॥ मुकुन्दमाला स्तोत्रम् ॥
श्रीभूपतिकुलशेखरविरचिता ॥ मुकुन्दमाला स्तोत्रम् ॥
घुष्यते यस्य नगरे रङ्गयात्रा दिने दिने। तमहं शिरसा वन्दे राजानं कुलशेखरम्॥
श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति । नाथेति नागशयनेति जगन्निवासेत्य् आलापिनं प्रतिदिनं कुरु मां मुकुन्द ॥ १॥
जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ २॥
मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् । अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥ ३॥
नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् । रम्यारामामृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम् ॥ ४॥
नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद् भाव्यं तद् भवतु भगवन्पूर्वकर्मानुरूपम् । एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ ५॥
दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ ६॥
कृष्ण त्वदीयपदपङ्कजपञ्जरान्तं अद्यैव मे विशतु मानसराजहंसः । प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ७॥
चिन्तयामि हरिमेव सन्ततं मन्दहासमुदिताननाम्बुजं नन्दगोपतनयं परात् परं नारदादिमुनिवृन्दवन्दितम् ॥ ८॥
करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे । हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः क्लेशमद्य त्यजामि ॥ ९॥
सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमस्व चित्त रन्तुम् । सुखतरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ १०॥
माभीर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातनाः नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ ११॥
भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् । विषमविषयतोये मज्जतामप्लवानां भवतु शरणमेको विष्णुपोतो नराणाम् ॥ १२॥
भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मा स्म गाः कातरत्वम् । सरसिजदृशि देवे तारकी भक्तिरेका var तावकी नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ १३॥
तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसङ्घाकुले च । संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन् पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ ॥ १४॥
माद्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जे माश्रौषं श्राव्यबन्धं तव चरितमपास्यान्यदाख्यानजातम् । मास्मार्षं माधव त्वामपि भुवनपते चेतसापह्नुवानान् माभूवं त्वत्सपर्यापरिकररहितो जन्मजन्मान्तरेऽपि ॥ १५॥
जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु । कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन् नमाधोक्षजम् ॥ १६॥
हे लोकाः श्रुणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः । अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां तत्पीतं परमौषधं वितनुते निर्वानमत्यन्तिकम् ॥ १७॥
हे मर्त्याः परमं हितं श्रुणुत वो वक्ष्यामि सङ्क्षेपतः संसारार्णवमापदूर्मिबहुलं सम्यक् प्रविश्य स्थिताः । नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥ १८॥
पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुस्फुलिङ्गोऽनल - स्तेजो निःश्वसनं मरुत् तनुतरं रन्ध्रं सुसूक्ष्मं नभः । क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा दृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ १९॥
बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना । नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनां अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥ २०॥
हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव । हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ २१॥
भक्तापायभुजङ्गगारुडमणिस्त्रैलोक्यरक्षामणि- र्गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ २२॥
शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसम्पूज्यमन्त्रं संसारोत्तारमन्त्रं समुचिततमसः सङ्घनिर्याणमन्त्रम् । सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥ २३॥
व्यामोहप्रशमौषधं मुनिमनोवृत्ति-प्रवृत्त्यौषधं दैत्येन्द्रार्तिकरौषधं त्रिजगतां सञ्जीवनैकौषधम् । भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥ २४॥
आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं मेदश्छेदफलानि पूर्तविधयः सर्वं हुतं भस्मनि । तीर्थानामवगाहनानि च गजस्नानं विना यत्पद - द्वन्द्वाम्भोरुहसंस्मृतिं विजयते देवः स नारायणः ॥ २५॥
श्रीमन्नाम प्रोच्य नारायणाख्यं केन प्रापुर्वाञ्छितं पापिनोऽपि । हा नः पूर्वं वाक्प्रवृत्ता न तस्मिं - स्तेन प्राप्तं गर्भवासादिदुःखम् ॥ २६॥
मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव । त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य- भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ २७॥
नाथे नःपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति । यं कञ्चित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥ २८॥
मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि । हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ २९॥
तत्त्वं ब्रुवाणानि परं परस्तात् मधु क्षरन्तीव सतां फ़लानि । प्रवर्तय प्राञ्जलिरस्मि जिह्वे नामानि नारायणगोचराणि ॥ ३०॥
इदं शरीरं परिणामपेशलं पतत्यवश्यं परिणामपेशलम् । किमौषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ ३१॥
दारा वाराकरवरसुता ते तनूजो विरिञ्चिः स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः । मुक्तिर्माया जगद् अविकलं तावकी देवकी ते माता मित्रं बलरिपुसुतस्तत्त्वदन्यंन जाने ॥ ३२॥
कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमध्वं सदा कृष्णेनाखिलशत्रवो विनिहताः कृष्णाय तस्मै नमः । कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं कृष्णे तिष्ठति विश्वमेतद् अखिलं हे! कृष्ण रक्षस्व माम् ॥ ३३॥
तत् त्वं प्रसीद भगवन् कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः खलु त्वम् । संसारसागरनिमग्नमनन्त दीनं उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥ ३४॥
नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा । वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ ३५॥
श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे । श्रीपद्मनाभाच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे ॥ ३६॥
अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधवेति । वक्तुं समर्थोऽपि न वक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ॥ ३७॥
ध्यायन्ति ये विष्णुमनन्तमव्ययं हृत्पद्ममध्ये सततं व्यवस्थितम् । समाहितानां सतताभयप्रदं ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥ ३८॥
क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ ३९॥
यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ मित्रे द्विजन्मवरपद्मशरावभूताम् । तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता कृतिरियं कुलशेखरेण ॥ ४०॥
॥ मुकुन्दमाला सम्पूर्णा ॥