सनातन स्तोत्र एवं ग्रन्थ संग्रह
श्रेणी रहित
सनातन देव

श्रीसुदर्शनमङ्गलाशासनम्

Shreesudarshanamangalaashaasanam
रचयिता: पारंपरिक पाठ संख्या: 19
23px

॥ श्रीसुदर्शनमङ्गलाशासनम् ॥

मङ्गलं चक्रराजाय महनीयगुणाब्धये।
पद्मनाभकराम्भोजपरिष्काराय मङ्गलम्॥१॥

काशीविप्लोषकाराय कल्याणगुणशालिने।
बालिप्रमथनायाऽस्तु महाधीराय मङ्गलम्॥२॥

गजेन्द्रार्तिहरायास्तु ग्राहद्वेधात्वकारिणे।
दिनाधीशतिरोधानकर्त्रे दीप्ताय मङ्गलम्॥३॥

चित्राकारस्वचाराय चित्तनिर्वृत्तिकारिणे।
नरकासुरसंहर्त्रे नानारूपाय मङ्गलम्॥४॥

चण्डास्त्रांश्चित-दोर्दण्ड-खण्डितामरशत्रवे।
चामीकरनिभाङ्गाय चारुनेत्राय मङ्गलम्॥५॥

चैद्यासुरशिरोहर्त्रे चन्द्राह्लादकराय च।
श्रीमते चक्रराजाय श्रितार्तिघ्नाय मङ्गलम्॥६॥

॥ इति चक्रराजकर्पूरार्तिक्यम् ॥
पाठ जप: 0/108
प्रतिलिपि (Copy) भयो!