॥ गङ्गादशहरास्तोत्रम् ॥
ब्रह्मोवाच
नमः शिवायै गङ्गायै शिवदायै नमो नमः। नमस्ते रुद्ररूपिण्यै शाङ्कर्यै ते नमो नमः॥१॥
नमस्ते विश्वरूपिण्यै ब्रह्ममूर्त्यै नमो नमः। सर्वदेवस्वरूपिण्यै नमो भेषजमूर्तये॥२॥
सर्वस्य सर्वव्याधीनां भिषक्-श्रेष्ठ्यै नमोऽस्तु ते। स्थाणुजङ्गमसम्भूतविषहन्त्र्यै नमो नमः॥३॥
भोगोपभोगदायिन्यै भोगवत्यै नमो नमः। मन्दाकिन्यै नमस्तेऽस्तु स्वर्गदायै नमो नमः॥४॥
नमस्त्रैलोक्यभूषायै जगद्धात्र्यै नमो नमः। नमः स्त्रीशुक्लसंस्थायै तेजोवत्यै नमो नमः॥५॥
नन्दायै लिङ्गधारिण्यै नारायण्यै नमो नमः। नमस्ते विश्वमुख्यायै रेवत्यै ते नमो नमः॥६॥
बृहत्यै ते नमस्तेऽस्तु लोकधात्र्यै नमो नमः। नमस्ते विश्वमित्रायै नन्दिन्यै ते नमो नमः॥७॥
पृथ्व्यै शिवामृतायै च सुवृषायै नमो नमः। शान्तायै च वरिष्ठायै वरदायै नमो नमः॥८॥
उस्रायै सुखदोग्ध्र्यै च सञ्जीविन्यै नमो नमः। ब्रह्मिष्ठायै ब्रह्मदायै दुरितघ्न्यै नमो नमः॥९॥
प्रणतार्तिप्रभञ्जिन्यै जगन्मात्रे नमोऽस्तु ते। सर्वापत्प्रतिपक्षायै मङ्गलायै नमो नमः॥१०॥
शरणागतदीनार्तपरित्राणपरायणे। सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते॥११॥
निर्लेपायै दुर्गहन्त्र्यै दक्षायै ते नमो नमः। परात्परतरे तुभ्यं नमस्ते मोक्षदे सदा॥१२॥
गङ्गे ममाग्रतो भूया गङ्गे मे देवि पृष्ठतः। गङ्गे मे पार्श्वयोरेहि त्वयि गङ्गेऽस्तु मे स्थितिः॥१३॥
आदौ त्वमन्ते मध्ये च सर्वं त्वं गां गते शुभे त्वमेव मूलप्रकृतिस्त्वं हि नारायणः परः। गङ्गे त्वं परमात्मा च शिवस्तुभ्यं नमः शिवे॥१४॥
य इदं पठति स्तोत्रं भक्त्या नित्यं नरोऽपि यः। शृणुयाच्छ्रद्धया युक्तः कायवाक्चित्तसम्भवैः॥१५॥
दशधा संस्थितैर्दोषैः सर्वैरेव प्रमुच्यते। सर्वान्कामानवाप्नोति प्रेत्य ब्रह्मणि लीयते॥१६॥
ज्येष्ठे मासि सिते पक्षे दशमी हस्तसंयुता। तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः॥१७॥
यः पठेद्दशकृत्वस्तु दरिद्रो वाऽपि चाक्षमः। सोऽपि तत्फलमाप्नोति गङ्गां सम्पूज्य यत्नतः॥१८॥
अदत्तानामुपादानं हिंसा चैवाविधानतः। परदारोपसेवा च कायिकं त्रिविधं स्मृतम्॥१९॥
पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः। असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम्॥२०॥
परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम्। वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम्॥२१॥
एतानि दश पापानि हर त्वं मम जाह्नवि। दशपापहरा यस्मात्तस्माद्दशहरा स्मृता॥२२॥
त्रयस्त्रिंशच्छतं पूर्वान् पितॢनथ पितामहान्। उद्धरत्येव संसारान्मन्त्रेणानेन पूजिता॥२३॥
सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्राम् करधृतकलशोद्यत्सोत्पलामत्यभीष्टाम्। विधिहरिहररूपां सेन्दुकोटीरजुष्टाम् कलितसितदुकूलां जाह्नवीं तां नमामि॥२४॥
आदावादिपितामहस्य निगमव्यापारपात्रे जलम् पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम्। भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियम् देवी कल्मषनाशिनी भगवती भागीरथी दृश्यते॥२५॥
गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि। मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति॥२६॥
नमो भगवत्यै दशपापहरायै गङ्गायै नारायण्यै रेवत्यै शिवायै दक्षायै अमृतायै विश्वरूपिण्यै नन्दिन्यै ते नमो नमः॥
॥ इति स्कन्दे महापुराणे एकाशीति साहस्र्यां संहितायां तृतीये काशीखण्डे धर्माब्धिस्था श्रीगङ्गादशहरास्तोत्रं सम्पूर्णम् ॥