॥ पञ्चधाटीस्तोत्रम् ॥
पादुके यतिराजस्य कथयन्ति यदाख्यया । तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥
पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनिः बौद्धध्वान्तनिरासवासरपति जैनेभकण्ठीरवः मायावादि भुजङ्गभङ्गगरुडस्त्रैविद्य चूडामणिः श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः ॥१॥
पाषण्ड षण्डगिरिखण्डनवज्रदण्डाः प्रच्छन्नबौद्धमकरालयमन्थदण्डाः। वेदान्तसारसुखदर्शनदीपदण्डाः रामानुजस्य विलसन्तिमुनेस्त्रिदण्डाः ॥ २ ॥
चारित्रोद्धारदण्डं चतुरनयपथालक्रियाकेतुदण्डम् सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम् । त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डम् धत्तेरामानुजार्यः प्रतिकथकशिरो वज्रदण्डं त्रिदण्डम् ॥ ३ ॥
त्रय्या माङ्गल्यसूत्रं त्रियुगपयुगपथा रोहणालम्बसूत्रं सद्विद्यादीपसूत्रं सकलकलिकथासंहतेः कालसूत्रम् । प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं रक्षासूत्रं मुनीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ ४ ॥
पाषण्डसागरमहाबडबामुखाग्निः श्रीरङ्गराजचरणाम्बुजमूलदासः । श्रीविष्णुलोकमणि मण्डपमार्गदायी रामानुजो विजयते यतिराजराजः ॥ ५ ॥
॥ इति श्रीपञ्चधाटी समाप्ता ॥