ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
Saraswati Devi
ಸನಾತನ ದೇವ

.. ಸರಸ್ವತೀದ್ವಾದಶನಾಮಸ್ತೋತ್ರಂ ..

॥ सरस्वतीद्वादशनामस्तोत्रम् ॥
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 3
23px

सरस्वतीद्वादशनामस्तोत्रम्

सरस्वतीमहं वन्दे वीणापुस्तकधारिणीम् । हंसवाहसमायुक्तां विद्यादानकरीं मम ॥ १॥

प्रथमं भारती नाम द्वितीयं च सरस्वती । तृतीयं शारदा देवी चतुर्थं हंसवाहिनी ॥ २॥

पश्चमं जगति ख्याता षष्ठं वाणीश्वरी तथा । कौमारी सप्तमं प्रोक्ता अष्टमं ब्रह्मचारिणी ॥ ३॥

नवमं बुद्धिदात्री च दशमं वरदायिनी । एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी ॥ ४॥

ब्राह्मी द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः । सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी । सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती ॥ ५॥

इति सरस्वतीद्वादशनामस्तोत्रं सम्पूर्णम् ।

ಜಪ ಎಣಿಕೆ: 0/108