सनातन स्तोत्र संग्रह
1008 Sahasranamawali
सनातन देव

॥ श्रीसुदर्शनसहस्रनामावलिः ॥

stotra-b06af728
रचयिता: पारंपरिक पाठ संख्या: 1
23px

॥ श्रीसुदर्शनसहस्रनामावलिः ॥

ॐ श्रीसुदर्शनचक्राय नमः । ॐ श्रीकराय नमः । ॐ श्रीशाय नमः । ॐ श्रीविष्णवे नमः । ॐ श्रीविभावनाय नमः । ॐ श्रीमदान्त्यहराय नमः । ॐ श्रीमते नमः । ॐ श्रीवत्सकृतलक्षणाय नमः । ॐ श्रीनिधये नमः ॐ वराय नमः ॥१०॥ ॐ स्रग्विणे नमः । ॐ श्रीलक्ष्मीकरपूजिताय नमः । ॐ श्रीरताय नमः । ॐ श्रीविभवे नमः । ॐ सिन्धुकन्यापतये नमः । ॐ अधोक्षजाय नमः । ॐ अच्युताय नमः । ॐ अम्बुजग्रीवाय नमः । ॐ सहस्राराय नमः । ॐ सनातनाय नमः ॥२०॥ ॐ समर्चिताय नमः । ॐ वेदमूर्तये नमः । ॐ समतीतसुराग्रजाय नमः । ॐ षट्कोणमध्यगाय नमः । ॐ वीराय नमः । ॐ सर्वगाय नमः । ॐ अष्टभुजाय नमः । ॐ प्रभवे नमः । ॐ चण्डवेगाय नमः । ॐ भीमरवाय नमः ॥३०॥ ॐ शिपिविष्टार्चिताय नमः । ॐ हरये नमः । ॐ शाश्वताय नमः ॐ सकलाय नमः । ॐ श्यामाय नमः । ॐ श्यामलाय नमः । ॐ शकटार्थनाय नमः ॐ दैत्यारये नमः । ॐ शारदय नमः । ॐ स्कन्दाय नमः ॥४०॥ ॐ शकटाक्षाय नमः । ॐ शिरीषकाय नमः । ॐ शरभारये नमः । ॐ भक्तवश्याय नमः । ॐ शशाङ्काय नमः । ॐ वामनाय नमः । ॐ अव्ययाय नमः । ॐ वरूथिवारिजाय नमः । ॐ कञ्जलोचनाय नमः ॐ वसुधादिपाय नमः । ॥५०॥ ॐ वरेण्याय नमः । ॐ वाहनाय नमः । ॐ अनन्ताय नमः । ॐ चक्रपाणये नमः । ॐ गदाग्रजाय नमः । ॐ गभीराय नमः । ॐ गोलवाधीशाय नमः । ॐ गदापाणये नमः । ॐ सुलोचनाय नमः ॐ सहस्राक्षाय नमः । ॥६०॥ ॐ चतुर्बाहवे नमः । ॐ शंखचक्रगदाधराय नमः । ॐ भीषणाय नमः । ॐ भीतिदाय नमः । ॐ भद्राय नमः । ॐ भीमाय नमः । ॐ अभीष्टफलप्रदाय नमः । ॐ भीमार्चिताय नमः । ॐ भीमसेनाय नमः ॐ भानुवंशप्रकाशकाय नमः । ॥७०॥ ॐ प्रह्लादवरदाय नमः । ॐ फाललोचनाय नमः । ॐ लोकपूजिताय नमः । ॐ उत्तरामानदाय नमः । ॐ मानिने नमः । ॐ मानवाभिष्टसिद्धिदाय नमः । ॐ भक्तपालाय नमः । ॐ पापहारिणे नमः । ॐ बलदाय नमः ॐ दहनध्वजाय नमः । ॥८०॥ ॐ अरीशाय नमः । ॐ कनकाय नमः । ॐ धात्रे नमः । ॐ कामपालाय नमः । ॐ पुरातनाय नमः । ॐ अक्रूराय नमः । ॐ क्रूरजनकाय नमः । ॐ क्रूरदंष्ट्राय नमः । ॐ कुलाधिपाय नमः ॐ क्रूरकर्मणे नमः । ॥९०॥ ॐ क्रूररूपिणे नमः । ॐ क्रूरहारिणे नमः । ॐ कुशेशयाय नमः । ॐ मन्दराय नमः । ॐ मानिनीकान्ताय नमः । ॐ मधुघ्ने नमः । ॐ माधवप्रियाय नमः । ॐ सुप्रतप्तस्वर्णरूपिणे नमः । ॐ बाणासुरभुजान्तकृते नमः ॐ धराधराय नमः । ॥१००॥ ॐ दानवारये नमः । ॐ दनुजेन्द्रारिपूजिताय नमः । ॐ भाग्यप्रदाय नमः । ॐ महासत्वाय नमः । ॐ विश्वात्मने नमः । ॐ विगतज्वराय नमः । ॐ सुराचार्यचिताय नमः । ॐ वश्याय नमः । ॐ वासुदेवाय नमः ॐ वसुप्रदाय नमः । ॥११०॥ ॐ वसुन्धराय नमः । ॐ वायुवेगाय नमः । ॐ वराहाय नमः । ॐ वरुणालयाय नमः । ॐ प्रणतार्तिहराय नमः । ॐ श्रेष्टाय नमः । ॐ शरण्याय नमः । ॐ पापनाशनाय नमः । ॐ पावकाय नमः । ॐ वारणाद्रीशाय नमः । ॥१२०॥ ॐ वैकुण्ठाय नमः । ॐ वीतकल्मषाय नमः । ॐ वज्रदंष्ट्राय नमः । ॐ वज्रनखाय नमः । ॐ वायुरूपिणे नमः । ॐ निराश्रयाय नमः । ॐ निरीहाय नमः । ॐ निस्स्पृहाय नमः । ॐ नित्याय नमः । ॐ नीतिज्ञाय नमः ॥१३०॥ ॐ नीतिभावनाय नमः । ॐ नीरूपाय नमः । ॐ नारदनुताय नमः । ॐ नकुलाचलवासकृते नमः । ॐ नित्यानन्दाय नमः । ॐ बृहद्भानवे नमः । ॐ बृहधीशाय नमः । ॐ पुरातनाय नमः । ॐ निधीनामधिपाय नमः ॐ अनन्ताय नमः ॥१४०॥ ॐ नरकार्णवतारकाय नमः । ॐ अगाधाय नमः । ॐ अविरलाय नमः । ॐ अमर्त्याय नमः । ॐ ज्वालाकेशाय नमः । ॐ ककार्च्चिताय नमः । ॐ तरुणाय नमः । ॐ तनुकृते नमः । ॐ भक्ताय नमः ॐ परमाय नमः ॥१५०॥ ॐ चित्तसम्भवाय नमः । ॐ चिंत्याय नमः । ॐ सत्वनिधये नमः । ॐ साग्राय नमः । ॐ चिदानंदाय नमः । ॐ शिवप्रियाय नमः । ॐ शिंशुमाराय नमः । ॐ शतमखाय नमः । ॐ शातकुम्भनिभप्रभाय नमः ॐ भोक्त्रे नमः ॥१६०॥ ॐ अरुणेशाय नमः । ॐ बलवते नमः । ॐ बालग्रहनिवारकाय नमः । ॐ सर्वारिष्टप्रशमनाय नमः । ॐ महाभयनिवारकाय नमः । ॐ बंधवे नमः । ॐ सुबंधवे नमः । ॐ सुप्रीताय नमः । ॐ संतुष्टाय नमः ॐ सुरसन्नुताय नमः । ॥१७०॥ ॐ बीजकेशाय नमः । ॐ बकाय नमः । ॐ भानवे नमः । ॐ अमितार्च्चिषे नमः । ॐ अपाम्पतये नमः । ॐ सुयज्ञाय नमः । ॐ ज्योतिशे नमः । ॐ शांताय नमः । ॐ विरूपाक्षाय नमः ॐ सुरेश्वराय नमः । ॥१८०॥ ॐ वह्निप्राकारसंवीताय नमः । ॐ रत्नगर्भाय नमः । ॐ प्रभाकराय नमः । ॐ सुशीलाय नमः । ॐ सुभगाय नमः । ॐ स्वक्षाय नमः । ॐ सुमुखाय नमः । ॐ सुखदाय नमः । ॐ सुखिने नमः ॐ महासुरशिरच्छेत्रे नमः । ॥१९०॥ ॐ पाकशासनवंदिताय नमः । ॐ शतमूर्तये नमः । ॐ सहस्राराय नमः । ॐ हिरण्यज्योतिषे नमः । ॐ अव्ययाय नमः । ॐ मण्डलिने नमः । ॐ मण्डलाकाराय नमः । ॐ चंद्रसूर्याग्निलोचनाय नमः । ॐ प्रभञ्जनाय नमः ॐ तीक्ष्णधाराय नमः ॥२००॥ ॐ प्रशांताय नमः । ॐ शारदप्रियाय नमः । ॐ भक्तप्रियाय नमः । ॐ बलिहराय नमः । ॐ लावण्याय नमः । ॐ लक्षणप्रियाय नमः । ॐ विमलाय नमः । ॐ दुर्लभाय नमः । ॐ सौम्याय नमः ॐ सुलभाय नमः । ॥२१०॥ ॐ भीमविक्रमाय नमः । ॐ जितमन्यवे नमः । ॐ जितारातये नमः । ॐ महाक्षाय नमः । ॐ भृगुपूजिताय नमः । ॐ तत्वरूपाय नमः । ॐ तत्ववेदिने नमः । ॐ सर्वतत्वप्रतिष्टिताय नमः । ॐ भावज्ञाय नमः ॐ बन्धुजनकाय नमः । ॥२२०॥ ॐ दीनबंधवे नमः । ॐ पुराणविते नमः । ॐ शस्त्रेशाय नमः । ॐ निर्मताय नमः । ॐ नेत्रे नमः । ॐ नराय नमः । ॐ नानासुरप्रियाय नमः । ॐ नाभिचक्राय नमः । ॐ नतामित्राय नमः ॐ नदीशकरपूजिताय नमः । ॥२३०॥ ॐ दमनाय नमः । ॐ कालिकाय नमः । ॐ कर्मिणे नमः । ॐ कांताय नमः । ॐ कालार्थनाय नमः । ॐ कवये नमः । ॐ कमनीयकृतये नमः । ॐ कालाय नमः । ॐ कमलासनसेविताय नमः ॐ कृपाळवे नमः । ॥२४०॥ ॐ कपिलाय नमः । ॐ कामिने नमः । ॐ कामितार्थप्रदायकाय नमः । ॐ धर्मसेतवे नमः । ॐ धर्मपालाय नमः । ॐ धर्मिणे नमः । ॐ धर्ममयाय नमः । ॐ पराय नमः ॥ ॐ धात्रे नमः ॐ आनन्दमयाय नमः । ॥२५०॥ ॐ दिव्याय नमः । ॐ ब्रह्मरूपिणे नमः ॐ प्रकाशकृते नमः । ॐ सर्वयज्ञमयाय नमः । ॐ यज्ञाय नमः । ॐ यज्ञभुजे नमः । ॐ यज्ञभावनाय नमः । ॐ ज्वालाजिह्वाय नमः ॐ शिखामौलये नमः ॐ सुरकार्यप्रवर्तकाय नमः ॥२६०॥ ॐ कलाधारय नमः ॐ सुरारिघ्नाय नमः ॐ कोपघ्ने नमः ॐ कालरूपभृते नमः ॐ वह्निध्वजाय नमः । ॐ वह्निसखाय नमः । ॐ वञ्जुलद्रुममूलगाय नमः । ॐ दक्षघ्ने नमः । ॐ दानकारिणे नमः ॐ नराय नमः । ॥२७०॥ ॐ नारायणप्रियाय नमः । ॐ दैत्यदण्डधराय नमः । ॐ दान्ताय नमः । ॐ शुभ्राङ्गाय नमः । ॐ शुभदायकाय नमः । ॐ लोहिताक्षाय नमः । ॐ महारौद्राय नमः । ॐ मायारूपधराय नमः । ॐ खगाय नमः । ॐ उन्नताय नमः । ॥२८०॥ ॐ भानुजाय नमः । ॐ साङ्गाय नमः । ॐ महाचक्राय नमः । ॐ पराक्रमिणे नमः । ॐ अग्नीशाय नमः । ॐ अग्निमयाय नमः । ॐ अग्निलोचनाय नमः । ॐ अग्निसमप्रभाय नमः । ॐ अग्निमते नमः। ॐ अग्निरसनाय नमः । ॥२९०॥ ॐ युद्धसेविने नमः । ॐ रविप्रियाय नमः । ॐ आश्रितघौघविध्वंसिने नमः । ॐ नित्यानंदप्रदायकाय नमः । ॐ असुरघ्नाय नमः । ॐ महाबाहवे नमः । ॐ भीमकर्मणे नमः । ॐ सुभप्रदाय नमः । ॐ शशांकप्रणवाधाराय नमः ॐ समस्थाशीविषापहाय नमः । ॥३००॥ ॐ तर्काय नमः । ॐ वितर्काय नमः । ॐ विमलाय नमः । ॐ बिलकाय नमः । ॐ बादरायणाय नमः । ॐ बदिरघ्नाय नमः । ॐ चक्रवाळाय नमः । ॐ षट्कोणांतर्गताय नमः । ॐ शिखिने नमः ॐ दृढधन्वने नमः ॥३१०॥ ॐ शोडषाक्षाय नमः । ॐ दीर्घबाहवे नमः । ॐ दरीमुखाय नमः । ॐ प्रसन्नाय नमः । ॐ वामजनकाय नमः । ॐ निम्नाय नमः । ॐ नीतिकराय नमः । ॐ शुचये नमः । ॐ नरभेदिने नमः ॐ सिंहरूपिणे नमः । ॥३२०॥ ॐ पुराधीशाय नमः । ॐ पुरंदराय नमः । ॐ रविस्तुताय नमः । ॐ यूतपालाय नमः । ॐ यूतपारये नमः । ॐ सतांगतये नमः । ॐ हृषीकेशाय नमः । ॐ द्वित्रिमूर्तये नमः । ॐ द्विरष्टायुधभृते नमः ॐ वराय नमः । ॥३३०॥ ॐ दिवाकराय नमः । ॐ निशानाथाय नमः । ॐ दिलीपार्चितविग्रहाय नमः । ॐ धंवंतरये नमः । ॐ श्यामलारये नमः । ॐ भक्तशोकविनाशकाय नमः । ॐ रिपुप्राणहराय नमः । ॐ जेत्रे नमः । ॐ शूराय नमः ॐ चातुर्यविग्रहाय नमः । ॥३४०॥ ॐ विधात्रे नमः । ॐ सच्चिदानंदाय नमः । ॐ सर्वदुष्टनिवारकाय नमः । ॐ उल्काय नमः । ॐ महोल्काय नमः । ॐ रक्तोल्काय नमः । ॐ सहस्रोल्काय नमः । ॐ शतार्चिषाय नमः । ॐ बुद्धाय नमः । ॐ बौद्धहराय नमः । ॥३५०॥ ॐ बौद्धजनमोहाय नमः । ॐ बुधाश्रयाय नमः । ॐ पूर्णबोधाय नमः । ॐ पूर्णरूपाय नमः । ॐ पूर्णकामाय नमः । ॐ महाद्युतये नमः । ॐ पूर्णमंत्राय नमः । ॐ पूर्णगात्राय नमः । ॐ पूर्णाय नमः ॐ षाड्गुण्यविग्रहाय नमः । ॥३६०॥ ॐ पूर्णनेमये नमः । ॐ पूर्णनाभये नमः । ॐ पूर्णाशिने नमः । ॐ पूर्णमानसाय नमः । ॐ पूर्णसाराय नमः । ॐ पूर्णशक्तये नमः । ॐ रङ्गसेविने नमः । ॐ रणप्रियाय नमः । ॐ पूरिताशाय नमः ॐ अरिष्टतातये नमः ।॥३७०॥ ॐ पूर्णार्थाय नमः । ॐ पूर्णभूषणाय नमः । ॐ पद्मगर्भाय नमः । ॐ पारिजाताय नमः । ॐ परामित्राय नमः । ॐ शराकृतये नमः । ॐ भूभृत्वपुशे नमः । ॐ पुण्यमूर्तये नमः । ॐ भूभृताम्पतये नमः ॐ आशुगाय नमः । ॥३८०॥ ॐ भाग्योदयाय नमः । ॐ भक्तवश्याय नमः । ॐ गिरिजावल्लभप्रियाय नमः । ॐ गविष्टाय नमः । ॐ गजमानिने नमः । ॐ गमनागमनप्रियाय नमः । ॐ ब्रह्मचारिणे नमः । ॐ बन्धुमानिने नमः । ॐ सुप्रतीकाय नमः ॐ त्रिविक्रमाय नमः । ॥३९०॥ ॐ शंकराभीष्टदाय नमः । ॐ भव्याय नमः । ॐ सचिव्याय नमः । ॐ सव्यलक्षणाय नमः । ॐ महाहंसाय नमः । ॐ सुखकराय नमः । ॐ नाभागतनयार्चिताय नमः । ॐ कोटिसूर्यप्रभाय नमः । ॐ दीप्तये नमः। ॐ विद्युत्कोटिसमप्रभाय नमः । ॥४००॥ ॐ वज्रकल्पाय नमः । ॐ वज्रसाराय नमः । ॐ वज्रनिर्घातनिस्स्वनाय नमः । ॐ गिरीशमानदाय नमः । ॐ मान्याय नमः । ॐ नारायणकरालयाय नमः । ॐ अनिरुद्धाय नमः । ॐ परामर्षिणे नमः । ॐ उपेन्द्राय नमः। ॐ पूर्णविग्रहाय नमः ।॥४१०॥ ॐ आयुधेशाय नमः । ॐ शतारिघ्नाय नमः । ॐ शमनाय नमः । ॐ शतसैनिकाय नमः । ॐ सर्वासुरवद्योद्युक्ताय नमः । ॐ सूर्यदुर्मानभेदकाय नमः । ॐ राहुविप्लोषकारिणे नमः । ॐ काशिनगरदाहकाय नमः । ॐ पीयुषांशवे नमः। ॐ परंज्योतिषे नमः । ॥४२०॥ ॐ सम्पूर्णाय नमः । ॐ क्रतुभुक्प्रियाय नमः । ॐ प्रियाय नमः । ॐ मान्धातृवरदाय नमः । ॐ शुद्धाय नमः । ॐ हरसेव्याय नमः । ॐ शचीष्टदाय नमः । ॐ सहिष्णवे नमः । ॐ बलभुजे नमः। ॐ वीराय नमः । ॐ लोकभृते नमः । ॥४३०॥ ॐ लोकनायकाय नमः । ॐ दुर्वासमुनिदर्पघ्नाय नमः । ॐ जयदाय नमः । ॐ विजयप्रियाय नमः । ॐ सुराधीशाय नमः । ॐ असुरारातये नमः । ॐ गोविन्दकरभूषणाय नमः । ॐ रथरूपिणे नमः ॐ रथाधीशाय नमः । ॐ कालचक्राय नमः । ॥४४०॥ ॐ कृपानिधये नमः । ॐ चक्ररूपधराय नमः । ॐ विष्णवे नमः । ॐ स्थूलाय नमः । ॐ सूक्ष्माय नमः । ॐ शिखिप्रभाय नमः । ॐ शरणागतसन्त्रात्रे नमः । ॐ वेतालारये नमः ॐ महाबलाय नमः । ॐ ज्ञानदाय नमः ।॥४५०॥ ॐ वाक्पतये नमः । ॐ मानिने नमः । ॐ महावेगाय नमः । ॐ महामणये नमः । ॐ विद्युत्केशाय नमः । ॐ विहारेशाय नमः । ॐ पद्मयोनये नमः । ॐ चतुर्भुजाय नमः ॐ कामात्मने नमः । ॐ कामदाय नमः । ॥४६०॥ ॐ कामिने नमः । ॐ कालनेमिशिरोहराय नमः । ॐ शुभ्राय नमः । ॐ शुचये नमः । ॐ सुनासीराय नमः । ॐ शुक्रमित्राय नमः । ॐ शुभाननाय नमः । ॐ वृषकायाय नमः ॐ वृषारातये नमः । ॐ वृषभेन्द्राय नमः ॥४७०॥ ॐ सुपूजिताय नमः । ॐ विश्वम्भराय नमः । ॐ वीतिहोत्राय नमः । ॐ वीर्याय नमः । ॐ विश्वजनप्रियाय नमः । ॐ विश्वकृते नमः । ॐ विश्वपाय नमः । ॐ विश्वहर्त्रे नमः । ॐ साहसकर्मकृते नमः ॐ बाणबाहूहराय नमः । ॥४८०॥ ॐ ज्योतिषे नमः । ॐ परात्मने नमः । ॐ शोकनाशनाय नमः । ॐ विमलादिपतये नमः । ॐ पुण्याय नमः । ॐ ज्ञात्रे नमः । ॐ ज्ञेयाय नमः । ॐ प्रकाशकाय नमः । ॐ म्लेच्छप्रहारिणे नमः ॐ दुष्टघ्नाय नमः । ॥४९०॥ ॐ सूर्यमण्डलमध्यगाय नमः । ॐ दिगम्बराय नमः । ॐ वृशाद्रीशाय नमः । ॐ विविधायुधरूपकाय नमः । ॐ सत्त्ववते नमः । ॐ सत्त्यवागीशाय नमः । ॐ सत्यधर्मपरायणाय नमः । ॐ रुद्रप्रीतिकराय नमः । ॐ रुद्रवरदाय नमः ॐ रुग्विभेदकाय नमः । ॥५००॥ ॐ नारायणाय नमः । ॐ नक्रभेदिने नमः । ॐ गजेन्द्रपरिमोक्षकाय नमः । ॐ धर्मप्रियाय नमः । ॐ षडाधाराय नमः । ॐ वेदात्मने नमः । ॐ गुणसागराय नमः । ॐ गदामित्राय नमः । ॐ पृथुभुजाय नमः ॐ रसातलविभेदकाय नमः । ॥५१०॥ ॐ तमोवैरिणे नमः । ॐ महातेजसे नमः । ॐ महाराजाय नमः । ॐ महातपसे नमः । ॐ समस्थारिहराय नमः । ॐ शान्ताय नमः । ॐ क्रूराय नमः । ॐ व्योमेश्वरेश्वराय नमः । ॐ स्थविराय नमः ॐ स्वर्णवर्णाङ्गाय नमः । ॥५२०॥ ॐ शत्रुसैन्यविनाशकृते नमः । ॐ प्राज्ञाय नमः । ॐ विश्वतनुत्रात्रे नमः । ॐ शृतिस्मृतिमयाय नमः । ॐ कृतिने नमः । ॐ व्यक्ताव्यक्तस्वरूपाय नमः । ॐ कालचक्राय नमः । ॐ कलानिधिये नमः । ॐ महाद्युतये नमः ॥५३०॥ ॐ अमेयात्मने नमः । ॐ वज्रनेमये नमः । ॐ प्रभानिधये नमः । ॐ महास्पुलिङ्गधारार्चिषे नमः । ॐ महायुद्धकृते नमः । ॐ अच्युताय नमः । ॐ कृतज्ञाय नमः । ॐ सहनाय नमः । ॐ वाग्मिने नमः । ॐ ज्वालामालाविभूषकाय नमः ॥५४०॥ ॐ चतुर्मुखनुताय नमः । ॐ श्रीमते नमः । ॐ भ्राजिष्णवे नमः । ॐ भक्तवत्सलाय नमः । ॐ चातुर्यगमनाय नमः । ॐ चक्रिणे नमः । ॐ चातुर्वर्गप्रदायकाय नमः । ॐ विचित्रमाल्याभरणाय नमः । ॐ तीक्ष्णधाराय नमः । ॐ सुरार्चिताय नमः ॥५५०॥ ॐ युगकृते नमः । ॐ युगपालाय नमः । ॐ युगसंधये नमः । ॐ युगांतकृते नमः । ॐ सुतीक्ष्णारगणाय नमः । ॐ अगम्याय नमः । ॐ बलिध्वंसिने नमः । ॐ त्रिलोकपाय नमः । ॐ त्रिनेत्राय नमः । ॐ त्रिजगद्वन्द्याय नमः ॥५६०॥ ॐ तृणीकृतमहासुराय नमः । ॐ त्रिकालज्ञाय नमः । ॐ त्रिलोकज्ञाय नमः । ॐ त्रिनाभये नमः । ॐ त्रिजगत्प्रियाय नमः । ॐ सर्वयंत्रमयाय नमः । ॐ मंत्राय नमः । ॐ सर्वशत्रुनिवर्हणाय नमः । ॐ सर्वगाय नमः । ॐ सर्वविदे नमः ॥५७०॥ ॐ सौम्याय नमः । ॐ सर्वलोकहितंकराय नमः । ॐ आदिमूलाय नमः । ॐ सद्गुणाढ्याय नमः । ॐ वरेण्याय नमः । ॐ त्रिगुणात्मकाय नमः । ॐ ध्यानगम्याय नमः । ॐ कल्मषघ्नाय नमः । ॐ कलिगर्वप्रभेदकाय नमः । ॐ कमनीयतनुत्राणाय नमः ॥५८०॥ ॐ कुण्डलिने नमः ॐ मण्डिताननाय नमः । ॐ सुकुण्ठीकृतचण्डेशाय नमः । ॐ सुसंत्रस्थषडाननाय नमः । ॐ विषादीकृतविघ्नेशाय नमः । ॐ विगतानन्दनंदिकाय नमः । ॐ मथितप्रमथव्यूहाय नमः । ॐ प्रणतप्रमथधिपाय नमः । ॐ प्राणभिक्षाप्रदाय नमः । ॐ अनन्ताय नमः । ॥५९०॥ ॐ लोकसाक्षिणे नमः ॐ महास्वनाय नमः । ॐ मेधाविने नमः । ॐ शाश्वताय नमः । ॐ अक्रूराय नमः । ॐ क्रूरकर्मणे नमः । ॐ अपराजिताय नमः । ॐ अरिणे नमः । ॐ द्रुष्टाय नमः । ॐ अप्रमेयात्मने नमः । ॥६००॥ ॐ सुन्दराय नमः ॐ शत्रुतापनाय नमः । ॐ योगयोगीश्वराधीशाय नमः । ॐ भक्ताभीष्टप्रपूरकाय नमः । ॐ सर्वकामप्रदाय नमः । ॐ अचिन्त्याय नमः । ॐ शुभगाय नमः ॐ कुलवर्धनाय नमः । ॐ निर्विकाराय नमः । ॐ अनन्तरूपाय नमः । ॥६१०॥ ॐ नरनारायणप्रियाय नमः ॐ मन्त्रयन्त्रस्वरूपात्मने नमः । ॐ परमन्त्रप्रभेदकाय नमः । ॐ भूतवेतालविध्वंसिने नमः । ॐ चण्डकूश्माण्डखण्डनाय नमः । ॐ शकलीकृतमारीचाय नमः । ॐ भैरवग्रहभेदकाय नमः । ॐ चूर्णीकृतमहाभूताय नमः । ॐ कबलीकृतदुर्ग्रहाय नमः ॐ सुदुर्ग्रहाय नमः ॥६२०॥ ॐ जम्भभेदिने नमः । ॐ सूचिमुखनिषूदनाय नमः । ॐ वृकोदरबलोद्धर्त्रे नमः । ॐ पुरन्दरबलानुगाय नमः । ॐ अप्रमेयबलस्वामिने नमः । ॐ भक्तप्रीतिविवर्धनाय नमः । ॐ महाभुतेश्वराय नमः । ॐ शूराय नमः । ॐ नित्याय नमः ॥६३०॥ ॐ शारदविग्रहाय नमः । ॐ धर्माध्यक्षाय नमः । ॐ विधर्मघ्नाय नमः । ॐ सुधर्मस्थापनाय नमः । ॐ शिवाय नमः । ॐ विधूमज्वलनाय नमः । ॐ भानवे नमः । ॐ भानुमते नमः । ॐ भास्वताम्पतये नमः । ॐ जगन्मोहनपाटीराय नमः ॥६४०॥ ॐ सर्वोपद्रवशोधकाय नमः । ॐ कुलिशाभरणाय नमः । ॐ ज्वालावृताय नमः । ॐ सौभाग्यवर्धनाय नमः । ॐ ग्रहप्रध्वंसकाय नमः । ॐ स्वात्मरक्षकाय नमः । ॐ धारणात्मकाय नमः । ॐ सन्तापकाय नमः । ॐ वज्रसाराय नमः । ॐ सुमेधामृतसागराय नमः ॥६५०॥ ॐ सन्तानपञ्जराय नमः । ॐ बाणताटङ्काय नमः । ॐ वज्रमालिकाय नमः । ॐ मेखलाग्निशिखाय नमः । ॐ वज्रपञ्जराय नमः । ॐ ससुराङ्कुशाय नमः । ॐ सर्वरोगप्रशमनाय नमः । ॐ गान्धर्वविशिखाकृतये नमः । ॐ प्रमोहमण्डलाय नमः । ॐ भूतग्रहशृङ्खलकर्मकृते नमः ॥६६०॥ ॐ कलावृताय नमः । ॐ महाशङ्कुधारणाय नमः । ॐ शल्यचन्द्रिकाय नमः । ॐ चेतनोत्तारकाय नमः । ॐ शल्यक्षूत्रोन्मूलनतत्पराय नमः । ॐ बन्धनावरणाय नमः । ॐ शल्यकृन्तनाय नमः । ॐ वज्रकीलकाय नमः । ॐ प्रतीकबन्धनाय नमः ॐ ज्वालामण्डलाय नमः । ॥६७०॥ ॐ शस्त्रधारणाय नमः । ॐ इन्द्राक्षीमालिकाय नमः । ॐ कृत्यादण्डाय नमः । ॐ चित्तप्रभेदकाय नमः । ॐ ग्रहवागुरिकाय नमः । ॐ सर्वबन्धनाय नमः । ॐ वज्रभेदकाय नमः । ॐ लघुसन्तानसङ्कल्पाय नमः । ॐ बद्धग्रहविमोचनाय नमः ॐ मौलिकाञ्चनसन्धात्रे नमः । ॥६८०॥ ॐ विपक्षमतभेदकाय नमः । ॐ दिग्बन्धनकराय नमः । ॐ सूचीमुखाग्नये नमः । ॐ चित्तबन्धकाय नमः । ॐ चोराग्निमण्डलाकाराय नमः । ॐ परकङ्कालमर्दनाय नमः । ॐ तान्त्रीकाय नमः । ॐ शत्रुवंशघ्नाय नमः । ॐ नानानिगलमोचनाय नमः ॐ समस्थलोकसारङ्गाय नमः । ॥६९०॥ ॐ सुमहाविषदूषणाय नमः । ॐ सुमहामेरुकोदण्डाय नमः । ॐ सर्ववश्यकरेश्वराय नमः । ॐ निखिलाकर्षणपटवे नमः । ॐ सर्वसम्मोहकर्मकृते नमः । ॐ संस्तम्भनकराय नमः । ॐ सर्वभूतोच्चाटनतत्पराय नमः । ॐ यक्षरक्षोगणध्वंसिने नमः ॐ महाकृत्याप्रदाहकाय नमः ॐ अहितामयकारिणे नमः । ॥७००॥ ॐ द्विषन्मारणकारकाय नमः ॐ एकायनगतामित्रविद्वेषणपरायणाय नमः । ॐ सर्वार्थसिद्धिदाय नमः । ॐ धात्रे नमः । ॐ विधात्रे नमः । ॐ विश्वपालकाय नमः । ॐ विरूपाक्षाय नमः । ॐ महावक्षसे नमः । ॐ वरिष्ठाय नमः । ॐ माधवप्रियाय नमः । ॥७१०॥ ॐ अमित्रकर्शनाय नमः ॐ शान्ताय नमः । ॐ प्रशान्ताय नमः । ॐ प्रणतार्तिघ्ने नमः । ॐ रमणीयाय नमः । ॐ रणोत्साहाय नमः । ॐ रक्ताक्षाय नमः । ॐ रणपण्डिताय नमः । ॐ रणान्तकृते नमः । ॐ रथाकाराय नमः । ॐ रथाङ्गाय नमः ॥७२०॥ ॐ रविपूजिताय नमः । ॐ वीरघ्ने नमः । ॐ विविधाकाराय नमः । ॐ वरुणाराधिताय नमः । ॐ वशिने नमः । ॐ सर्वशत्रुवधाकांक्षिणे नमः । ॐ शक्तिमते नमः । ॐ भक्तमानदाय नमः । ॐ सर्वलोकधराय नमः । ॥७३०॥ ॐ पुण्याय नमः ॐ पुरुषाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ पुराणाय नमः । ॐ पुण्डरीकाक्षाय नमः । ॐ परमर्मप्रभेदकाय नमः । ॐ वीरासनगताय नमः । ॐ वर्मिणे नमः । ॐ सर्वाधाराय नमः । ॐ निरङ्कुशाय नमः । ॐ जगद्रक्षकाय नमः ॥७४०॥ ॐ जगन्मूर्तये नमः । ॐ जगदानन्दवर्धनाय नमः । ॐ शारदाय नमः । ॐ शकटारातये नमः । ॐ शङ्कराय नमः । ॐ शकटाकृतये नमः । ॐ विरक्ताय नमः । ॐ रक्तवर्णाढ्याय नमः । ॐ रामसायकरूपभृते नमः । ॥७५०॥ ॐ महावराहदंष्ट्रात्मने नमः ॐ नृसिंहनखरात्मकाय नमः । ॐ समदृङ्मोक्षदाय नमः । ॐ वन्द्याय नमः । ॐ विहारिणे नमः । ॐ वीतकल्मषाय नमः । ॐ गम्भीराय नमः । ॐ गर्भगाय नमः । ॐ गोप्त्रे नमः । ॐ गभस्तिने नमः ॥७६० ॥ ॐ गुह्यकाय नमः । ॐ गुरवे नमः । ॐ श्रीधराय नमः । ॐ श्रीरताय नमः । ॐ श्रान्ताय नमः । ॐ शत्रुघ्नाय नमः । ॐ शृतिगोचराय नमः । ॐ पुराणाय नमः । ॐ वितताय नमः । ॐ वीरय नमः ॥७७०॥ ॐ पवित्राय नमः । ॐ चरणाह्वयाय नमः । ॐ महावीराय नमः । ॐ महावीर्याय नमः । ॐ महाबलपराक्रमाय नमः । ॐ सुविग्रहाय नमः । ॐ विग्रहघ्नाय नमः । ॐ सुमानिने नमः । ॐ मानदायकाय नमः । ॐ मायिने नमः ॥७८०॥ ॐ मायापहाय नमः । ॐ मन्त्रिणे नमः । ॐ मान्याय नमः । ॐ मानविवर्धनाय नमः । ॐ शत्रुसंहारकाय नमः । ॐ शूराय नमः । ॐ शुक्रारये नमः । ॐ शङ्करार्चिताय नमः । ॐ सर्वाधाराय नमः । ॐ परस्मैज्योतिषे नमः ॥७९०॥ ॐ प्राणाय नमः । ॐ प्राणभृते नमः । ॐ अच्युताय नमः । ॐ चन्द्रधाम्ने नमः । ॐ अप्रतिद्वन्द्वाय नमः । ॐ परमात्मने नमः । ॐ सुदुर्गमाय नमः । ॐ विशुद्धात्मने नमः । ॐ महातेजसे नमः । ॐ पुण्यश्लोकाय नमः ॥८००॥ ॐ पुराणविदे नमः । ॐ समस्थजगदाधाराय नमः । ॐ विजेत्रे नमः । ॐ विक्रमाय नमः । ॐ क्रमाय नमः । ॐ आदिदेवाय नमः । ॐ ध्रुवाय नमः । ॐ अदृश्याय नमः । ॐ सात्विकाय नमः । ॐ प्रीतिवर्धनाय नमः ॥८१०॥ ॐ सर्वलोकाश्रयाय नमः । ॐ सेव्याय नमः । ॐ सर्वात्मने नमः । ॐ वंशवर्धनाय नमः । ॐ दुराधर्षाय नमः । ॐ प्रकाशात्मने नमः । ॐ सर्वदृशे नमः । ॐ सर्वविदे नमः । ॐ समाय नमः । ॐ सद्गतये नमः ॥८२०॥ ॐ सत्वसम्पन्नाय नमः । ॐ नित्याय नमः ॐ संकल्पकल्पकाय नमः । ॐ वर्णिने नमः । ॐ वाचस्पतये नमः । ॐ वाग्मिने नमः । ॐ महाशक्तये नमः । ॐ कलानिधये नमः । ॐ अन्तरिक्षगतये नमः । ॐ कल्याय नमः । ॥८३०॥ ॐ कलिकालुष्यमोचनाय नमः ॐ सत्यधर्माय नमः । ॐ प्रसन्नात्मने नमः । ॐ प्रकृष्टाय नमः । ॐ व्योमवाहनाय नमः । ॐ शितधाराय नमः । ॐ शिखिने नमः । ॐ रौद्राय नमः । ॐ भद्राय नमः । ॐ रुद्रसुपूजिताय नमः । ॥८४०॥ ॐ दरीमुखारये नमः ॐ जम्भघ्नाय नमः । ॐ वीरघ्ने नमः । ॐ वासवप्रियाय नमः । ॐ दुस्तराय नमः । ॐ सुदुरारोहाय नमः । ॐ दुर्ज्ञेयाय नमः । ॐ दुष्टनिग्रहाय नमः । ॐ भूतवासाय नमः । ॐ भुतहन्त्रे नमः । ॥८५०॥ ॐ भुतेशाय नमः ॐ भूतभावनाय नमः । ॐ भवरोगघ्नाय नमः । ॐ भावज्ञाय नमः ॐ मनोवेगिने नमः । ॐ महाभुजाय नमः । ॐ सर्वदेवमयाय नमः । ॐ कान्ताय नमः । ॐ स्मृतिमते नमः । ॐ सर्वपावनाय नमः । ॥८६०॥ ॐ नीतिमते नमः ॐ सर्वजिते नमः । ॐ सौम्याय नमः । ॐ महर्षये नमः । ॐ अपराजिताय नमः । ॐ रुद्राम्बरीषवरदाय नमः । ॐ जितमायाय नमः । ॐ पुरातनाय नमः । ॐ अध्यात्मनिलयाय नमः । ॐ भोक्त्रे नमः । ॥८७०॥ ॐ सम्पूर्णाय नमः ॐ सर्वकामदाय नमः । ॐ सत्याय नमः । ॐ अक्षराय नमः । ॐ गभीरात्मने नमः । ॐ विश्वभर्त्रे नमः । ॐ मरीचिमते नमः । ॐ निरञ्जनाय नमः । ॐ जितभ्रांशवे नमः । ॐ अग्निगर्भाय नमः । ॥८८०॥ ॐ अग्निगोचराय नमः ॐ सर्वजिते नमः । ॐ सम्भवाय नमः । ॐ विष्णवे नमः । ॐ पूज्याय नमः । ॐ मन्त्रविदग्रियाय नमः । ॐ शतावर्त्ताय नमः । ॐ कलानाथाय नमः । ॐ कालाय नमः । ॐ कालमयाय नमः ॥८९०॥ ॐ हरये नमः । ॐ अरूपाय नमः । ॐ रूपसंपन्नाय नमः ॐ विश्वरूपाय नमः । ॐ विरूपकृते नमः । ॐ स्वामिने नमः । ॐ आत्मने नमः । ॐ समरश्लाघिने नमः । ॐ सुव्रताय नमः । ॐ विजयान्विताय नमः ॥९००॥ ॐ चण्डघ्नाय नमः । ॐ चण्डकिरणाय नमः । ॐ चतुराय नमः । ॐ चारणप्रियाय नमः । ॐ पुण्यकीर्तये नमः । ॐ परामर्षिणे नमः । ॐ नृसिंहाय नमः । ॐ नाभिमध्यगाय नमः । ॐ यज्ञात्मने नमः । ॐ यज्ञसंकल्पाय नमः ॥९१०॥ ॐ यज्ञकेतवे नमः । ॐ महेश्वराय नमः । ॐ जितारये नमः । ॐ यज्ञनिलयाय नमः । ॐ शरण्याय नमः । ॐ शकटाकृतये नमः । ॐ उत्तमाय नमः । ॐ अनुत्तमाय नमः । ॐ अनङ्गाय नमः । ॐ साङ्गाय नमः ॥९२०॥ ॐ सर्वाङ्गशोभनाय नमः । ॐ कालाघ्नये नमः । ॐ कालनेमिघ्नाय नमः । ॐ कामिने नमः । ॐ कारुण्यसागराय नमः । ॐ रमानन्दकराय नमः । ॐ रामाय नमः । ॐ रजनीशान्तरस्थिताय नमः । ॐ संवर्ताय नमः । ॐ समरान्वेषिणे नमः ॥९३०॥ ॐ द्विषत्प्राणपरिग्रहाय नमः । ॐ महाभिमानिने नमः । ॐ सन्धात्रे नमः । ॐ महाधीशाय नमः । ॐ महागुरवे नमः । ॐ सिद्धाय नमः । ॐ सर्वजगद्योनये नमः । ॐ सिद्धार्थाय नमः । ॐ सर्वसिद्धाय नमः । ॐ चतुर्वेदमयाय नमः ॥९४०॥ ॐ शास्त्रे नमः । ॐ सर्वशास्त्रविशारदाय नमः । ॐ तिरस्कृतार्कतेजस्काय नमः । ॐ भास्कराराधिताय नमः । ॐ शुभाय नमः । ॐ व्यापिने नमः । ॐ विश्वम्भराय नमः । ॐ व्यग्राय नमः । ॐ स्वयंज्योतिषे नमः । ॐ अनन्तकृते नमः ॥९५०॥ ॐ जयशीलाय नमः । ॐ जयाकाङ्क्षिने नमः । ॐ जातवेदसे नमः । ॐ जयप्रदाय नमः । ॐ कवये नमः । ॐ कल्याणदाय नमः । ॐ काम्याय नमः । ॐ मोक्षदाय नमः । ॐ मोहनाकृतये नमः । ॐ कुङ्कुमारुणसर्वङ्गाय नमः ॥९६०॥ ॐ कमलाक्षाय नमः । ॐ कवीश्वराय नमः । ॐ सुविक्रमाय नमः । ॐ निष्कलङ्काय नमः । ॐ विष्वक्सेनाय नमः । ॐ विहारकृते नमः । ॐ कदम्बासुरविध्वंसिने नमः । ॐ केतनग्रहदाहकाय नमः । ॐ जुगुप्साघ्नाय नमः । ॐ तीक्ष्णधाराय नमः ॥९७०॥ ॐ वैकुण्ठभुजवासकृते नमः । ॐ सारज्ञाय नमः । ॐ करुणामूर्तये नमः । ॐ वैष्णवाय नमः । ॐ विष्णुभक्तिदाय नमः । ॐ सुकृतज्ञाय नमः । ॐ महोदाराय नमः । ॐ दुष्कृतज्ञाय नमः । ॐ सुविग्रहाय नमः । ॐ सर्वाभीष्टप्रदाय नमः ॥९८०॥ ॐ अनन्ताय नमः । ॐ नित्यानन्दगुणाकराय नमः । ॐ चक्रिणे नमः । ॐ कुन्दधराय नमः । ॐ खड्गिने नमः । ॐ परश्वथधराय नमः । ॐ अग्निभृते नमः । ॐ धृताङ्कुशाय नमः । ॐ दण्डधराय नमः । ॐ शक्तिहस्ताय नमः ॥९९०॥ ॐ सुशङ्खभृते नमः । ॐ धन्विने नमः । ॐ धृतमहापाशाय नमः । ॐ हलिने नमः । ॐ मुसलभूषणाय नमः । ॐ गदायुधधराय नमः । ॐ वज्रिणे नमः । ॐ महाशूललसद्भूजाय नमः । ॐ समस्तायुधसम्पूर्णाय नमः । ॐ सुदर्शनमहाप्रभवे नमः ॥१०००॥ ॥ श्री सर्वाभीष्टफलप्रदाय श्रीविजयलक्ष्मी समेत सुदर्शनपरब्रह्मणे नमः ॥ ॥ इति श्रीसुदर्शनसहस्रनामावलिः ॥
पाठ जप: 0/108