సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

దుర్గాపంచరత్నం

दुर्गापञ्चरत्नम्
రచయిత: పారంపరిక వీక్షణలు: 1
23px

दुर्गा पञ्चरत्नम्

ते ध्यानयोगानुगताः अपश्यन् त्वामेव देवीं स्वगुणैर्निगूढाम् । त्वमेव शक्तिः परमेश्वरस्य मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ १॥

देवात्मशक्तिः श्रुतिवाक्यगीता महर्षिलोकस्य पुरः प्रसन्ना । गुहा परं व्योम सतः प्रतिष्ठा मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ २॥

परास्य शक्तिः विविधैव श्रूयसे श्वेताश्ववाक्योदितदेवि दुर्गे । स्वाभाविकी ज्ञानबलक्रिया ते मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ ३॥

देवात्मशब्देन शिवात्मभूता यत्कूर्मवायव्यवचोविवृत्या । त्वं पाशविच्छेदकरी प्रसिद्धा मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ ४॥

त्वं ब्रह्मपुच्छा विविधा मयूरी ब्रह्मप्रतिष्ठास्युपदिष्टगीता । ज्ञानस्वरूपात्मतयाखिलानां मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ ५॥

इति परमपूज्य श्री चन्द्रशेखरेन्द्र सरस्वती स्वामीगलकृतं दुर्गा पंचरत्नं सम्पूर्णम् ॥

జప గణన: 0/108