवसौन्दर्यसम्पदा सर्वचेतसां सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ४॥

नित्याय निरवद्याय सत्यानन्दचिदात्मने सर्वान्तरात्मने श्रीमद्वेङ्कटेशाय मङ्गलम् ॥ ५॥

स्वतस्सर्वविदे सर्व शक्तये सर्वशेषिणे सुलभाय सुशीलाया वेङ्कटेशाय मङ्गलम् ॥ ६॥

परस्मै ब्रह्मणे पूर्णकामाय परमात्मने प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥ ७॥

आकालतत्त्वमश्रान्तं आत्मनामनुपश्यतां अतृप्तामृतरूपाय वेङ्कटेशाय मङ्गलम् ॥ ८॥

प्रायस्स्वचरणौ पुंसां शरण्यत्वेन पाणिना कृपयाऽऽदिशते श्रीमद्वेङ्कटेशाय मङ्गलम् ॥ ९॥

दयामृत तरङ्गिण्यास्तरङ्गैरिव शीतलैः अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥ १०॥

स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ११॥

श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ १२॥

श्रीमत्सुन्दरजामातृमुनिमानसवासिने सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥ १३॥

मङ्गलाशासनपरैर्मदाचार्य पुरोगमैः सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १४॥

॥ इति वेङ्कटेशमङ्गलाशासनम् ॥

ஜப எண்ணிக்கை: 0/108