सनातन देव
श्रीवेङ्कटेश्वर सहस्रनामावलिः
Shreevenkat'eshvara sahasranaamaavalih'
॥ श्रीवेङ्कटेश्वर सहस्रनामावलिः ॥
- ॐ श्री वेङ्कटेशाय नमः ।
- ॐ विरूपाक्षाय नमः ।
- ॐ विश्वेशाय नमः ।
- ॐ विश्वभावनाय नमः ।
- ॐ विश्वसृजे नमः ।
- ॐ विश्वसंहर्त्रे नमः ।
- ॐ विश्वप्राणाय नमः ।
- ॐ विराड्वपुषे नमः ।
- ॐ शेषाद्रिनिलयाय नमः ।
- ॐ अशेषभक्तदुःखप्रणाशनाय नमः ।
- ॐ शेषस्तुत्याय नमः ।
- ॐ शेषशायिने नमः ।
- ॐ विशेषज्ञाय नमः ।
- ॐ विभवे नमः ।
- ॐ स्वभुवे नमः ।
- ॐ विष्णवे नमः ।
- ॐ जिष्णवे नमः ।
- ॐ वर्धिष्णवे नमः ।
- ॐ उत्सहिष्णवे नमः ।
- ॐ सहिष्णुकाय नमः ।
- ॐ भ्राजिष्णवे नमः ।
- ॐ ग्रसिष्णवे नमः ।
- ॐ वर्तिष्णवे नमः ।
- ॐ भरिष्णुकाय नमः ।
- ॐ कालयन्त्रे नमः ।
- ॐ कालगोप्त्रे नमः ।
- ॐ कालाय नमः ।
- ॐ कालान्तकाय नमः ।
- ॐ अखिलाय नमः ।
- ॐ कालगम्याय नमः ।
- ॐ कालकण्ठवन्द्याय नमः ।
- ॐ कालकलेश्वराय नमः ।
- ॐ शम्भवे नमः ।
- ॐ स्वयम्भुवे नमः ।
- ॐ अम्भोजनाभाय नमः ।
- ॐ स्तम्भितवारिधये नमः ।
- ॐ अम्भोधिनन्दिनीजानये नमः ।
- ॐ शोणाम्भोजपदप्रभाय नमः ।
- ॐ कम्बुग्रीवाय नमः ।
- ॐ शम्बरारिरूपाय नमः ।
- ॐ शम्बरजेक्षणाय नमः ।
- ॐ बिम्बाधराय नमः ।
- ॐ बिम्बरूपिणे नमः ।
- ॐ प्रतिबिम्बक्रियातिगाय नमः ।
- ॐ गुणवते नमः ।
- ॐ गुणगम्याय नमः ।
- ॐ गुणातीताय नमः ।
- ॐ गुणप्रियाय नमः ।
- ॐ दुर्गुणध्वंसकृते नमः ।
- ॐ सर्वसुगुणाय नमः ।
- ॐ गुणभासकाय नमः ।
- ॐ परेशाय नमः ।
- ॐ परमात्मने नमः ।
- ॐ परस्मैज्योतिषे नमः ।
- ॐ परायैगतये नमः ।
- ॐ परस्मैपदाय नमः ।
- ॐ वियद्वासने नमः ।
- ॐ पारम्पर्यशुभप्रदाय नमः ।
- ॐ ब्रह्माण्डगर्भाय नमः ।
- ॐ ब्रह्मण्याय नमः ।
- ॐ ब्रह्मसृजे नमः ।
- ॐ ब्रह्मबोधिताय नमः ।
- ॐ ब्रह्मस्तुत्याय नमः ।
- ॐ ब्रह्मवादिने नमः ।
- ॐ ब्रह्मचर्यपरायणाय नमः ।
- ॐ सत्यव्रतार्थसन्तुष्टाय नमः ।
- ॐ सत्यरूपिणे नमः ।
- ॐ झषाङ्गवते नमः ।
- ॐ सोमकप्राणहारिणे नमः ।
- ॐ आनीताम्नायाय नमः ।
- ॐ अब्धिसञ्चराय नमः ।
- ॐ देवासुरवरस्तुत्याय नमः ।
- ॐ पतन्मन्दरधारकाय नमः ।
- ॐ धन्वन्तरये नमः ।
- ॐ कच्छपाङ्गाय नमः ।
- ॐ पयोनिधिविमन्थकाय नमः ।
- ॐ अमरामृतसन्धात्रे नमः ।
- ॐ धृतसम्मोहिनीवपुषे नमः ।
- ॐ हरमोहकमायाविने नमः ।
- ॐ रक्षस्सन्दोहभञ्जनाय नमः ।
- ॐ हिरण्याक्षविदारिणे नमः ।
- ॐ यज्ञाय नमः ।
- ॐ यज्ञविभावनाय नमः ।
- ॐ यज्ञीयोर्वीसमुद्धर्त्रे नमः ।
- ॐ लीलाक्रोडाय नमः ।
- ॐ प्रतापवते नमः ।
- ॐ दण्डकासुरविध्वंसिने नमः ।
- ॐ वक्रदम्ष्ट्राय नमः ।
- ॐ क्षमाधराय नमः ।
- ॐ गन्धर्वशापहरणाय नमः ।
- ॐ पुण्यगन्धाय नमः ।
- ॐ विचक्षणाय नमः ।
- ॐ करालवक्त्राय नमः ।
- ॐ सोमार्कनेत्राय नमः ।
- ॐ षड्गुणवैभवाय नमः ।
- ॐ श्वेतघोणिने नमः ।
- ॐ घूर्णितभ्रुवे नमः ।
- ॐ घुर्घुरध्वनिविभ्रमाय नमः ।
- ॐ द्राघीयसे नमः ।
- ॐ नीलकेशिने नमः ।
- ॐ जाग्रदम्बुजलोचनाय नमः ।
- ॐ घृणावते नमः ।
- ॐ घृणिसम्मोहाय नमः ।
- ॐ महाकालाग्निदीधितये नमः ।
- ॐ ज्वालाकरालवदनाय नमः ।
- ॐ महोल्काकुलवीक्षणाय नमः ।
- ॐ सटानिर्भिण्णमेघौघाय नमः ।
- ॐ दम्ष्ट्रारुग्व्याप्तदिक्तटाय नमः ।
- ॐ उच्छ्वासाकृष्टभूतेशाय नमः ।
- ॐ निश्श्वासत्यक्तविश्वसृजे नमः ।
- ॐ अन्तर्भ्रमज्जगद्गर्भाय नमः ।
- ॐ अनन्ताय नमः ।
- ॐ ब्रह्मकपालहृते नमः ।
- ॐ उग्राय नमः ।
- ॐ वीराय नमः ।
- ॐ महाविष्णवे नमः ।
- ॐ ज्वलनाय नमः ।
- ॐ सर्वतोमुखाय नमः ।
- ॐ नृसिंहाय नमः ।
- ॐ भीषणाय नमः ।
- ॐ भद्राय नमः ।
- ॐ मृत्युमृत्यवे नमः ।
- ॐ सनातनाय नमः ।
- ॐ सभास्तम्भोद्भवाय नमः ।
- ॐ भीमाय नमः ।
- ॐ शिरोमालिने नमः ।
- ॐ महेश्वराय नमः ।
- ॐ द्वादशादित्यचूडालाय नमः ।
- ॐ कल्पधूमसटाच्छवये नमः ।
- ॐ हिरण्यकोरस्थलभिन्नखाय नमः ।
- ॐ सिंहमुखाय नमः ।
- ॐ अनघाय नमः ।
- ॐ प्रह्लादवरदाय नमः ।
- ॐ धीमते नमः ।
- ॐ भक्तसङ्घप्रतिष्ठिताय नमः ।
- ॐ ब्रह्मरुद्रादिसंसेव्याय नमः ।
- ॐ सिद्धसाध्यप्रपूजिताय नमः ।
- ॐ लक्ष्मीनृसिंहाय नमः ।
- ॐ देवेशाय नमः ।
- ॐ ज्वालाजिह्वान्त्रमालिकाय नमः ।
- ॐ खड्गिने नमः ।
- ॐ खेटिने नमः ।
- ॐ महेष्वासिने नमः ।
- ॐ कपालिने नमः ।
- ॐ मुसलिने नमः ।
- ॐ हलिने नमः ।
- ॐ पाशिने नमः ।
- ॐ शूलिने नमः ।
- ॐ महाबाहवे नमः ।
- ॐ ज्वरघ्नाय नमः ।
- ॐ रोगलुण्ठकाय नमः ।
- ॐ मौञ्जीयुजे नमः ।
- ॐ छात्रकाय नमः ।
- ॐ दण्डिने नमः ।
- ॐ कृष्णाजिनधराय नमः ।
- ॐ वटवे नमः ।
- ॐ अधीतवेदाय नमः ।
- ॐ वेदान्तोद्धारकाय नमः ।
- ॐ ब्रह्मनैष्ठिकाय नमः ।
- ॐ अहीनशयनप्रीताय नमः ।
- ॐ आदितेयाय नमः ।
- ॐ अनघाय नमः ।
- ॐ हरये नमः ।
- ॐ संवित्प्रियाय नमः ।
- ॐ सामवेद्याय नमः ।
- ॐ बलिवेश्मप्रतिष्ठिताय नमः ।
- ॐ बलिक्षालितपादाब्जाय नमः ।
- ॐ विन्ध्यावलिविमानिताय नमः ।
- ॐ त्रिपादभूमिस्वीकर्त्रे नमः ।
- ॐ विश्वरूपप्रदर्शकाय नमः ।
- ॐ धृतत्रिविक्रमाय नमः ।
- ॐ स्वाङ्घ्रीनखभिन्नाण्डकर्पराय नमः ।
- ॐ पज्जातवाहिनीधारापवित्रितजगत्त्रयाय नमः ।
- ॐ विधिसम्मानिताय नमः ।
- ॐ पुण्याय नमः ।
- ॐ दैत्ययोद्ध्रे नमः ।
- ॐ जयोर्जिताय नमः ।
- ॐ सुरराज्यप्रदाय नमः ।
- ॐ शुक्रमदहृते नमः ।
- ॐ सुगतीश्वराय नमः ।
- ॐ जामदग्न्याय नमः ।
- ॐ कुठारिणे नमः ।
- ॐ कार्तवीर्यविदारणाय नमः ।
- ॐ रेणुकायाश्शिरोहारिणे नमः ।
- ॐ दुष्टक्षत्रियमर्दनाय नमः ।
- ॐ वर्चस्विने नमः ।
- ॐ दानशीलाय नमः ।
- ॐ धनुष्मते नमः ।
- ॐ ब्रह्मवित्तमाय नमः ।
- ॐ अत्युदग्राय नमः ।
- ॐ समग्राय नमः ।
- ॐ न्यग्रोधाय नमः ।
- ॐ दुष्टनिग्रहाय नमः ।
- ॐ रविवंशसमुद्भूताय नमः ।
- ॐ राघवाय नमः ।
- ॐ भरताग्रजाय नमः ।
- ॐ कौसल्यातनयाय नमः ।
- ॐ रामाय नमः ।
- ॐ विश्वामित्रप्रियङ्कराय नमः ।
- ॐ ताटकारये नमः ।
- ॐ सुबाहुघ्नाय नमः ।
- ॐ बलातिबलमन्त्रवते नमः ।
- ॐ अहल्याशापविच्छेदिने नमः ।
- ॐ प्रविष्टजनकालयाय नमः ।
- ॐ स्वयंवरसभासंस्थाय नमः ।
- ॐ ईशचापप्रभञ्जनाय नमः ।
- ॐ जानकीपरिणेत्रे नमः ।
- ॐ जनकाधीशसंस्तुताय नमः ।
- ॐ जमदग्नितनूजातयोद्ध्रे नमः ।
- ॐ अयोध्याधिपाग्रण्ये नमः ।
- ॐ पितृवाक्यप्रतीपालाय नमः ।
- ॐ त्यक्तराज्याय नमः ।
- ॐ सलक्ष्मणाय नमः ।
- ॐ ससीताय नमः ।
- ॐ चित्रकूटस्थाय नमः ।
- ॐ भरताहितराज्यकाय नमः ।
- ॐ काकदर्पप्रहर्ते नमः ।
- ॐ दण्डकारण्यवासकाय नमः ।
- ॐ पञ्चवट्यां विहारिणे नमः ।
- ॐ स्वधर्मपरिपोषकाय नमः ।
- ॐ विराधघ्ने नमः ।
- ॐ अगस्त्यमुख्यमुनि सम्मानिताय नमः ।
- ॐ पुंसे नमः ।
- ॐ इन्द्रचापधराय नमः ।
- ॐ खड्गधराय नमः ।
- ॐ अक्षयसायकाय नमः ।
- ॐ खरान्तकाय नमः ।
- ॐ धूषणारये नमः ।
- ॐ त्रिशिरस्करिपवे नमः ।
- ॐ वृषाय नमः ।
- ॐ शूर्पणखानासाच्छेत्त्रे नमः ।
- ॐ वल्कलधारकाय नमः ।
- ॐ जटावते नमः ।
- ॐ पर्णशालास्थाय नमः ।
- ॐ मारीचबलमर्दकाय नमः ।
- ॐ पक्षिराट्कृतसंवादाय नमः ।
- ॐ रवितेजसे नमः ।
- ॐ महाबलाय नमः ।
- ॐ शबर्यानीतफलभुजे नमः ।
- ॐ हनूमत्परितोषिताय नमः ।
- ॐ सुग्रीवाभयदाय नमः ।
- ॐ दैत्यकायक्षेपणभासुराय नमः ।
- ॐ सप्तसालसमुच्छेत्त्रे नमः ।
- ॐ वालिहृते नमः ।
- ॐ कपिसंवृताय नमः ।
- ॐ वायुसूनुकृतासेवाय नमः ।
- ॐ त्यक्तपम्पाय नमः ।
- ॐ कुशासनाय नमः ।
- ॐ उदन्वत्तीरगाय नमः ।
- ॐ शूराय नमः ।
- ॐ विभीषणवरप्रदाय नमः ।
- ॐ सेतुकृते नमः ।
- ॐ दैत्यघ्ने नमः ।
- ॐ प्राप्तलङ्काय नमः ।
- ॐ अलङ्कारवते नमः ।
- ॐ अतिकायशिरश्छेत्त्रे नमः ।
- ॐ कुम्भकर्णविभेदनाय नमः ।
- ॐ दशकण्ठशिरोध्वंसिने नमः ।
- ॐ जाम्बवत्प्रमुखावृताय नमः ।
- ॐ जानकीशाय नमः ।
- ॐ सुराध्यक्षाय नमः ।
- ॐ साकेतेशाय नमः ।
- ॐ पुरातनाय नमः ।
- ॐ पुण्यश्लोकाय नमः ।
- ॐ वेदवेद्याय नमः ।
- ॐ स्वामितीर्थनिवासकाय नमः ।
- ॐ लक्ष्मीसरःकेलिलोलाय नमः ।
- ॐ लक्ष्मीशाय नमः ।
- ॐ लोकरक्षकाय नमः ।
- ॐ देवकीगर्भसम्भूताय नमः ।
- ॐ यशोदेक्षणलालिताय नमः ।
- ॐ वसुदेवकृतस्तोत्राय नमः ।
- ॐ नन्दगोपमनोहराय नमः ।
- ॐ चतुर्भुजाय नमः ।
- ॐ कोमलाङ्गाय नमः ।
- ॐ गदावते नमः ।
- ॐ नीलकुन्तलाय नमः ।
- ॐ पूतनाप्राणसंहर्त्रे नमः ।
- ॐ तृणावर्तविनाशनाय नमः ।
- ॐ गर्गारोपितनामाङ्काय नमः ।
- ॐ वासुदेवाय नमः ।
- ॐ अधोक्षजाय नमः ।
- ॐ गोपिकास्तन्यपायिने नमः ।
- ॐ बलभद्रानुजाय नमः ।
- ॐ अच्युताय नमः ।
- ॐ वैयाघ्रनखभूषाय नमः ।
- ॐ वत्सजिते नमः ।
- ॐ वत्सवर्धनाय नमः ।
- ॐ क्षीरसाराशनरताय नमः ।
- ॐ दधिभाण्डप्रमर्धनाय नमः ।
- ॐ नवनीतापहर्त्रे नमः ।
- ॐ नीलनीरदभासुराय नमः ।
- ॐ आभीरदृष्टदौर्जन्याय नमः ।
- ॐ नीलपद्मनिभाननाय नमः ।
- ॐ मातृदर्शितविश्वास्याय नमः ।
- ॐ उलूखलनिबन्धनाय नमः ।
- ॐ नलकूबरशापान्ताय नमः ।
- ॐ गोधूलिच्छुरिताङ्गकाय नमः ।
- ॐ गोसङ्घरक्षकाय नमः ।
- ॐ श्रीशाय नमः ।
- ॐ बृन्दारण्यनिवासकाय नमः ।
- ॐ वत्सान्तकाय नमः ।
- ॐ बकद्वेषिणे नमः ।
- ॐ दैत्याम्बुदमहानिलाय नमः ।
- ॐ महाजगरचण्डाग्नये नमः ।
- ॐ शकटप्राणकण्टकाय नमः ।
- ॐ इन्द्रसेव्याय नमः ।
- ॐ पुण्यगात्राय नमः ।
- ॐ खरजिते नमः ।
- ॐ चण्डदीधितये नमः ।
- ॐ तालपक्वफलाशिने नमः ।
- ॐ कालीयफणिदर्पघ्ने नमः ।
- ॐ नागपत्नीस्तुतिप्रीताय नमः ।
- ॐ प्रलम्बासुरखण्डनाय नमः ।
- ॐ दावाग्निबलसंहारिणे नमः ।
- ॐ फलाहारिणे नमः ।
- ॐ गदाग्रजाय नमः ।
- ॐ गोपाङ्गनाचेलचोराय नमः ।
- ॐ पाथोलीलाविशारदाय नमः ।
- ॐ वंशगानप्रवीणाय नमः ।
- ॐ गोपीहस्ताम्बुजार्चिताय नमः ।
- ॐ मुनिपत्न्याहृताहाराय नमः ।
- ॐ मुनिश्रेष्ठाय नमः ।
- ॐ मुनिप्रियाय नमः ।
- ॐ गोवर्धनाद्रिसन्धर्त्रे नमः ।
- ॐ सङ्क्रन्दनतमोपहाय नमः ।
- ॐ सदुद्यानविलासिने नमः ।
- ॐ रासक्रीडापरायणाय नमः ।
- ॐ वरुणाभ्यर्चिताय नमः ।
- ॐ गोपीप्रार्थिताय नमः ।
- ॐ पुरुषोत्तमाय नमः ।
- ॐ अक्रूरस्तुतिसम्प्रीताय नमः ।
- ॐ कुब्जायौवनदायकाय नमः ।
- ॐ मुष्टिकोरःप्रहारिणे नमः ।
- ॐ चाणूरोदरदारणाय नमः ।
- ॐ मल्लयुद्धाग्रगण्याय नमः ।
- ॐ पितृबन्धनमोचकाय नमः ।
- ॐ मत्तमातङ्गपञ्चास्याय नमः ।
- ॐ कंसग्रीवानिकृन्तनाय नमः ।
- ॐ उग्रसेनप्रतिष्ठात्रे नमः ।
- ॐ रत्नसिंहासनस्थिताय नमः ।
- ॐ कालनेमिखलद्वेषिणे नमः ।
- ॐ मुचुकुन्दवरप्रदाय नमः ।
- ॐ साल्वसेवितदुर्धर्षराजस्मयनिवारणाय नमः ।
- ॐ रुक्मिगर्वापहारिणे नमः ।
- ॐ रुक्मिणीनयनोत्सवाय नमः ।
- ॐ प्रद्युम्नजनकाय नमः ।
- ॐ कामिने नमः ।
- ॐ प्रद्युम्नाय नमः ।
- ॐ द्वारकाधिपाय नमः ।
- ॐ मण्याहर्त्रे नमः ।
- ॐ महामायाय नमः ।
- ॐ जाम्बवत्कृतसङ्गराय नमः ।
- ॐ जाम्बूनदाम्बरधराय नमः ।
- ॐ गम्याय नमः ।
- ॐ जाम्बवतीविभवे नमः ।
- ॐ कालिन्दीप्रथितारामकेलये नमः ।
- ॐ गुञ्जावतंसकाय नमः ।
- ॐ मन्दारसुमनोभास्वते नमः ।
- ॐ शचीशाभीष्टदायकाय नमः ।
- ॐ सत्राजिन्मानसोल्लासिने नमः ।
- ॐ सत्याजानये नमः ।
- ॐ शुभावहाय नमः ।
- ॐ शतधन्वहराय नमः ।
- ॐ सिद्धाय नमः ।
- ॐ पाण्डवप्रियकोत्सवाय नमः ।
- ॐ भद्रप्रियाय नमः ।
- ॐ सुभद्रायाः भ्रात्रे नमः ।
- ॐ नाग्नजितीविभवे नमः ।
- ॐ किरीटकुण्डलधराय नमः ।
- ॐ कल्पपल्लवलालिताय नमः ।
- ॐ भैष्मीप्रणयभाषावते नमः ।
- ॐ मित्रविन्दाधिपाय नमः ।
- ॐ अभयाय नमः ।
- ॐ स्वमूर्तिकेलिसम्प्रीताय नमः ।
- ॐ लक्ष्मणोदारमानसाय नमः ।
- ॐ प्राग्ज्योतिषाधिपध्वंसिने नमः ।
- ॐ तत्सैन्यान्तकराय नमः ।
- ॐ अमृताय नमः ।
- ॐ भूमिस्तुताय नमः ।
- ॐ भूरिभोगाय नमः ।
- ॐ भूषणाम्बरसम्युताय नमः ।
- ॐ बहुरामाकृताह्लादाय नमः ।
- ॐ गन्धमाल्यानुलेपनाय नमः ।
- ॐ नारदादृष्टचरिताय नमः ।
- ॐ देवेशाय नमः ।
- ॐ विश्वराजे नमः ।
- ॐ गुरवे नमः ।
- ॐ बाणबाहुविदाराय नमः ।
- ॐ तापज्वरविनाशनाय नमः ।
- ॐ उपोद्धर्षयित्रे नमः ।
- ॐ अव्यक्ताय नमः ।
- ॐ शिववाक्तुष्टमानसाय नमः ।
- ॐ महेशज्वरसंस्तुत्याय नमः ।
- ॐ शीतज्वरभयान्तकाय नमः ।
- ॐ नृगराजोद्धारकाय नमः ।
- ॐ पौण्ड्रकादिवधोद्यताय नमः ।
- ॐ विविधारिच्छलोद्विग्न ब्राह्मणेषु दयापराय नमः ।
- ॐ जरासन्धबलद्वेषिणे नमः ।
- ॐ केशिदैत्यभयङ्कराय नमः ।
- ॐ चक्रिणे नमः ।
- ॐ चैद्यान्तकाय नमः ।
- ॐ सभ्याय नमः ।
- ॐ राजबन्धविमोचकाय नमः ।
- ॐ राजसूयहविर्भोक्त्रे नमः ।
- ॐ स्निग्धाङ्गाय नमः ।
- ॐ शुभलक्षणाय नमः ।
- ॐ धानाभक्षणसम्प्रीताय नमः ।
- ॐ कुचेलाभीष्टदायकाय नमः ।
- ॐ सत्त्वादिगुणगम्भीराय नमः ।
- ॐ द्रौपदीमानरक्षकाय नमः ।
- ॐ भीष्मध्येयाय नमः ।
- ॐ भक्तवश्याय नमः ।
- ॐ भीमपूज्याय नमः ।
- ॐ दयानिधये नमः ।
- ॐ दन्तवक्त्रशिरश्छेत्त्रे नमः ।
- ॐ कृष्णाय नमः ।
- ॐ कृष्णासखाय नमः ।
- ॐ स्वराजे नमः ।
- ॐ वैजयन्तीप्रमोदिने नमः ।
- ॐ बर्हिबर्हविभूषणाय नमः ।
- ॐ पार्थकौरवसन्धानकारिणे नमः ।
- ॐ दुश्शासनान्तकाय नमः ।
- ॐ बुद्धाय नमः ।
- ॐ विशुद्धाय नमः ।
- ॐ सर्वज्ञाय नमः ।
- ॐ क्रतुहिंसाविनिन्दकाय नमः ।
- ॐ त्रिपुरस्त्रीमानभङ्गाय नमः ।
- ॐ सर्वशास्त्रविशारदाय नमः ।
- ॐ निर्विकाराय नमः ।
- ॐ निर्ममाय नमः ।
- ॐ निराभासाय नमः ।
- ॐ निरामयाय नमः ।
- ॐ जगन्मोहकधर्मिणे नमः ।
- ॐ दिग्वस्त्राय नमः ।
- ॐ दिक्पतीश्वरायाय नमः ।
- ॐ कल्किने नमः ।
- ॐ म्लेच्छप्रहर्त्रे नमः ।
- ॐ दुष्टनिग्रहकारकाय नमः ।
- ॐ धर्मप्रतिष्ठाकारिणे नमः ।
- ॐ चातुर्वर्ण्यविभागकृते नमः ।
- ॐ युगान्तकाय नमः ।
- ॐ युगाक्रान्ताय नमः ।
- ॐ युगकृते नमः ।
- ॐ युगभासकाय नमः ।
- ॐ कामारये नमः ।
- ॐ कामकारिणे नमः ।
- ॐ निष्कामाय नमः ।
- ॐ कामितार्थदाय नमः ।
- ॐ सवितुर्वरेण्याय भर्गसे नमः ।
- ॐ शार्ङ्गिणे नमः ।
- ॐ वैकुण्ठमन्दिराय नमः ।
- ॐ हयग्रीवाय नमः ।
- ॐ कैटभारये नमः ।
- ॐ ग्राहघ्नाय नमः ।
- ॐ गजरक्षकाय नमः ।
- ॐ सर्वसंशयविच्छेत्त्रे नमः ।
- ॐ सर्वभक्तसमुत्सुकाय नमः ।
- ॐ कपर्दिने नमः ।
- ॐ कामहारिणे नमः ।
- ॐ कलायै नमः ।
- ॐ काष्ठायै नमः ।
- ॐ स्मृतये नमः ।
- ॐ धृतये नमः ।
- ॐ अनादये नमः ।
- ॐ अप्रमेयौजसे नमः ।
- ॐ प्रधानाय नमः ।
- ॐ सन्निरूपकाय नमः ।
- ॐ निर्लेपाय नमः ।
- ॐ निस्स्पृहाय नमः ।
- ॐ असङ्गाय नमः ।
- ॐ निर्भयाय नमः ।
- ॐ नीतिपारगाय नमः ।
- ॐ निष्प्रेष्याय नमः ।
- ॐ निष्क्रियाय नमः ।
- ॐ शान्ताय नमः ।
- ॐ निष्प्रपञ्चाय नमः ।
- ॐ निधये नमः ।
- ॐ नयाय नमः ।
- ॐ कर्मिणे नमः ।
- ॐ अकर्मिणे नमः ।
- ॐ विकर्मिणे नमः ।
- ॐ कर्मेप्सवे नमः ।
- ॐ कर्मभावनाय नमः ।
- ॐ कर्माङ्गाय नमः ।
- ॐ कर्मविन्यासाय नमः ।
- ॐ महाकर्मिणे नमः ।
- ॐ महाव्रतिने नमः ।
- ॐ कर्मभुजे नमः ।
- ॐ कर्मफलदाय नमः ।
- ॐ कर्मेशाय नमः ।
- ॐ कर्मनिग्रहाय नमः ।
- ॐ नराय नमः ।
- ॐ नारायणाय नमः ।
- ॐ दान्ताय नमः ।
- ॐ कपिलाय नमः ।
- ॐ कामदाय नमः ।
- ॐ शुचये नमः ।
- ॐ तप्त्रे नमः ।
- ॐ जप्त्रे नमः ।
- ॐ अक्षमालावते नमः ।
- ॐ गन्त्रे नमः ।
- ॐ नेत्रे नमः ।
- ॐ लयाय नमः ।
- ॐ गतये नमः ।
- ॐ शिष्टाय नमः ।
- ॐ द्रष्ट्रे नमः ।
- ॐ रिपुद्वेष्ट्रे नमः ।
- ॐ रोष्ट्रे नमः ।
- ॐ वेष्ट्रे नमः ।
- ॐ महानटाय नमः ।
- ॐ रोद्ध्रे नमः ।
- ॐ बोद्ध्रे नमः ।
- ॐ महायोद्ध्रे नमः ।
- ॐ श्रद्धावते नमः ।
- ॐ सत्यधिये नमः ।
- ॐ शुभाय नमः ।
- ॐ मन्त्रिणे नमः ।
- ॐ मन्त्राय नमः ।
- ॐ मन्त्रगम्याय नमः ।
- ॐ मन्त्रकृते नमः ।
- ॐ परमन्त्रहृते नमः ।
- ॐ मन्त्रभृते नमः ।
- ॐ मन्त्रफलदाय नमः ।
- ॐ मन्त्रेशाय नमः ।
- ॐ मन्त्रविग्रहाय नमः ।
- ॐ मन्त्राङ्गाय नमः ।
- ॐ मन्त्रविन्यासाय नमः ।
- ॐ महामन्त्राय नमः ।
- ॐ महाक्रमाय नमः ।
- ॐ स्थिरधिये नमः ।
- ॐ स्थिरविज्ञानाय नमः ।
- ॐ स्थिरप्रज्ञाय नमः ।
- ॐ स्थिरासनाय नमः ।
- ॐ स्थिरयोगाय नमः ।
- ॐ स्थिराधाराय नमः ।
- ॐ स्थिरमार्गाय नमः ।
- ॐ स्थिरागमाय नमः ।
- ॐ निश्श्रेयसाय नमः ।
- ॐ निरीहाय नमः ।
- ॐ अग्नये नमः ।
- ॐ निरवद्याय नमः ।
- ॐ निरञ्जनाय नमः ।
- ॐ निर्वैराय नमः ।
- ॐ निरहङ्काराय नमः ।
- ॐ निर्दम्भाय नमः ।
- ॐ निरसूयकाय नमः ।
- ॐ अनन्ताय नमः ।
- ॐ अनन्तबाहूरवे नमः ।
- ॐ अनन्ताङ्घ्रये नमः ।
- ॐ अनन्तदृशे नमः ।
- ॐ अनन्तवक्त्राय नमः ।
- ॐ अनन्ताङ्गाय नमः ।
- ॐ अनन्तरूपाय नमः ।
- ॐ अनन्तकृते नमः ।
- ॐ ऊर्ध्वरेतसे नमः ।
- ॐ ऊर्ध्वलिङ्गाय नमः ।
- ॐ ऊर्ध्वमूर्ध्ने नमः ।
- ॐ ऊर्ध्वशाखकाय नमः ।
- ॐ ऊर्ध्वाय नमः ।
- ॐ ऊर्ध्वाध्वरक्षिणे नमः ।
- ॐ ऊर्ध्वज्वालाय नमः ।
- ॐ निराकुलाय नमः ।
- ॐ बीजाय नमः ।
- ॐ बीजप्रदाय नमः ।
- ॐ नित्याय नमः ।
- ॐ निदानाय नमः ।
- ॐ निष्कृतये नमः ।
- ॐ कृतिने नमः ।
- ॐ महते नमः ।
- ॐ अणीयसे नमः ।
- ॐ गरिम्णे नमः ।
- ॐ सुषमाय नमः ।
- ॐ चित्रमालिकाय नमः ।
- ॐ नभःस्पृशे नमः ।
- ॐ नभसो ज्योतिषे नमः ।
- ॐ नभस्वते नमः ।
- ॐ निर्नभसे नमः ।
- ॐ नभसे नमः ।
- ॐ अभवे नमः ।
- ॐ विभवे नमः ।
- ॐ प्रभवे नमः ।
- ॐ शम्भवे नमः ।
- ॐ महीयसे नमः ।
- ॐ भूर्भुवाकृतये नमः ।
- ॐ महानन्दाय नमः ।
- ॐ महाशूराय नमः ।
- ॐ महोराशये नमः ।
- ॐ महोत्सवाय नमः ।
- ॐ महाक्रोधाय नमः ।
- ॐ महाज्वालाय नमः ।
- ॐ महाशान्ताय नमः ।
- ॐ महागुणाय नमः ।
- ॐ सत्यव्रताय नमः ।
- ॐ सत्यपराय नमः ।
- ॐ सत्यसन्धाय नमः ।
- ॐ सताङ्गतये नमः ।
- ॐ सत्येशाय नमः ।
- ॐ सत्यसङ्कल्पाय नमः ।
- ॐ सत्यचारित्रलक्षणाय नमः ।
- ॐ अन्तश्चराय नमः ।
- ॐ अन्तरात्मने नमः ।
- ॐ परमात्मने नमः ।
- ॐ चिदात्मकाय नमः ।
- ॐ रोचनाय नमः ।
- ॐ रोचमानाय नमः ।
- ॐ साक्षिणे नमः ।
- ॐ शौरये नमः ।
- ॐ जनार्दनाय नमः ।
- ॐ मुकुन्दाय नमः ।
- ॐ नन्दनिष्पन्दाय नमः ।
- ॐ स्वर्णबिन्दवे नमः ।
- ॐ पुरन्दराय नमः ।
- ॐ अरिन्दमाय नमः ।
- ॐ सुमन्दाय नमः ।
- ॐ कुन्दमन्दारहासवते नमः ।
- ॐ स्यन्दनारूढचण्डाङ्गाय नमः ।
- ॐ आनन्दिने नमः ।
- ॐ नन्दनन्दाय नमः ।
- ॐ अनसूयानन्दनाय नमः ।
- ॐ अत्रिनेत्रानन्दाय नमः ।
- ॐ सुनन्दवते नमः ।
- ॐ शङ्खवते नमः ।
- ॐ पङ्कजकराय नमः ।
- ॐ कुङ्कुमाङ्काय नमः ।
- ॐ जयाङ्कुशाय नमः ।
- ॐ अम्भोजमकरन्दाढ्याय नमः ।
- ॐ निष्पङ्काय नमः ।
- ॐ अगरुपङ्किलाय नमः ।
- ॐ इन्द्राय नमः ।
- ॐ चन्द्ररथाय नमः ।
- ॐ चन्द्राय नमः ।
- ॐ अतिचन्द्राय नमः ।
- ॐ चन्द्रभासकाय नमः ।
- ॐ उपेन्द्राय नमः ।
- ॐ इन्द्रराजाय नमः ।
- ॐ वागीन्द्राय नमः ।
- ॐ चन्द्रलोचनाय नमः ।
- ॐ प्रतीचे नमः ।
- ॐ पराचे नमः ।
- ॐ परस्मै धाम्ने नमः ।
- ॐ परमार्थाय नमः ।
- ॐ परात्पराय नमः ।
- ॐ अपारवाचे नमः ।
- ॐ पारगामिने नमः ।
- ॐ पारावाराय नमः ।
- ॐ परावराय नमः ।
- ॐ सहस्वते नमः ।
- ॐ अर्थदात्रे नमः ।
- ॐ सहनाय नमः ।
- ॐ साहसिने नमः ।
- ॐ जयिने नमः ।
- ॐ तेजस्विने नमः ।
- ॐ वायुविशिखिने नमः ।
- ॐ तपस्विने नमः ।
- ॐ तापसोत्तमाय नमः ।
- ॐ ऐश्वर्योद्भूतिकृते नमः ।
- ॐ भूतये नमः ।
- ॐ ऐश्वर्याङ्गकलापवते नमः ।
- ॐ अम्भोधिशायिने नमः ।
- ॐ भगवते नमः ।
- ॐ सर्वज्ञाय नमः ।
- ॐ सामपारगाय नमः ।
- ॐ महायोगिने नमः ।
- ॐ महाधीराय नमः ।
- ॐ महाभोगिने नमः ।
- ॐ महाप्रभवे नमः ।
- ॐ महावीराय नमः ।
- ॐ महातुष्टये नमः ।
- ॐ महापुष्टये नमः ।
- ॐ महागुणाय नमः ।
- ॐ महादेवाय नमः ।
- ॐ महाबाहवे नमः ।
- ॐ महाधर्माय नमः ।
- ॐ महेश्वराय नमः ।
- ॐ समीपगाय नमः ।
- ॐ दूरगामिने नमः ।
- ॐ स्वर्गमार्गनिरर्गलाय नमः ।
- ॐ नगाय नमः ।
- ॐ नगधराय नमः ।
- ॐ नागाय नमः ।
- ॐ नागेशाय नमः ।
- ॐ नागपालकाय नमः ।
- ॐ हिरण्मयाय नमः ।
- ॐ स्वर्णरेतसे नमः ।
- ॐ हिरण्यार्चिषे नमः ।
- ॐ हिरण्यदाय नमः ।
- ॐ गुणगण्याय नमः ।
- ॐ शरण्याय नमः ।
- ॐ पुण्यकीर्तये नमः ।
- ॐ पुराणगाय नमः ।
- ॐ जन्यभृते नमः ।
- ॐ जन्यसन्नद्धाय नमः ।
- ॐ दिव्यपञ्चायुधाय नमः ।
- ॐ विशिने नमः ।
- ॐ दौर्जन्यभङ्गाय नमः ।
- ॐ पर्जन्याय नमः ।
- ॐ सौजन्यनिलयाय नमः ।
- ॐ अलयाय नमः ।
- ॐ जलन्धरान्तकाय नमः ।
- ॐ भस्मदैत्यनाशिने नमः ।
- ॐ महामनसे नमः ।
- ॐ श्रेष्ठाय नमः ।
- ॐ श्रविष्ठाय नमः ।
- ॐ द्राघिष्ठाय नमः ।
- ॐ गरिष्ठाय नमः ।
- ॐ गरुडध्वजाय नमः ।
- ॐ ज्येष्ठाय नमः ।
- ॐ द्रढिष्ठाय नमः ।
- ॐ वर्षिष्ठाय नमः ।
- ॐ द्राघीयसे नमः ।
- ॐ प्रणवाय नमः ।
- ॐ फणिने नमः ।
- ॐ सम्प्रदायकराय नमः ।
- ॐ स्वामिने नमः ।
- ॐ सुरेशाय नमः ।
- ॐ माधवाय नमः ।
- ॐ मधवे नमः ।
- ॐ निर्णिमेषाय नमः ।
- ॐ विधये नमः ।
- ॐ वेधसे नमः ।
- ॐ बलवते नमः ।
- ॐ जीवनाय नमः ।
- ॐ बलिने नमः ।
- ॐ स्मर्त्रे नमः ।
- ॐ श्रोत्रे नमः ।
- ॐ विकर्त्रे नमः ।
- ॐ ध्यात्रे नमः ।
- ॐ नेत्रे नमः ।
- ॐ समाय नमः ।
- ॐ असमाय नमः ।
- ॐ होत्रे नमः ।
- ॐ पोत्रे नमः ।
- ॐ महावक्त्रे नमः ।
- ॐ रन्त्रे नमः ।
- ॐ मन्त्रे नमः ।
- ॐ खलान्तकाय नमः ।
- ॐ दात्रे नमः ।
- ॐ ग्राहयित्रे नमः ।
- ॐ मात्रे नमः ।
- ॐ नियन्त्रे नमः ।
- ॐ अनन्तवैभवाय नमः ।
- ॐ गोप्त्रे नमः ।
- ॐ गोपयित्रे नमः ।
- ॐ हन्त्रे नमः ।
- ॐ धर्मजागरित्रे नमः ।
- ॐ धवाय नमः ।
- ॐ कर्त्रे नमः ।
- ॐ क्षेत्रकराय नमः ।
- ॐ क्षेत्रप्रदाय नमः ।
- ॐ क्षेत्रज्ञाय नमः ।
- ॐ आत्मविदे नमः ।
- ॐ क्षेत्रिणे नमः ।
- ॐ क्षेत्रहराय नमः ।
- ॐ क्षेत्रप्रियाय नमः ।
- ॐ क्षेमकराय नमः ।
- ॐ मरुते नमः ।
- ॐ भक्तिप्रदाय नमः ।
- ॐ मुक्तिदायिने नमः ।
- ॐ शक्तिदाय नमः ।
- ॐ युक्तिदायकाय नमः ।
- ॐ शक्तियुजे नमः ।
- ॐ मौक्तिकस्रग्विणे नमः ।
- ॐ सूक्तये नमः ।
- ॐ आम्नायसूक्तिगाय नमः ।
- ॐ धनञ्जयाय नमः ।
- ॐ धनाध्यक्षाय नमः ।
- ॐ धनिकाय नमः ।
- ॐ धनदाधिपाय नमः ।
- ॐ महाधनाय नमः ।
- ॐ महामानिने नमः ।
- ॐ दुर्योधनविमानिताय नमः ।
- ॐ रत्नाकराय नमः ।
- ॐ रत्न रोचिषे नमः ।
- ॐ रत्नगर्भाश्रयाय नमः ।
- ॐ शुचये नमः ।
- ॐ रत्नसानुनिधये नमः ।
- ॐ मौलिरत्नभासे नमः ।
- ॐ रत्नकङ्कणाय नमः ।
- ॐ अन्तर्लक्ष्याय नमः ।
- ॐ अन्तरभ्यासिने नमः ।
- ॐ अन्तर्ध्येयाय नमः ।
- ॐ जितासनाय नमः ।
- ॐ अन्तरङ्गाय नमः ।
- ॐ दयावते नमः ।
- ॐ अन्तर्मायाय नमः ।
- ॐ महार्णवाय नमः ।
- ॐ सरसाय नमः ।
- ॐ सिद्धरसिकाय नमः ।
- ॐ सिद्धये नमः ।
- ॐ साध्याय नमः ।
- ॐ सदागतये नमः ।
- ॐ आयुःप्रदाय नमः ।
- ॐ महायुष्मते नमः ।
- ॐ अर्चिष्मते नमः ।
- ॐ ओषधीपतये नमः ।
- ॐ अष्टश्रियै नमः ।
- ॐ अष्टभागाय नमः ।
- ॐ अष्टककुब्व्याप्तयशसे नमः ।
- ॐ व्रतिने नमः ।
- ॐ अष्टापदाय नमः ।
- ॐ सुवर्णाभाय नमः ।
- ॐ अष्टमूर्तये नमः ।
- ॐ त्रिमूर्तिमते नमः ।
- ॐ अस्वप्नाय नमः ।
- ॐ स्वप्नगाय नमः ।
- ॐ स्वप्नाय नमः ।
- ॐ सुस्वप्नफलदायकाय नमः ।
- ॐ दुस्स्वप्नध्वंसकाय नमः ।
- ॐ ध्वस्तदुर्निमित्ताय नमः ।
- ॐ शिवङ्कराय नमः ।
- ॐ सुवर्णवर्णाय नमः ।
- ॐ सम्भाव्याय नमः ।
- ॐ वर्णिताय नमः ।
- ॐ वर्णसम्मुखाय नमः ।
- ॐ सुवर्णमुखरीतीरशिव ध्यातपदाम्बुजाय नमः ।
- ॐ दाक्षायणीवचस्तुष्टाय नमः ।
- ॐ दुर्वासोदृष्टिगोचराय नमः ।
- ॐ अम्बरीषव्रतप्रीताय नमः ।
- ॐ महाकृत्तिविभञ्जनाय नमः ।
- ॐ महाभिचारकध्वंसिने नमः ।
- ॐ कालसर्पभयान्तकाय नमः ।
- ॐ सुदर्शनाय नमः ।
- ॐ कालमेघश्यामाय नमः ।
- ॐ श्रीमन्त्रभाविताय नमः ।
- ॐ हेमाम्बुजसरस्नायिने नमः ।
- ॐ श्रीमनोभाविताकृतये नमः ।
- ॐ श्रीप्रदत्ताम्बुजस्रग्विणे नमः ।
- ॐ श्रीकेलये नमः ।
- ॐ श्रीनिधये नमः ।
- ॐ भवाय नमः ।
- ॐ श्रीप्रदाय नमः ।
- ॐ वामनाय नमः ।
- ॐ लक्ष्मीनायकाय नमः ।
- ॐ चतुर्भुजाय नमः ।
- ॐ सन्तृप्ताय नमः ।
- ॐ तर्पिताय नमः ।
- ॐ तीर्थस्नातृसौख्यप्रदर्शकाय नमः ।
- ॐ अगस्त्यस्तुतिसंहृष्टाय नमः ।
- ॐ दर्शिताव्यक्तभावनाय नमः ।
- ॐ कपिलार्चिषे नमः ।
- ॐ कपिलवते नमः ।
- ॐ सुस्नाताघाविपाटनाय नमः ।
- ॐ वृषाकपये नमः ।
- ॐ कपिस्वामिमनोन्तस्थितविग्रहाय नमः ।
- ॐ वह्निप्रियाय नमः ।
- ॐ अर्थसम्भवाय नमः ।
- ॐ जनलोकविधायकाय नमः ।
- ॐ वह्निप्रभाय नमः ।
- ॐ वह्नितेजसे नमः ।
- ॐ शुभाभीष्टप्रदाय नमः ।
- ॐ यमिने नमः ।
- ॐ वारुणक्षेत्रनिलयाय नमः ।
- ॐ वरुणाय नमः ।
- ॐ वारणार्चिताय नमः ।
- ॐ वायुस्थानकृतावासाय नमः ।
- ॐ वायुगाय नमः ।
- ॐ वायुसम्भृताय नमः ।
- ॐ यमान्तकाय नमः ।
- ॐ अभिजननाय नमः ।
- ॐ यमलोकनिवारणाय नमः ।
- ॐ यमिनामग्रगण्याय नमः ।
- ॐ सम्यमिने नमः ।
- ॐ यमभाविताय नमः ।
- ॐ इन्द्रोद्यानसमीपस्थाय नमः ।
- ॐ इन्द्रदृग्विषयाय नमः ।
- ॐ प्रभवे नमः ।
- ॐ यक्षराट्सरसीवासाय नमः ।
- ॐ अक्षय्यनिधिकोशकृते नमः ।
- ॐ स्वामितीर्थकृतावासाय नमः ।
- ॐ स्वामिध्येयाय नमः ।
- ॐ अधोक्षजाय नमः ।
- ॐ वराहाद्यष्टतीर्थाभिसेविताङ्घ्रिसरोरुहाय नमः ।
- ॐ पाण्डुतीर्थाभिषिक्ताङ्गाय नमः ।
- ॐ युधिष्ठिरवरप्रदाय नमः ।
- ॐ भीमान्तःकरणारूढाय नमः ।
- ॐ श्वेतवाहनसख्यवते नमः ।
- ॐ नकुलाभयदाय नमः ।
- ॐ माद्रीसहदेवाभिवन्दिताय नमः ।
- ॐ कृष्णाशपथसन्धात्रे नमः ।
- ॐ कुन्तीस्तुतिरताय नमः ।
- ॐ दमिने नमः ।
- ॐ नारदादिमुनिस्तुत्याय नमः ।
- ॐ नित्यकर्मपरायणाय नमः ।
- ॐ दर्शिताव्यक्तरूपाय नमः ।
- ॐ वीणानादप्रमोदिताय नमः ।
- ॐ षट्कोटितीर्थचर्यावते नमः ।
- ॐ देवतीर्थकृताश्रमाय नमः ।
- ॐ बिल्वामलजलस्नायिने नमः ।
- ॐ सरस्वत्यम्बुसेविताय नमः ।
- ॐ तुम्बुरूदकसंस्पर्शजनचित्ततमोपहाय नमः ।
- ॐ मत्स्यवामनकूर्मादितीर्थराजाय नमः ।
- ॐ पुराणभृते नमः ।
- ॐ चक्रध्येयपदाम्भोजाय नमः ।
- ॐ शङ्खपूजितपादुकाय नमः ।
- ॐ रामतीर्थविहारिणे नमः ।
- ॐ बलभद्रप्रतिष्ठिताय नमः ।
- ॐ जामदग्न्यसरस्तीर्थजलसेचनतर्पिताय नमः ।
- ॐ पापापहारिकीलालसुस्नाताघविनाशनाय नमः ।
- ॐ नभोगङ्गाभिषिक्ताय नमः ।
- ॐ नागतीर्थाभिषेकवते नमः ।
- ॐ कुमारधारातीर्थस्थाय नमः ।
- ॐ वटुवेषाय नमः ।
- ॐ सुमेखलाय नमः ।
- ॐ वृद्धस्यसुकुमारत्व प्रदाय नमः ।
- ॐ सौन्दर्यवते नमः ।
- ॐ सुखिने नमः ।
- ॐ प्रियंवदाय नमः ।
- ॐ महाकुक्षये नमः ।
- ॐ इक्ष्वाकुकुलनन्दनाय नमः ।
- ॐ नीलगोक्षीरधाराभुवे नमः ।
- ॐ वराहाचलनायकाय नमः ।
- ॐ भरद्वाजप्रतिष्ठावते नमः ।
- ॐ बृहस्पतिविभाविताय नमः ।
- ॐ अञ्जनाकृतपूजावते नमः ।
- ॐ आञ्जनेयकरार्चिताय नमः ।
- ॐ अञ्जनाद्रिनिवासाय नमः ।
- ॐ मुञ्जकेशाय नमः ।
- ॐ पुरन्दराय नमः ।
- ॐ किन्नरद्वन्द्वसम्बन्धिबन्धमोक्षप्रदायकाय नमः ।
- ॐ वैखानसमखारम्भाय नमः ।
- ॐ वृषज्ञेयाय नमः ।
- ॐ वृषाचलाय नमः ।
- ॐ वृषकायप्रभेत्त्रे नमः ।
- ॐ क्रीडनाचारसम्भ्रमाय नमः ।
- ॐ सौवर्चलेयविन्यस्तराज्याय नमः ।
- ॐ नारायणप्रियाय नमः ।
- ॐ दुर्मेधोभञ्जकाय नमः ।
- ॐ प्राज्ञाय नमः ।
- ॐ ब्रह्मोत्सवमहोत्सुकाय नमः ।
- ॐ भद्रासुरशिरश्छेत्रे नमः ।
- ॐ भद्रक्षेत्रिणे नमः ।
- ॐ सुभद्रवते नमः ।
- ॐ मृगयाक्षीणसन्नाहाय नमः ।
- ॐ शङ्खराजन्यतुष्टिदाय नमः ।
- ॐ स्थाणुस्थाय नमः ।
- ॐ वैनतेयाङ्गभाविताय नमः ।
- ॐ अशरीरवते नमः ।
- ॐ भोगीन्द्रभोगसंस्थानाय नमः ।
- ॐ ब्रह्मादिगणसेविताय नमः ।
- ॐ सहस्रार्कच्छटाभास्वद्विमानान्तःस्थिताय नमः ।
- ॐ गुणिने नमः ।
- ॐ विष्वक्सेनकृतस्तोत्राय नमः ।
- ॐ सनन्दनपरीवृताय नमः ।
- ॐ जाह्नव्यादिनदीसेव्याय नमः ।
- ॐ सुरेशाद्यभिवन्दिताय नमः ।
- ॐ सुराङ्गनानृत्यपराय नमः ।
- ॐ गन्धर्वोद्गायनप्रियाय नमः ।
- ॐ राकेन्दुसङ्काशनखाय नमः ।
- ॐ कोमलाङ्घ्रिसरोरुहाय नमः ।
- ॐ कच्छपप्रपदाय नमः ।
- ॐ कुन्दगुल्फकाय नमः ।
- ॐ स्वच्छकूर्पराय नमः ।
- ॐ मेदुरस्वर्णवस्त्राढ्यकटिदेशस्थमेखलाय नमः ।
- ॐ प्रोल्लसच्छुरिकाभास्वत्कटिदेशाय नमः ।
- ॐ शुभङ्कराय नमः ।
- ॐ अनन्तपद्मजस्थाननाभये नमः ।
- ॐ मौक्तिकमालिकाय नमः ।
- ॐ मन्दारचाम्पेयमालिने नमः ।
- ॐ रत्नाभरणसम्भृताय नमः ।
- ॐ लम्बयज्ञोपवीतिने नमः ।
- ॐ चन्द्रश्रीखण्डलेपवते नमः ।
- ॐ वरदाय नमः ।
- ॐ अभयदाय नमः ।
- ॐ चक्रिणे नमः ।
- ॐ शङ्खिने नमः ।
- ॐ कौस्तुभदीप्तिमते नमः ।
- ॐ श्रीवत्साङ्कितवक्षस्काय नमः ।
- ॐ लक्ष्मीसंश्रितहृत्तटाय नमः ।
- ॐ नीलोत्पलनिभाकाराय नमः ।
- ॐ शोणाम्भोजसमाननाय नमः ।
- ॐ कोटिमन्मथलावण्याय नमः ।
- ॐ चन्द्रिकास्मितपूरिताय नमः ।
- ॐ सुधास्वच्छोर्ध्वपुण्ड्राय नमः ।
- ॐ कस्तूरीतिलकाञ्चिताय नमः ।
- ॐ पुण्डरीकेक्षणाय नमः ।
- ॐ स्वच्छाय नमः ।
- ॐ मौलिशोभाविराजिताय नमः ।
- ॐ पद्मस्थाय नमः ।
- ॐ पद्मनाभाय नमः ।
- ॐ सोममण्डलगाय नमः ।
- ॐ बुधाय नमः ।
- ॐ वह्निमण्डलगाय नमः ।
- ॐ सूर्याय नमः ।
- ॐ सूर्यमण्डलसंस्थिताय नमः ।
- ॐ श्रीपतये नमः ।
- ॐ भूमिजानये नमः ।
- ॐ विमलाद्यभिसंवृताय नमः ।
- ॐ जगत्कुटुम्बजनित्रे नमः ।
- ॐ रक्षकाय नमः ।
- ॐ कामितप्रदाय नमः ।
- ॐ अवस्थात्रययन्त्रे नमः ।
- ॐ विश्वतेजस्स्वरूपवते नमः ।
- ॐ ज्ञप्तये नमः ।
- ॐ ज्ञेयाय नमः ।
- ॐ ज्ञानगम्याय नमः ।
- ॐ ज्ञानातीताय नमः ।
- ॐ सुरातिगाय नमः ।
- ॐ ब्रह्माण्डान्तर्बहिर्व्याप्ताय नमः ।
- ॐ वेङ्कटाद्रिगदाधराय नमः ।
इति श्री वेङ्कटेश्वर सहस्रनामावलिः ।