શ્રીગણેશમાનસપૂજાસ્તોત્રમ્
श्रीगणेशमानसपूजास्तोत्रम्
श्रीजगद्गुरु शृङ्गेरी श्रीचन्द्रशेखरभारती स्वामि अनुगृहीता मनासपूजा प्रारभ्यते
वात्सल्यभाजनमगाधिपकन्यकाया मात्सर्यशून्यहृदयैर्भुवि भावनीयम् । प्रत्यूहजातविनिपातनलब्धवर्ण- मत्यूर्जितं हृदि भजामि गणाधिनाथम् ॥ १॥
आवाहयामि गणनाथमुमामहेश- सर्वस्वभूतमपनीतदुरन्तरायम् । योगीन्द्रमानससरोरुहंसविकास- लीलाविशेषचतुरं निगमान्तनिष्ठम् ॥ २॥
माणिक्यमञ्जुलमरीचिमनोज्ञपार्श्वं सान्द्रीभवन्मरकतावलिमेचकाभम् । मुक्तामणिप्रकरमेदुरितान्तरालं रत्नासनं तव हृदा परिकल्पयामि ॥ ३॥
गङ्गादिपुण्यसरितां परिपूततीर्थैः पाद्यं तवाद्यवधिशून्य समर्पयामि । अर्घ्यं ददाम्यहमनर्घगुणाभिराम प्रत्यूहवारण सुवारणवक्त्र तुभ्यम् ॥ ४॥
प्रत्याहृतैरखिलपुण्यसरिद्वराभ्य- स्तीर्थैर्ददाम्यमलमाचमनं च तुभ्यम् । सूक्तादिमन्त्रनिवहैरभिमन्त्रितैश्च पुण्योदकैस्तव शिरः स्नपयाम्यजस्रम् ॥ ५॥
आचूडमाचरणमप्यभिषिच्य तीर्थैः आलोक्यन्नखिलमङ्गलमाननं ते । आनन्दनिर्भरमनाश्चुलुकीकृताक्षः किं वा भवामि सफलीकृतपुण्यजन्मा ॥ ६॥
कस्तूरिकाघुमुघुमीकृतचन्दनानि दिव्यं दुकूलयुगलं च ददामि तुभ्यम् । यज्ञोपवीतमभिमन्त्रितमर्पयामि दिव्यान्श्च भूषणगणान् प्रतिपादयामि ॥ ७॥
जातिसुचम्पकसरोरुहकुन्दमल्ली बिल्वादिभिर्बहुविधैरितरैश्च पुष्पैः । त्वामर्चयन्नमरसंहितसेव्यमानं आराद्भजामि तु कदा कृतकृत्यभावम् ॥ ८॥
स्वामिन् ददाम्यगरुगुग्गुलुचन्दनादि धूपान् सुगन्धभरितान् शिवसूनवे ते । आज्यप्लुतामलसुवर्तिभिरेधमान- मादर्शयामि ननु ते तपनीयदीपम् ॥ ९॥
चोष्यैश्च भक्ष्यनिवहैश्च करम्बितं ते भोज्यं ददामि गणनायक दिव्यमन्नम् । आमोदकं च गिरिजासुत मोदकानां स्वामिन् परश्शतमपि प्रतिपादयामि ॥ १०॥
आनम्रनाकिगणमञ्जुलमौलिमाला- नीराज्यमानचरणद्वय विघ्नहन्तः । कर्पूरदीपनिवहैस्तव पादपद्मं नीराजयामि ननु मां परिपाहि भक्तम् ॥ ११॥
पुष्पाञ्जलिं प्रचुरयामि सुवर्णपुष्पैः सन्मन्त्रपुष्पमपि च प्रतिपादयामि । सर्वोपचारपनिवहांश्च समर्पयामि स्वामिन् गणाधिप समुद्धर मां भवाब्धेः ॥ १२॥
नारोग्यमद्य कलये न च भोग्यजातं भाग्यं न वा विषयलम्पटतानिदानम् । वैराग्यमेव सुतरामुपलम्भयन् मां स्वामिन् समुद्धर भवाम्बुनिधेर्दुरन्तात् ॥ १३॥
इत्थं गणाधिपतिमानसपूजनं यः कैवल्यदं सुललितं पठतीह भक्त्या । नागामिजन्मभयमस्ति हि तस्य पुंसः कैवल्यसौधमचिरादनुवीक्षते सः ॥ १४॥
इति श्रीजगद्रुरु श्रीशृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचितं श्रीगणेशमानसपूजास्तोत्रम्