सनातन स्तोत्र संग्रह
Dwadasha Jyotirlinga
सनातन देव

Dwadasha Jyotirlinga Stotram

dwadasha-jyotirlinga-stotram
रचयिता: पारंपरिक पाठ संख्या: 1
23px

॥ द्वादशज्योतिर्लिङ्गस्तोत्रम् ॥

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपधे ॥ १ ॥

श्रीशैलश्रृङ्गे विबुधातिसंगे तुलाद्रितुंगेऽपि मुदा वसन्तम् । तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २ ॥

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् । अकालमृत्यो: परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ ३ ॥

कावेरिकानर्मदयो: पवित्रे समागमे सज्जनतारणाय । सदैव मान्धातृपुरे वसंतमोंकारमीशं शिवमेकमीडे ॥ ४ ॥

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् । सुरासुराराधितपादपद्यं श्रीवैद्यनाथ तमहं नमामि ॥ ५ ॥

याम्ये सदंगे नगरेऽतिरम्ये विभूषितांग विविधैश्च भोगै: । सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपधे ॥ ६॥

महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रै: । सुरासुरैर्यक्षमहोरगाधै: केदारमीशं शिवमेकमीडे ॥ ७॥

सहारद्रिशीर्षे विमले वसन्तं गोदावरीतीरपवित्रदेशे। यदर्शनात्पाकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ ८ ॥

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यै: । श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ ९ ॥

यं डाकिनीशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च । सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ १० ॥

सानन्दमानन्दवने वसंतमानन्दकन्दं हतपापवृन्दम् । वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपधे ॥ ११ ॥

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् । वन्दे महोदारतरस्वभावं घ्रष्णेश्वराख्यं शरणं प्रपधे ॥ १२ ॥

ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं क्रमेण । स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥ १३॥

॥ द्वादशज्योतिर्लिङ्गस्तोत्रम् ॥

पाठ जप: 0/108