सनातन स्तोत्र संग्रह
शुक्ल यजुर्वेद
सनातन देव

शुक्लयजुर्वेदे माध्यन्दिनीये पुरुषसूक्तम्

Shuklayajurvede maadhyandineeye purushasooktam
रचयिता: पारंपरिक पाठ संख्या: 2
14px
श्रीगणेशायनम:।

अथ पुरुषसूक्तम्।
सहस्त्रशीर्षाषोळशनारायण: पौरूषमानुष्टुभं त्रिष्टुबंतं।
अभिषेके विनियोग:।

हरि: ॐ स॒हस्त्र॑शीर्षा॒पुरु॑ष:सहस्त्राक्ष:स॒हस्त्र॑पात्।
सभूमिं॑वि॒श्वतो॑वृ॒त्वाऽत्य॑तिष्ठद्दशांगु॒लम् ॥१॥
पुरु॑ष॒एवेदंसर्व॒यद्भू॒तंयच्च॒भव्य॑म्।
उ॒तामृ॑त॒त्वस्येशा॑नो॒यदन्ने॑नाति॒रोह॑ति॥२॥
ए॒तावा॑नस्यमहि॒मातो॒ज्यायांश्च॒पूरु॑ष:।
पादोस्यविश्वाभू॒तानि॑त्रि॒पाद॑स्या॒मृतं॑दिवि ॥३॥
त्रि॒पादू॒र्ध्वउदै॒त्पुरु॑ष॒:पादो॑स्ये॒हाभ॑व॒त्पुन॑:।
ततो॒विष्व॒ङ्व्य॑क्रामत्साशनानश॒नेअ॒भि ॥४ ॥
त्समा॑द्वि॒राळ॑जायतवि॒राजो॒अधिपूरु॑ष:।
सजा॒तोअत्य॑रिच्यतप॒श्चाद्भूमि॒मथो॑पुर:॥५॥

यत्पुरुषेणहविषादेवायज्ञमतन्वत।
व॒सं॒तोअ॑स्यासी॒दाज्यं॑ग्री॒ष्मइध्म:श॒रद्ध॒वि:॥६॥
तंय॒ज्ञंब॒र्हिषि॒प्रौक्ष॒न्पुरू॑षंजा॒तम॑ग्र॒त:।
तेन॑दे॒वाअ॑यजंतसा॒ध्याऋष॑यश्च॒ये ॥ ७॥
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒:संभृ॑तंपृषदा॒ज्यम्।
प॒शु॒न्तांश्च॑क्रेवाय॒व्या॑नार॒ण्यानग्रा॒म्याश्च॒ये ॥ ८॥
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ऋच॒:सा॑मानिजज्ञिरे।
छंदा॑सिजज्ञिरे॒तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥ ९॥
तस्मा॒दश्वा॑अजायंत॒येकेचो॑भ॒याद॑त:।
गावो॑हजज्ञिरे॒तस्मा॑ज्जा॒ताअ॑जावय॑:॥ १०॥

यत्पुरु॑षं॒व्यद॑धु:कति॒धाव्य॑कल्पयन्।
मुखं॒किम॑स्य॒कौबा॒हूकाऊ॒रूपादा॑उच्येते ॥ ११॥
ब्रा॒ह्म॒णो॑ऽस्य॒मुख॑मासीद्वा॒हुरा॑ज॒न्य॑:कृ॒त:।
ऊ॒रूतद॑स्य॒यद्वैश्य॑:प॒द्मांशू॒द्रोअ॑जायत ॥ १२॥
चं॒द्रमा॒मन॑सोजा॒तश्चक्षौ॒:सूर्यो॑अजायत
मुखा॒दिंद्र॑श्चा॒ग्निश्च॑प्रा॒णाद्वा॒युर॑जायत ॥ १३॥
नाभ्या॑आसिदं॒तरि॑क्षंशी॒र्ष्णोद्यौ:सम॑वर्तत।
प॒द्मांभूमि॒र्दिश॒:श्रोत्रा॒त्तथा॑लोकाअ॑कल्पयन् ॥ १४॥
स॒प्तास्या॑सन्परि॒धय॒स्त्रि:स॒प्तस॒मिध॑:कृ॒ता:।
दे॒वायज्ञं॒त॑न्वा॒नासब॑न्ध॒न्पुरुषंप॒शुम् ॥ १५॥
य॒ज्ञेन॑य॒ज्ञम॑यजंतदे॒वास्तानि॒धर्मा॑णिप्रथ॒मान्या॑सन्।
तेह॒नाकं॑महि॒मान॑:सचंत॒यत्र॒पूर्वे॑सा॒ध्या:संति॑दे॒वा:॥ १६॥

इति पुरुषसूक्तम् 

॥ॐ शांति: शांति: शांति:॥

पाठ जप: 0/108