सनातन स्तोत्र एवं ग्रन्थ संग्रह
श्रीवैष्णवस्तोत्रसंग्रह
वैष्णव परम्परा

आचार्यवैभवम्

Aachaaryavaibhavam
रचयिता: पारंपरिक पाठ संख्या: 24
23px

आचार्यवैभवम्
परं ब्रह्मैवाज्ञं भ्रमपरिगतं संसरति तत्
परोपाध्यालीढं विवशमशुभस्यास्पदमिति ।
श्रुतिन्यायापेतं जगति विततं मोहनमिदं
तमो येनापास्तं स हि विजयते यामुनमुनिः ॥ १ ॥

यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥ २ ॥

तस्मै रामानुजार्याय नमः परमयोगिने ।
यः श्रुतिस्मृतिसूत्राणामन्तर्ज्वरमशीशमत् ॥३॥

श्रीरङ्गगलमहोत्सववर्धनाय
वेदान्तपान्थपरमार्थसमर्थनाय
कैङ्कर्यलक्षणविलक्षणमोक्षलक्ष्म्यै
रामानुजो विजयते यतिराजराजः ॥४ ॥

श्रीमान् वेङ्कटनाथार्यकवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ ५ ॥

कवितार्किक सिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥६॥

आचार्यवैभवम्

पाठ जप: 0/108
प्रतिलिपि (Copy) भयो!