सनातन देव
॥ श्रीवेङ्कटेश्वर अष्टोत्तरशतनामावलिः ॥
.. Shreevenkat'eshvara asht'ottarashatanaamaavalih' ..
॥ श्रीवेङ्कटेश्वर अष्टोत्तरशतनामावलिः ॥
- ॐ श्रीवेङ्कटेशाय नमः ।
- ॐ श्रीनिवासाय नमः ।
- ॐ लक्ष्मीपतये नमः ।
- ॐ अनामयाय नमः ।
- ॐ अमृतांशाय नमः ।
- ॐ जगद्वन्द्याय नमः ।
- ॐ गोविन्दाय नमः ।
- ॐ शाश्वताय नमः ।
- ॐ प्रभवे नमः ।
- ॐ शेषाद्रिनिलयाय नमः ।
- ॐ देवाय नमः ।
- ॐ केशवाय नमः ।
- ॐ मधुसूदनाय नमः ।
- ॐ अमृताय नमः ।
- ॐ माधवाय नमः ।
- ॐ कृष्णाय नमः ।
- ॐ श्रीहरये नमः ।
- ॐ ज्ञानपञ्जराय नमः ।
- ॐ श्रीवत्सवक्षसे नमः ।
- ॐ सर्वेशाय नमः ।
- ॐ गोपालाय नमः ।
- ॐ पुरुषोत्तमाय नमः ।
- ॐ गोपीश्वराय नमः ।
- ॐ परञ्ज्योतिषये नमः ।
- ॐ वैकुण्ठपतये नमः ।
- ॐ अव्ययाय नमः ।
- ॐ सुधातनवे नमः ।
- ॐ यादवेन्द्राय नमः ।
- ॐ नित्ययौवनरूपवते नमः ।
- ॐ चतुर्वेदात्मकाय नमः ।
- ॐ विष्णवे नमः ।
- ॐ अच्युताय नमः ।
- ॐ पद्मिनीप्रियाय नमः ।
- ॐ धरापतये नमः ।
- ॐ सुरपतये नमः ।
- ॐ निर्मलाय नमः ।
- ॐ देवपूजिताय नमः ।
- ॐ चतुर्भुजाय नमः ।
- ॐ चक्रधराय नमः ।
- ॐ त्रिधाम्ने नमः ।
- ॐ त्रिगुणाश्रयाय नमः ।
- ॐ निर्विकल्पाय नमः ।
- ॐ निष्कलङ्काय नमः ।
- ॐ निरन्तराय नमः ।
- ॐ निरञ्जनाय नमः ।
- ॐ निराभासाय नमः ।
- ॐ नित्यतृप्ताय नमः ।
- ॐ निर्गुणाय नमः ।
- ॐ निरुपद्रवाय नमः ।
- ॐ गदाधराय नमः ।
- ॐ शार्ङ्गपाणये नमः ।
- ॐ नन्दकीशङ्खधारकाय नमः ।
- ॐ अनेकमूर्तये नमः ।
- ॐ अव्यक्ताय नमः ।
- ॐ कटिहस्ताय नमः ।
- ॐ वरप्रदाय नमः ।
- ॐ अनेकात्मने नमः ।
- ॐ दीनबन्धवे नमः ।
- ॐ आर्तलोकाऽभयप्रदाय नमः ।
- ॐ आकाशराजवरदाय नमः ।
- ॐ योगिहृत्पद्ममन्दिराय नमः ।
- ॐ दामोदराय नमः ।
- ॐ जगत्पालाय नमः ।
- ॐ पापघ्नाय नमः ।
- ॐ भक्तवत्सलाय नमः ।
- ॐ त्रिविक्रमाय नमः ।
- ॐ शिंशुमाराय नमः ।
- ॐ जटामकुटशोभिताय नमः ।
- ॐ शङ्खमध्योल्लसन्मञ्जुकिङ्किण्याढ्यकरण्डकाय नमः ।
- ॐ नीलमेघश्यामतनवे नमः ।
- ॐ बिल्वपत्रार्चनप्रियाय नमः ।
- ॐ जगद्व्यापिने नमः ।
- ॐ जगत्कर्त्रे नमः ।
- ॐ जगत्साक्षिणे नमः ।
- ॐ जगत्पतये नमः ।
- ॐ चिन्तितार्थप्रदाय नमः ।
- ॐ जिष्णवे नमः ।
- ॐ दाशार्हाय नमः ।
- ॐ दशरूपवते नमः ।
- ॐ देवकीनन्दनाय नमः ।
- ॐ शौरये नमः ।
- ॐ हयग्रीवाय नमः ।
- ॐ जनार्दनाय नमः ।
- ॐ कन्याश्रवणतारेज्याय नमः ।
- ॐ पीताम्बरधराय नमः ।
- ॐ अनघाय नमः ।
- ॐ वनमालिने नमः ।
- ॐ पद्मनाभाय नमः ।
- ॐ मृगयासक्तमानसाय नमः ।
- ॐ अश्वारूढाय नमः ।
- ॐ खड्गधारिणे नमः ।
- ॐ धनार्जनसमुत्सुकाय नमः ।
- ॐ घनसारलसन्मध्यकस्तूरि-तिलकोज्ज्वलाय नमः ।
- ॐ सच्चिदानन्दरूपाय नमः ।
- ॐ जगन्मङ्गलदायकाय नमः ।
- ॐ यज्ञरूपाय नमः ।
- ॐ यज्ञभोक्त्रे नमः ।
- ॐ चिन्मयाय नमः ।
- ॐ परमेश्वराय नमः ।
- ॐ परमार्थप्रदाय नमः ।
- ॐ शान्ताय नमः ।
- ॐ श्रीमते नमः ।
- ॐ दोर्दण्डाय नमः ।
- ॐ विक्रमाय नमः ।
- ॐ परात्पराय नमः ।
- ॐ परब्रह्मणे नमः ।
- ॐ श्रीविभवे नमः ।
- ॐ जगदीश्वराय नमः ।
॥ इति श्रीवेङ्कटेश्वर अष्टोत्तरशतनामावलिः ॥