ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

ಶ್ರೀ ಸುದರ್ಶನಶತಕಂ

श्री सुदर्शनशतकम्
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 3
23px

श्रीसुदर्शनाय नमः

सौदर्शन्युज्जिहाना दिशि विदिशि तिरस्कृत्य सावित्रमर्चि- र्बाह्याबाह्यान्धकारक्षतजगदगदङ्कारभूम्ना स्वधाम्ना । दोःखर्जूदूरगर्जद्विबुधरिपुवधूकण्ठवैकल्यकल्या ज्वाला जाज्वल्यमाना वितरतु भवतां वीप्सयाऽभीप्सितानि ॥ १॥

प्रत्युद्यातं मयूखैर्नभसि दिनकृतः प्राप्तसेवं प्रभाभि- र्भूमौ सौमेरवीभिर्दिवि वरिवसितं दीप्तिभिर्देवधाम्नाम् । भुयस्यै भूतये वः स्फुरतु सकलदिग्भ्रान्तसान्द्रस्फुलिङ्गं चाक्रं जाग्रत्प्रतापं त्रिभुवनविजयव्यग्रमुग्रं महस्तत् ॥ २॥

पूर्णे पूरैः सुधानां सुमहति लसतस्सोमबिम्बालवाले- बाहाशाखावरुद्धक्षितिगगनदिवश्चक्रराजद्रुमस्य । ज्योतिश्छद्मा प्रवालः प्रकटितसुमनस्सम्पदुत्तंसलक्ष्मीं पुष्णन्नाशामुखेषु प्रदिशतु भवतां सप्रकर्षं प्रहर्षम् ॥ ३॥

आरादारात्सहस्राद्विसरति विमतक्षेपदक्षाद्यदक्षा- न्नाभेर्भास्वत्सनाभेर्निजविभवपरिच्छिन्नभूमेश्च नेमेः । आम्नायैरेककण्ठैः स्तुतमहिम महो माधवीयस्य हेते- स्तद्वो दिक्ष्वेधमानं चतसृषु चतुरः पुष्यतात्पूरुषार्थान् ॥ ४॥

श्यामं धामप्रसृत्या क्वचन भगवतः क्वापि बभ्रु प्रकृत्या शुभ्रं शेषस्य भाषा क्वचन मणिरुचा क्वापि तस्यैव रक्तम् । नीलं श्रीनेत्रकान्त्या क्वचिदपि मिथुनस्यादिमस्येव चित्रं व्याप्तन्वानं वितानश्रियमुपचिनुताच्छर्म वश्चक्रभानम् ॥ ५॥

शंसन्त्युन्मेषमुच्छोषितपरमहसो भास्वतः कैटभारे- रिन्धे सन्ध्येव नक्तञ्चरविलयकरी या जगद्वन्दनीया । बन्धूकच्छायबन्धुच्छविघटितघनच्छेदमेदस्विनी सा राथाङ्गी रश्मिभङ्गी प्रणुदतु भवतां प्रत्यहोत्थानमेनः ॥ ६॥

साम्यं धूम्याप्रवृद्ध्या प्रकटयति नभस्तारकाजालकानि स्फौलिङ्गीं यान्ति कान्तिं दिशति यदुदये मेरुरङ्गारशङ्काम् । अग्निर्मग्नार्चिरैक्यं भजति दिननिशावल्लभौ दुर्लभाभौ ज्वालावर्ताविव स्तः प्रहरणपतिजं धाम वस्तद्धिनोतु ॥ ७॥

दृष्टेऽधिव्योमचक्रे विकचनवजपासन्निकाशे सकाशं स्वर्भानुर्भानुरेष स्फुटमिति कलयन्नागतो वेगतोऽस्य । निष्टप्तो यैर्निवृत्तो विधुमिव सहसा स्प्रष्टुमद्यापि नेष्टे घर्मांशुं ते घटन्तामहितविहतये भानवो भास्वरा वः ॥ ८॥

देवं हेमाद्रितुङ्गं पृथुभुजशिखरं बिभ्रतीं मध्यदेशे नाभिद्वीपाभिरामामरविपिनवतीं शेषशीर्षासनस्थाम् । नेमिं पर्यायभूमिं दिनकरकिरणादृष्टसीमःपरीत्य प्रीत्यै वश्चक्रवालाचल इव विलसन्नस्तु दिव्यास्त्ररश्मिः ॥ ९॥

एकं लोकस्य चक्षुर्द्विविधमपनुदत्कर्म नम्रत्रिनेत्रं दात्रर्थानां चतुर्णां गमयदरिगणं पञ्चतां षड्गुणाढ्यम् । सप्तार्चिःशोषिताष्टापदनवकिरणश्रेणिरज्यद्दशांशं पर्यस्याद्वः शताङ्गावयवपरिवृढज्योतिरीतीः सहस्रम् ॥ १०॥

उच्चण्डे यच्छिखण्डे निबिडयति नभः क्रोडमर्कोऽटति द्या- मभ्यस्य प्रौढतापग्लपितवपुरपो बिभ्रतीरभ्रपङ्क्तीः । धत्ते शुष्यत्सुधोत्सो विधुरपमधुनः क्षौद्रकोशस्य साम्यं रक्षन्त्वस्त्रप्रभोस्ते रचितसुचरितव्युष्टयो घुष्टयोः वः ॥ ११॥

पद्मौघो दीर्घिकाम्भस्यवनिधरतटे गैरिकाम्बुप्रपातः सिन्दूरं कुञ्जराणां दिशि दिशि गगने सान्ध्यमेघप्रबन्धः । पारावारे प्रवालो वनभुवि च तथा प्रेक्ष्यमाणः प्रमुग्धैः साधिष्ठं वः प्रमोदं जनयतु दनुजद्वेषिणस्त्वैषराशिः ॥ १२॥

भानो भा नो त्वदीया स्फुरति कुमुदिनीमित्र ते कुत्र तेज- स्तारास्तारादधीरोऽस्यनल न भवतः स्वैरमैरम्मदार्चिः । शंसन्तीत्थं नभःस्था यदुदयसमये चक्रराजांशवस्ते युष्माकं प्रौढतापप्रभवगदापक्रमाय क्रमन्ताम् ॥ १३॥

जग्ध्वा कर्णेषु दूर्वाङ्कुरमरिसुदृशामक्षिषु स्वर्वधूनां पीत्वा चाम्भश्चरन्त्यः सवृषमनुगता वल्लवेनादिमेन । गावो वश्चक्रभर्तुः परममृतरसं प्रश्रितानां दुहानाः ऋद्धिं स्वालोकलुप्तत्रिभुनतमसः सानुबन्धां ददन्ताम् ॥ १४॥

सेनां सेनां मघोनो महति रणमुखेऽलं भयं लम्भयन्ती- रुत्सेकोष्णालुदोष्णां प्रथमदिविषदामावलीर्यावलीढे । विश्वं विश्वम्भराद्यं रथपदधिपतेर्लीलया पालयन्ती ऋद्धिः सा दीधितीनां वृजिनमनुजनुर्मार्जयत्वार्जितं वः ॥ १५॥

तप्ता स्वेनोष्मणेव प्रतिभटवपुषामस्रधारां धयन्ती प्राप्तेव क्षीबभावं प्रतिदिशमसकृत्तन्वती घूर्णितानि । वंशास्थिस्फोटशब्दं प्रकटयति पटून्याऽऽवहन्त्यट्टहासान् भा सा वः स्यन्दनाङ्गप्रभुसमुदयिनी स्पन्दतां चिन्तिताय ॥ १६॥

देवैरासेव्यमानो दनुजभटभुजादण्डदर्पोष्णतप्तै- राशारोधोऽतिलङ्घी लुठदुडुपटलीलक्ष्यडिण्डीरपिण्डः । रिङ्गज्ज्वालातरङ्गत्रुटितरिपुतरुव्रातपातोग्रमार्ग- श्चाक्रो वः शोचिरोधः शमयतु दुरितापह्नवं दाववह्निम् ॥ १७॥

भ्राम्यती संश्रितानां भ्रमशमनकरी च्छन्न सूर्यप्रकाशा सूर्यालोकानुरूपा रिपुहृदयतमस्कारिणी निस्तमस्का । धारासम्पातिनी च प्रकटितदहना दीप्तिरस्त्रेशितुर्व- श्चित्रा भद्राय विद्रावितविमतजना जायतामायताय ॥ १८॥

निन्ये वन्येव काशीदवशिखिजटिलज्योतिषा येन दाहं कृत्या वृत्त्या विलिल्ये शलभसुलभया यत्र चित्रप्रभावे । रुद्रोऽप्यद्रेर्दुहित्रा सह गहनगुहां यद्भयादभ्ययासीत् दिश्याद्विश्वार्चितो वः स शुभमनिभृतं शौरिहेतिप्रतापः ॥ १९॥

उद्यन्बिम्बादुदारान्नयनजलहिमं मार्जयन्निर्जरीणा- मज्ञानध्वान्तमूर्च्छाकरजनिरजनीभञ्जनव्यञ्जिताध्वा । न्यक्कुर्वाणो ग्रहाणां स्फुरणमपहरन्नर्चिषः पावकीया- श्चक्रेशार्कप्रकाशो दिशतु दश दिशो व्यश्नुवानं यशो वः ॥ २०॥

वर्गस्य स्वर्गधाम्नामपि दनुजनुषां विग्रहं निग्रहीतुं दातुं सद्योऽबलानां श्रियमतिशयिनीं पत्रभङ्गानुवृत्या । योक्तुं देदीप्यते या युगपदपि पुरो भूतिमय्या प्रकृत्या सा वो नुद्यादविद्यां द्युतिरमृतरसस्यन्दिनी स्यान्दनाङ्गी ॥ २१॥

दाहं दाहं सपत्नान्समरभुवि लसद्भस्मना वर्त्मना यान् क्रव्यादप्रेतभूताद्यभिलषितपुषा प्रीतकापालिकेन । कङ्कालैः कालधौतं गिरिमिव कुरुते यः स्वकीर्तेर्विहर्तुं घृष्टिः सान्दृष्टिकं वः सकलमुपनयत्वायुधाग्रेसरस्य ॥ २२॥

दग्धानां दानवानां सभसितनिचयैरस्थिभिः सर्वशुभ्रां पृथ्वीं कृत्वापि भूयो नवरुधिरझरीकौतुकं कौणपेभ्यः । कुर्वाणं वाष्पपूरैः कुचतटघुसृणक्षालनैस्तद्वधूनां पापं पापच्यमानं शमयतु भवतां शस्त्रराजस्य तेजः ॥ २३॥

मागान्मोषं ललाटानल इति मदनद्वेषिणा ध्यायतेव स्रष्ट्रा प्रोन्निद्रवासाम्बुजदलपटलप्लोषमुत्पश्यतेव । वज्राग्निर्मा स्म नाशं व्रजदिति चकितेनेव शक्रेण बद्धैः स्तोत्रैरस्त्रेश्वरस्य द्यतु दुरितशतं द्योतमाना द्युतिर्वः ॥ २४॥

॥ इति ज्वालावर्णनम् ॥

अथ नेमिवर्णनम् शस्त्रास्त्रं शात्रवाणां शलभकुलमिव ज्वालया लेलिहाना घौषैः स्वैः क्षोभयन्ती विघटितभगवद्योगनिद्रान्समुद्रान् । व्यूढोरःप्रौढचारत्रुटितपटुरटत्कीकसक्षुण्णदैत्या नेमिः सौदर्शनी वः श्रियमतिशयिनीं दाशताशताब्दम् ॥ २५॥

धारा चक्रस्य तारागणकपिशघृणिद्योतितद्युप्रचारा पारावाराम्बुपूरक्वथनपिशुनितोत्तालपातालयात्रा । गोत्राद्रिस्फोटशब्दप्रकटितवसुधामण्डलीचण्डयाना पन्थानं वः प्रदिश्यात्प्रशमनकुशला पाप्मनामात्मनीनम् ॥ २६॥

यात्रा या त्रातलोका प्रकटितवरुणत्रासमुद्रे समुद्रे सत्त्वासत्त्वासहोष्णाकृतसगरुदगस्पन्ददाना ददाना । हानिं हा निन्दितानां जगति परिषदां दानवीनां नवीनां चक्रे चक्रेशनेमिः शममुपहरतु सप्रभावप्रभा वः ॥ २७॥

यत्रामित्रान्दिधक्षौ प्रविशति बलिनो धाम निःसीमधाम्नि ग्रस्तापस्तापशीर्णैः प्रगुणितसिकतो मौक्तिकैःशौक्तिकेयैः । राशिर्वारामपारां प्रकटयति पुनर्वैरिदाराश्रुपूरैः वृद्धिं निर्याति निर्यापयतु स दुरितान्यस्त्रराजप्रधिर्वः ॥ २८॥

कक्ष्यातौल्येन कद्रूतनयफणमणीन्कल्यदीपस्य युञ्जन् पातालान्तः प्रतापी निखिलमपि तमः स्वेन धाम्ना निगीर्य । दैतेयप्रेयसीनां वमति हृदि हतप्रेयसां भूयसां य- श्चक्राग्रीयाग्रदेशो दहतु विलसितं भूयसामंहसां वः ॥ २९॥

कृष्णाम्भोदस्य भूषा कृतनयननयव्याहतिर्भार्गवस्य प्राप्तामावेदयन्ती प्रतिभटसुदृशामुद्भटां वाष्पवृष्टिम् । निष्टप्ताष्टापदश्रीः समममरचमूगर्जितैरुज्जिहाना कीर्ति वः केतकीभिः प्रथयतु सदृशीं चञ्चला चक्रधारा ॥ ३०॥

वप्राणां भेदिनीं यः परिणतिमखिलश्लाघनीयां दधानः क्षुण्णां नक्षत्रमालां दिशि दिशि विकिरन्विद्युता तुल्यकक्ष्यः । निर्याणेनोत्कटेन प्रकटयति नवं दानवारिप्रकर्षं चक्राधीशस्य भद्रो वशयतु भवतां स प्रधिश्चित्तवृत्तिम् ॥ ३१॥

नाकौकः शत्रुजत्रुत्रुटनविघटितस्कन्धनीरन्ध्रनिर्यन् नव्यक्रव्यास्रहव्यग्रसनरसलसज्ज्वालजिह्वालवह्निम् । यं दृष्ट्वा सांयुगीनं पुनरपि विदधत्याशिषो वीर्यवृद्ध्यै गीर्वाणा निर्वृणाना वितरतु स जयं विष्णुहेतिप्रधिर्वः ॥ ३२॥

धन्वाध्वन्यस्य धारासलिलमिव धनं दुर्गतस्येव दृष्टि- र्जात्यन्धस्येव पङ्गोः पदविहृतिरिव प्रीणनी प्रेमभाजाम् । पत्युर्मायाक्रियायां प्रकटपरिणतिर्विश्वरक्षाक्षमायां मायामायामिनीं वस्त्रुटयतु महती नेमिरस्त्रेश्वरस्य ॥ ३३॥

त्राणं या विष्टपानां वितरति च यया कल्प्यते कामपूर्ति- र्न स्थातुं यत्पुरस्तात्प्रभवति कलयाप्योषधीनामधीशः । उन्मेषो याति यस्या न समयनियतिं सा श्रियं वः प्रदेया- न्न्यक्कृत्य द्योतमाना त्रिपुरहरदृशं नेमिरस्त्रेश्वरस्य ॥ ३४॥

नक्षत्रक्षोदभूतिप्रकरविकिरणश्वेतिताशावकाशा जीर्णैः पर्णैरिव द्यां जलधरपटलैश्चूर्णितैरूर्णुवाना । आजावाजानवाजानतरिपुजनतारण्यमावर्तमाना नेमिर्वात्येव चाक्री प्रणुदतु भवतां संहतं पापतूलम् ॥ ३५॥

क्षिप्त्वा नेपथ्यशाटीमिव जलदघटां जिष्णुकोदण्डचित्रां तारापुञ्जं प्रसूनाञ्जलिमिव विपुले व्योमरङ्गे विकीर्य । निर्वेदग्लानिचिन्ताप्रभृतिपरवशानन्तरा दानवेन्द्रान् नृत्यन्नानालयाढ्यं नट इव तनुतां शर्म चक्रप्रधिर्वः ॥ ३६॥

दौर्गत्यप्रौढतापप्रतिभटविभवा वित्तधाराःसृजन्ती गर्जन्ती चीत्क्रियाभिर्ज्वलदनलशिखोद्दामसौदामनीका । अव्यात्क्रव्याद्वधूटीनयनजलभरैर्दिक्षु नव्याननाव्यान् पुष्यन्ती सिन्धुपूरान् रथचरणपतेर्नेमिकादम्बिनी वः ॥ ३७॥

सन्दोहं दानवानामजसमजमिवालभ्य जाज्वल्यमाने वह्नावह्नाय जुह्वत्त्रिदशपरिषदे स्वस्वभागप्रदायी । स्तोत्रैर्बह्मादिगीतैर्मुखरपरिसरं श्लाघ्यशस्त्रप्रयोगं प्राप्तः सङ्ग्रामसत्रं प्रधिरसुररिपोः प्रार्थितं प्रस्नुतां वः ॥ ३८॥ ॥ इतिनेमिवर्णनम् ॥

अथ अरवर्णनम् तृतीयम् उत्पातालातकल्पान्यसुरपरिषदामाहवप्रार्थिनीना- मध्वानध्वाववोधक्षपणचणतमः क्षेपदीपोपमानि । त्रैलोक्यागारभारोद्वहनसहमणिस्तम्भसम्पत्सखानि त्रायन्तामन्तिमायां विपदि सपदि वोऽराणि सौदर्शनानि ॥ ३९॥

ज्वालाजालप्रवालस्तबकितशिरसो नाभिमावालयन्त्यः सिक्ता रक्ताम्बुपूरैः शकलितवपुषां शात्रवानीकिनीनाम् । चक्राक्रीडप्ररूढाभुजगशयभुजोपघ्ननिघ्नप्रचाराः पुष्प्यन्त्यःकीर्तिपुष्पाण्यरकनकलताः प्रीतये वः प्रथन्ताम् ॥ ४०॥

ज्वालाजालाब्धिमुद्रं क्ष्तीवलयमिवाबिभ्रती नेमिचक्रं नागेन्द्रस्येव नाभेः फणपरिषदिव प्रौढरत्नप्रकाशा । दत्तां वो दिव्यहेतेर्मतिमरविततिः ख्यातसाहस्रसङ्ख्या सङ्ख्यावत्सङ्घचित्तश्रवणहरगुणस्यन्दिसन्दर्भगर्भाम् ॥ ४१॥

ब्रह्मेशोपक्रमाणां बहुविधविमतक्षोदसम्मोदितानां सेवायै देवतानां दनुजकुलरिपोः पिण्डिकाद्यङ्गभाजाम् । तत्तद्धामान्तसीमाविभजनविधये मानदण्डायमाना भूमानं भूयसा वो दिशतु दशशती भास्वराणामराणाम् ॥ ४२॥

ज्वालाकल्लोलमालानिबिडपरिसरां नेमिवेलां दधाने पूर्वेणाक्रान्तमध्ये भुवनमयहविर्भोजिना पूरुषेण । प्रस्फूर्जत्प्राज्यरत्ने रथपदजलधावेधमानैः स्फुलिङ्गैः भद्रं वो विद्रुमाणां श्रियमरविततिर्विस्तृणाना विधत्ताम् ॥ ४३॥

नासीरस्वैरभग्नप्रतिभटरुधिरासारधारावसेका- नेकान्तस्मेरपद्मप्रकरसहचरच्छायया प्राप्य नाभ्या । मुक्तानीवाङ्कुराणि स्फुरदनलशिखादर्शितप्राक्प्रवाला- न्यव्याघातेन भव्यं प्रददतु भवतां दिव्यहेतेरराणि ॥ ४४॥

दावोल्कामण्डलीव द्रुमगणगहने बाडवस्येव वह्ने- र्ज्वालावृद्धिर्महाब्धौ प्रवयसि तमसि प्रातरर्कप्रभेव । चक्रे या दानवानां हयकरटिघटासङ्कटे जाघटीति प्राज्यं सा वः प्रेदेयात्पदमरपरिषत्पद्मनाभायुधस्य ॥ ४५॥

तापाद्दैत्यप्रतापातपसमुचितात्त्रायमाणं त्रिलोकीं लोलैर्ज्वालाकलापैः प्रकटयदभितश्चीनपट्टाञ्चलानि । छत्राकारं शलाका इव कनककृताः शौरिदोर्दण्डलग्नं भूयासुर्भूषयन्त्यो रथचरणमरस्फूर्तयःकीर्तये वः ॥ ४६॥

नाभीशालानिखातां नहनसमुचितां वैरिलक्ष्मीवशानां संयद्वारीहृतानां समनुविदधती काञ्चनालानपङ्क्तिम् । राज्या च प्राज्यदैत्यव्रजविजयमहोत्तम्भितानां भुजानां तुल्या चक्रारमाला तुलयतु भवतां तूलवच्छत्रुलोकम् ॥ ४७॥

आनेमेश्चक्रवालात्त्विष इव वितताःपिण्डिकाचण्डदीप्ते- र्दीप्ता दीपा इवाराद्गहनरणतमीगाहिनः पूरुषस्य । शाणे रेखायितानां रथचरणमये शत्रुशौण्डीर्यहेम्नां रेखाः प्रत्यग्रलग्ना इव भुवनमरश्रेयणः प्रीणयन्तु ॥ ४८॥

दीप्तैरर्चिःप्ररोहैर्दलवति विधृते बाहुनालेनविष्णो- रुद्यत्प्रद्योतनाभम्प्रथयति पुरुषं कर्णिकावर्णिकायाम् । चूडालं वेदमौलिं कलयति कमले चक्रनाम्नोपलक्ष्ये लक्ष्मीं स्फारामराणि प्रतिविदधतु वः केसरश्रीकराणि ॥ ४९॥

धातुस्यन्दैरमन्दैः कलुषितवपुषो निर्झराम्भःप्रपाता- नर्चिष्मत्या स्वमूर्त्या रथचरणगिरेर्नेमिनाभीतटस्य । व्याकुर्वाणारपङ्क्तिर्वितरतु विभुताविस्तृतिं वित्तकोटी- कोटीरच्छत्रपीठीकटककरिघटाचामरस्रग्विणीं वः ॥ ५०॥

अथ नाभिवर्णनम् ऐक्येन द्वादशानामशिशिरमहसां दर्शयन्ती प्रवृत्तिं दत्तः स्वर्लोकलक्ष्म्यास्तिलक इव मुखे पद्मरागद्रवेण । देयाद्दैतेयदर्पक्षतिकरणरणप्रीणिताम्भोजनाभि- र्नाभिर्नाभित्वमुर्व्यास्सुरपतिविभवस्पर्शि सौदर्शनी वः ॥ ५१॥

शस्त्रश्यामे शताङ्गक्षितिभृति तरलैरुत्तरङ्गे तुरङ्गै- स्त्वङ्गन्मातङ्गनक्रे कुपितभटमुखच्छायमुग्धप्रवाले । अस्तोकं प्रस्नुवाना प्रतिभटजलधौ पाटवं वाडवस्य श्रेयो वस्संविधत्तां श्रितदुरितहरा श्रीधरास्त्रस्य नाभिः ॥ ५२॥

ज्वालाचूडालकालानलचलनसमाडम्बरा साम्परायं यासावासाद्य माद्यत्सुरसुभटभुजास्फोटकोलाहलाढ्यम् । दैत्यारण्यं दहन्ती विरचयति यशोभूतिशुभ्रां धरित्रीं सा वश्चक्रस्य नक्रस्यदमृदितगजत्रायिणी नाभिरव्यात् ॥ ५३॥

विन्दन्ती सान्ध्यमर्चिर्विदलितवपुषःप्रत्यनीकस्य रक्तैः स्फायन्नक्षत्रराशिर्दिशि दिशि कणशः कीकसैः कीर्यमाणैः । नाकौकःपक्ष्मलाक्षीनवमदहसितच्छायया चन्द्रपादान् राथाङ्गी विस्तृणाना रचयतु कुशलं पिण्डिकायामिनी वः ॥ ५४॥

निःसीमं निस्सृताया भुजधरणिधराघाटतःकैटभारे- राशाकूलङ्कषर्द्धेरहितबलमहाम्भोधिमासादयन्त्याः । चक्रज्वालापगायाश्चलदरलहरीमालिकादन्तुरायाः बिभ्रत्यावर्तभावं भ्रमयतु भुवने पिण्डिका वः प्रशस्तिम् ॥ ५५॥

पाणौ कृत्वाहवाग्रे प्रतिभटविजयोपार्जितां वीरलक्ष्मी- मानीतायास्ततोऽस्याः स्वसविधमसुरद्वेषिणा पूरुषेण । प्रासादं वासहेतोर्विरचितमरुणै रश्मिभिः सूचयन्ती नाभिर्वो निर्मिमीतां रथचरणपतेर्निवृतिं निर्विघाताम् ॥ ५६॥

डिण्डीरापाण्डुगण्डिररियुवतिमुखैः पिण्डिका कृष्णहेते- रुच्चण्डाश्रुप्रवर्षैरुपरततिलकैरुक्तशौण्डीर्यचर्या । द्वित्रग्रामाधिपत्यद्रुहिणमदमषीदूषिताक्षक्षमाभृत् सेवाहेवाकपाकं शमयतु भवतां कर्म शर्मप्रतीपम् ॥ ५७॥

पर्याप्तामुन्नतिं या प्रथयति कमलं या तिरोभाव्य भाति स्रष्टुस्सृष्टेर्दवीयः कुवलयमहितं या बिभर्ति स्वरूपम् । भूम्ना स्वेनान्तरिक्षं कबलयति च या सा विचित्रा विधत्तां दैतेयारातिनाभिर्द्रविणपतिपदद्रोहिणीं सम्पदं वः ॥ ५८॥

वाणीवाङ्गैश्चतुर्भिः सदसि सुमनसां द्योतमानस्वरूपा बाह्वन्तःस्था मुरारेरभिमतमखिलं श्रीरिव स्पर्शयन्ती । दुर्गेवोग्राकृतिर्या त्रिभुवनजननस्थेमसंहारधुर्या मर्यादालङ्घनं वः क्षपयतु महती हेतिवर्यस्य नाभिः ॥ ५९॥

स्रग्भिः सन्तानजाभिर्मधुरमधुरसस्यन्दसन्दोहिनीभिः पाटीरैः प्रौढचन्द्रातपचयसुषमालोपनैर्लेपनैश्च । धूपैः कालागरूणामपि सुरसुदृशो विस्रमर्चासु यस्याः गन्धं रुन्धन्ति सा वश्चिरमसुरभिदो नाभिरव्यादभव्यात् ॥ ६०॥

अंहस्संहृत्य दग्ध्वा प्रीतिजनिजनितं प्रौढसंसारवन्या दूराध्वन्यानधन्यान्महति विनतिभिर्धामनि स्थापयन्ती । विश्रान्तिं शाश्वतीं या नयति रमयतां चक्रराजस्य नाभिः संयन्मोमुह्यमानत्रिदशरिपुदशासाक्षिणी साऽक्षिणी वः ॥ ६१॥

॥ इति नाभिवर्णनम् ॥

अथाक्षवर्णनम् श्रुत्वा यन्नाम शब्दं श्रुतिपथकटुकं देवनक्रडनेषु स्वर्वैरिस्वैरवत्यो भयविवशधियः कातरन्यस्तशाराः । मन्दाक्षं यान्त्यमन्दं प्रतियुवतिमुखैर्दर्शितोत्प्रासदर्पै- रक्षं सौदर्शनं तत्क्षपयतु भवतामेधमानां धनायाम् ॥ ६२॥

व्यस्तस्कन्धं विशीर्णप्रसवपरिकरं प्रत्तपत्रोपमर्दं संयद्वर्षासु तर्षातुरखगपरिषत्पीतरक्तोदकासु । अक्षं रक्षस्तरूणामशनिवदशनैरापतन्मूर्ध्नि-मूर्ध्नि स्तादस्त्राधीशितुर्वः स्तबकितयशसे द्वेषिणां प्लोषणाय ॥ ६३॥

दीक्षां सङ्गामसत्रे महति कृतवतो दीप्तिभिस्संहताभिः जिह्वाले सप्तजिह्वे दनुजकुलहविर्जुह्वतो नेमिजुह्वा । वैकुण्ठास्त्रस्य कुण्डं महदिव विलसत्पिण्डिकावेदिमध्ये दिश्याद्दिव्यर्द्धिदेश्यं पदमिह भवतामक्षतोन्मेषमक्षम् ॥ ६४॥

तुङ्गाद्दोरद्रिश‍ृङ्गाद्दनुजविजयिनः स्पष्टदानोद्यमानां शत्रुस्तम्बेरमाणं शिरसि निपततः स्रस्तमुक्तास्थिपुञ्जे । रक्तैरभ्यक्तमूर्तेर्विदलनगलितैर्व्यक्तवीरायितर्द्धे- र्हर्यक्षस्यारिभङ्गं जनयतु जगतामीडितं क्रीडितं वः ॥ ६५॥

उन्मीलत्पद्मरागं कटकमिव धृतं बाहुना यन्मुरारे- र्दीप्तान् रश्मीन्दधानं नयनमिव यदुत्तारकं विष्टपस्य । चक्रेशार्कस्य यद्वापरिधिरभिदधद्दैत्यहत्यामिव द्रा- गक्षं पक्षे पतित्वा परिघटयतु वस्तद्द्रढिष्ठां प्रतिष्ठाम् ॥ ६६॥

क्रीडत्प्राक्क्रोडदंष्ट्राहतिदलितहिरण्याक्षवक्षःकवाट- प्रादुर्भूतप्रभूतक्षतजसमुदितारुण्यमुद्रं समुद्रम् ॥ उन्मीलत्किंशुकाभैरुपहसदमितैरंशुभिः संशयघ्नी- मक्षं चक्रस्य दत्तामघशतशमनं दाशुषीं शेमुषीं वः ॥ ६७॥

पद्मोल्लासप्रदं यज्जनयति जगतीमेधमानप्रबोधां यस्यच्छायासमाना लसति परिसरे रोहिणी तारकाग्र्या । नानाहेत्युन्नतत्त्वं प्रकटयति च यत्प्राप्तकृष्णप्रयाणं त्रेधा भिन्नस्य धाम्नस्समुदय इव तत्पातु वश्चाक्रमक्षम् ॥ ६८॥

शोचिर्भिः पद्मरागद्रवसमसुषमैश्शोभमानावकाशं प्रत्यग्राशोकरागप्रतिभटवपुषा भूषितं पूरुषेण । अन्तः स्वच्छन्दमग्नोत्थितभृगुतनयं क्षत्रियाणां क्षताना- मारब्धं शोणितौघैस्सर इव भवतो दिव्यहेत्यक्षमव्यात् ॥ ६९॥

मत्तानामिन्द्रियाणां कृतविषयमहाकाननक्रीडनानां सृष्टं चक्रेश्वरेण ग्रहणधिषणया वारिवद्वारणानाम् । गम्भीरं यन्त्रगर्तं कमपि कृतधियो मन्वते यत्प्रदेया- दस्थूलां संविदं वस्त्रिजगदभिमतस्थूललक्षं तदक्षम् ॥ ७०॥

प्रणादीन्सन्नियम्य प्रणिहितमनसां योगिनामन्तरङ्गे तुङ्गं सङ्कोच्य रूपं विरचितदहराकाशकृच्छ्रासिकेन । प्राप्तं यत्पूरुषेण स्वमहिमसदृशं धाम कामप्रदं वो भूयाभूर्भुवस्स्वस्त्रयवरिवसितं पुष्कराक्षायुधाक्षम् ॥ ७१॥

विद्धान्वीध्रेण धाम्ना चरणनखभुवा बद्धवासस्य मध्ये चक्राध्यक्षस्य बिभ्रत्परिहसितजपापुष्पकोशान्प्रकाशान् । शुभ्रैरभ्रैरदभ्रैश्शरदि तत इतो व्योम विभ्राजमानं प्रातस्त्यादित्यरोचिस्ततमिव भवतः पातु राथाङ्गमक्षम् ॥ ७२॥

श्रीवाणीवाङ्मृडान्यो विदधति भजनं शक्तयो यस्य दिक्षु प्राह व्यूहं यदाद्यं प्रथममपि गुणं भारती पाञ्चरात्री । घोरां शान्तां च मूर्तिं प्रथयति पुरुषः प्राक्तनः प्रार्थनाभि- र्भक्तानां यस्य मध्ये दिशतु तदनघामक्षमध्यक्षतां वः ॥ ७३॥

रक्षःपक्षेण रक्षत्क्षतममरगणं लक्ष्यवैलक्ष्यमाजौ लक्ष्मीमक्षीयमाणां बलमथनभुजे वज्रशिक्षानपेक्षे । निक्षिप्य क्षिप्रमध्यक्षयति जगति यद्दक्षतां दिव्यहेते- रक्षामामक्षमां तां क्षपयतु भवतामक्षजिल्लक्ष्यमक्षम् ॥ ७४॥ ॥ इत्यक्षवर्णनम् ॥

अथसुदर्शनपुरुषवर्णनम् ज्योतिश्चूडालमौलिस्त्रिनयनवदनः षोडशोत्तुङ्गबाहुः प्रत्यालीढेन तिष्ठन्प्रणवशशधराधारषट्कोणवर्ती । निस्सीमेन स्वधाम्ना निखिलमपि जगत्क्षेमवन्निर्मिमाणो भूयात्सौदर्शनो वः प्रतिभटपरुषः पूरुषः पौरुषाय ॥ ७५॥

वाणी पौराणिकी यं प्रथयति महितं प्रेक्षणं कैटभारेः शक्तिर्यस्येषुदंष्ट्रानखपरशुमुखव्यापिनी तद्विभूत्याम् । कर्तुं यत्तत्त्वबोधो न निशितमतिभिर्नारदाद्यैश्च शक्यो दैवीं वो मानुषीं च क्षिपतु स विपदं दुस्रामस्त्रराजः ॥ ७६॥

रूढस्तारालवाले रुचिरदलचयः श्यामलैश्शस्त्रजालै- र्ज्वालाभिस्सप्रवालः प्रकटितकुसुमो बद्धसङ्घैः स्फुलिङ्गैः । प्राप्तानां पादमूलं प्रकृतिमधुरया छायया तापहृद्वो दत्तामुद्दोःप्रकाण्डः फलमभिलषितं विष्णुसङ्कल्पवृक्षः ॥ ७७॥

धाम्नामैरम्मदानां निचयमिव चिरस्थायिनां द्वादशानां मार्तण्डानां समूढं मह इव बहुलां रत्नभासामिवर्द्धिम् । अर्चिस्सङ्घातमेकीकृतमिव शिखिनां वाडवाग्रेसराणां शङ्कन्ते यस्य रूपं स भवतु भवतां तेजसे चक्रराजः ॥ ७८॥

उग्रं पश्याक्षमुद्यद्भ्रुकुटि समुकुटं कुण्डलिस्पष्टदंष्ट्रं चण्डास्त्रैर्बाहुदण्डैर्लसदनलसमक्षौमलक्ष्योरुकाण्डम् । प्रत्यालीढस्थपादं प्रथयतु भवतां पालनव्यग्रमग्रे चक्रेशोऽकालकालेरितभटविकटाटोपलोपाय रूपम् ॥ ७९॥

चक्रं कुन्तं कृपाणं परशुहुतवहावङ्कुशं दण्डशक्ती शङ्खं कोदण्डपाशौ हलमुसलगदावज्रशूलांश्च हेतीन् । दोर्भिस्सव्यापसव्यैर्दधततुलबलस्तम्भितारातिदर्पै- र्व्यूहस्तेजोभिमानी नरकविजयिनो जृम्भतां सम्पदे वः ॥ ८०॥

पीतं केशे रिपोरप्यसृजि रथपदे संश्रितेऽप्युत्कटाक्षं चन्द्राधःकारि यन्त्रे वपुषि च दलने मण्डले च स्वराङ्कम् । हस्ते वक्त्रे च हेतिस्तबकितमसमं लोचने मोचने च स्तादस्तोकाय धाम्ने सुरवरपरिषत्सेवितं दैवतं वः ॥ ८१॥

चित्राकारैस्स्वचारैर्मितसकलजगज्जागरूकप्रतापो मन्त्रं तन्त्रानुरूपं मनसि कलयतो मानयन्नात्मगुह्यान् । पञ्चाङ्गस्फूर्तिनिर्वर्तितरिपुविजयो धाम षण्णां गुणानां लक्ष्मीं राजासनस्थो वितरतु भवतां पूरुषश्चक्रवर्ती ॥ ८२॥

अक्षावृत्ताभ्रमालान्यरविवरलुठच्चन्द्रचण्डद्युतीनि ज्वालाजालावलीढस्फुटदुडुपटलीपाण्डुदिङ्मण्डलानि । चक्रान्ताक्रान्तचक्राचलचलितमहीचक्रवालार्तशेषा- ण्यस्त्रग्रामाग्रिमस्य प्रददतु भवतां प्रार्थितं प्रस्थितानि ॥ ८३॥

शूलं त्यक्तात्मशीलं सृणिरणुकघृणिः पट्टसः स्पष्टसादः शक्तिश्शालीनशक्तिः कुलिशमकुशलं कुण्ठधारः कुठारः । दण्डश्चण्डत्वशून्यो भवति तनुधनुर्यत्पुरस्तात्स वः स्ताद् ग्रस्ताशेषास्त्रगर्वो रथचरणपतिः कर्मणे शार्मणाय ॥ ८४॥

क्षुण्णाजानेयवृन्दं क्षुभितरथगणं सन्नसान्नाह्ययूथं क्ष्वेलासंरम्भहेलाकलकलविगलत्पूर्वगीर्वाणगर्वम् । कुर्वाणःसाम्परायं रथचरणपतिः स्थेयसीं वःप्रशस्तिं दुग्धां दुग्धाब्धिभासं भयविवशशुनासीरनासीरवर्ती ॥ ८५॥

द्रुह्यद्दोश्शालिमालिप्रहरणरभसोत्तानिते वैनतेये विद्राति द्राक्प्रयुक्तः प्रधनभुवि परावर्तमानेन भर्त्रा । निर्जित्य प्रत्यनीकं निरवधिकचरद्धास्तिकाश्वीयरथ्यं पथ्यं विश्वस्य दाश्वान्प्रथयतु भवतो हेतिरिन्द्रानुजस्य ॥ ८६॥

नन्दिन्यानन्दशून्ये गलति गणपतौ व्याकुले बाहुलेये चण्डे चाकित्यकुण्ठे प्रमथपरिषदि प्राप्तवत्यां प्रमाथम् । उच्छिद्याजौ बलिष्ठं वलिजभुजवनं यो ददावादिभिक्षो- र्भिक्षां तत्प्राणरूपां स भवदकुशलं कृष्णहेतिःक्षिणोतु ॥ ८७॥

रक्तौघाभ्यक्तमुक्ताफललुलितललद्वीचिवृद्धौ महाब्धौ सन्ध्यासम्बद्धताराजलधरशबलाकाशनीकाशकान्तौ । गम्भीरारम्भमम्भश्चरमसुरकुलं वेदविघ्नं विनिघ्नन् निविघ्नं वः प्रसूतां व्यपगतविपदं सम्पदं चक्रराजः ॥ ८८॥

काशीविप्लोषचैद्यक्षपणधरणिजध्वंससूर्यापिधान- ग्राहद्वेधात्वमालित्रुटनमुखकथावस्तुसत्कीर्तिगाथाः । गीयन्ते किन्नरीभिः कनकगिरिगुहागेहिनीभिर्यदीया देयाद्दैतेयवैरी स सकलभुवनश्लाघनीयां श्रियं वः ॥ ८९॥

नानावर्णान्विवृण्वन्विरचितभुवनानुग्रहान् विग्रहान् यः चक्रेष्वष्टासु मृष्टासुरवरतरुणीकण्ठकस्तूरिकेषु । आतारादर्णमालावधिषु वसति यः पूरुषो वस्स देयात् व्यध्वैरुद्धूतसत्त्वैरुपहितमबहिर्ध्वान्तमध्वान्तवर्ती ॥ ९०॥

द्वात्रिंशत्षोडशाष्टप्रभृतिपृथुभुजस्फूर्तिर्भिमूर्तिभेदैः कालाद्ये चक्रषट्के प्रकटितविभवःपञ्चकृत्यानुरूपम् । अर्थानामर्थितानामहरहरखिलं निर्विलम्बैर्विलम्बैः कुर्वाणो भक्तवर्गं कुशलिनमवतादायुधग्रामणीर्वः ॥ ९१॥

कोणैरर्णैस्सरोजैरपि कपिशगुणैः षड्भिरुद्भिन्नशोभे श्रीवाणीपूर्विकाभिर्दधति विकसतश्शक्तिभिः केशवादीन् । तारान्ते भूपुरादौ रथचरणगदाशार्ङ्गखड्गाङ्किताशे यन्त्रे तन्त्रोदिते वः स्फुरतु कृतपदं लक्ष्म लक्ष्मीसखस्य ॥ ९२॥

दंष्ट्राकान्त्या कडारे कपटकिटितनोः कैटभारेरधस्ता- दूर्ध्वं हासेन विद्धे नरहरिवपुषो मण्डले वासवीये । प्राक्प्रत्यक्सान्ध्यसान्द्रच्छविभरभरिते व्योम्नि विद्योतमानो दैतेयोत्पातशंसी रविरिव रहयत्वस्त्रराजो रुजं वः ॥ ९३॥

कोणे क्वापि स्थितोऽपि त्रिभुवनविततश्चन्द्रधामापि रूक्षो रुक्मच्छायोऽपि कृष्णाकृतिरनलमयोऽप्याश्रितत्राणकारी । धारासारोऽपि दीप्तो दिनकररुचिरोऽप्युल्लसत्तारकश्री- श्चक्रेशश्चित्रभूमा वितरतु विमतत्रासनं शासनं वः ॥ ९४॥

शुक्लश्शक्र स्तवस्ते सह दहन कलां काल तेऽयं न कालः किं वो रक्षांसि रक्षा तव फलतु पते यादसां पादसेवा । वायो हृद्योऽसि भर्तुस्त्यज धनद मदं सेव्यतां त्रयम्बकेति प्राहुर्यद्यन्त्रपालास्स दनुजविजयी हन्तु तन्द्रालुतां वः ॥ ९५॥

गायत्र्यर्णारचक्रे प्रथममनुसखस्स्मेरपत्रारविन्दे बिम्बं वह्नेस्त्रिकोणं वहति जयिजयाद्यष्टशक्तौ निषण्णा । शोकं वोऽशोकमूले पदसविधलसद्भीमभीमाक्षभीमा- पुंसो दिव्यास्त्रधामा पुरुषहरिमयी मूर्तिरस्यत्वपूर्वा ॥ ९६॥

पाश्चात्याशोकपुष्पप्रकरनिपतितैः प्राप्तरागं परागैः सन्ध्यारोचिस्सगन्धैः स्वपदशशधरं प्रेक्ष्य तारानुषक्तम् । पद्मानाबद्धकोशानिव सुरनिवहैरञ्जलीन् कल्प्यमानां- श्चक्राधीशोऽभिनन्दन्प्रदिशतु सदृशीमुत्तमश्लोकतां वः ॥ ९७॥

रक्ताशोकस्य वेदस्य च विहितपदं प्राप्तशाखस्य मूले चक्रैरस्त्रैस्तदाद्यैरपि महितचतुर्द्विश्चतुर्वाहुदण्डम् । आसीनं भासमानं स्थितमपि भयतस्त्रायतां तत्त्वमेकं पश्चात्पूर्वत्र भागे स्फुटनरहरितामानुषं जानुषाद्वः ॥ ९८॥

प्राणे दत्तप्रयाणे मुषितदिशि दृशि त्वक्तसारे शरीरे मत्यां व्यामोहवत्यां सतमसि मनसि व्याहते व्याहृते च । चक्रान्तर्वर्ति मृत्युप्रतिभयमुभयाकारचित्रं पवित्रं तेजस्तत्तिष्ठतां वस्त्रिदशकुलधनं त्रीक्षणं तीक्ष्णदंष्ट्रम् ॥ ९९॥

यस्मिन्विन्यस्य भारं विजयिनि जगतां जङ्गमस्थावराणां लक्ष्मीनारायणाख्यं मिथुनमनुभवत्यत्युदारान्विहारान् । आरोग्यं भूतिमायुः कृतमिह बहुना यद्यदास्थापदं व- स्तत्तत्सद्यः समस्तं दिशतु स पुरुषो दिव्यहेत्यक्षवर्ती ॥ १००॥

पद्यानां तत्त्वविद्याद्युमणिगिरिशविध्यङ्गसङ्ख्याधराणा- मर्चिष्वङ्गेषु नेम्यादिषु च परमतः पुंसि षड्विंशतेश्च । सङ्घैः सौदर्शनं यः पठति कृतमिदं कूरनारायणेन - स्तोत्रं निर्विष्टभोगो भजति स परमां चक्रसायुज्यलक्ष्मीम् ॥ १०१॥

॥ इति श्रीकूरनारायणमुनिप्रणीतं सुदर्शनशतकं समाप्तम् ॥

ಜಪ ಎಣಿಕೆ: 0/108