सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीदुर्गा नक्षत्रमालिकास्तुतिः

stotra-face8d82
रचयिता: पारंपरिक पाठ संख्या: 1
23px

॥ अथ श्रीदुर्गा नक्षत्रमालिका स्तुतिः ॥

॥ ॐ श्री गणेशाय नमः ॥

विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन् मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ १॥

यशोदागर्भसम्भूतां नारायणवरप्रियाम् । नन्दगोपकुलेजातां मङ्गळ्यां कुलवर्धनीम् ॥ २॥

कंसविद्रावणकरीमसुराणां क्षयं करीम् । शिलातटविनिक्षिप्तामाकाशं प्रतिगामिनीम् ॥ ३॥

वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् । दिव्याम्बरधरां देवीं खद्गखेटकधारिणीम् ॥ ४॥

भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम् । तान्वै तारयसे पापात् पङ्केगामिव दुर्बलाम् ॥ ५॥

स्तोतुं प्रचक्रमे भूयः विविधैः स्तोत्रसम्भवैः । आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ ६॥

नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि । बालार्क सदृशाकारे पूर्णचन्द्रनिभानने ॥ ७॥

चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे । मयूरपिञ्छवलये केयूराङ्गदधारिणि ॥ ८॥

भासि देवि यथा पद्मा नारायणपरिग्रहः । स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ ९॥

कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना । बिभ्रती विपुलौ बाहु शक्रध्वजसमुछ्रयौ ॥ १०॥

पात्री च पङ्कजी कण्ठी स्त्री विशुद्धा च या भुवि । पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ ११॥

कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता । चन्द्रविस्पार्धिना देवि मुकेन त्वं विराजसे ॥ १२॥

मुकुटेन विचित्रेण केशबन्धेन शोभिना । भुजङ्गाऽभोगवासेन श्रोणिसूत्रेण राजता ॥ १३॥

विभ्राजसे च बद्धेन भोगेनेवेह मन्थरः । ध्वजेन शिखिपिञ्छानामुछ्रितेन विराजसे ॥ १४॥

कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया । तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ १५॥

त्रैलोक्य रक्षणार्थाय महिषासुर घातिनि । प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ १६॥

जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा । ममापि विजयं देहि वरदा त्वं च साम्प्रतम् ॥ १७॥

विन्ध्ये चैव नगश्रेष्ठे तवस्थानं हि शाश्वतम् । कालि कालि महाकालि शीधुमांस पशुप्रिये ॥ १८॥

कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि । भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥ १९॥

प्रणमन्ति च ये त्वां हि प्रयाणे तु नरा भुवि । न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा ॥ २०॥

दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः । कान्तारेष्व-वसन्नानां मग्नानां च महार्णवे ॥ २१॥

(दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ।) जलप्रतरणे चैव कान्तारेषु अवटेषु च । ये स्मरन्ति महादेवीं न च सीदन्ति ते नराः ॥ २२॥

त्वं कीर्तिः श्रीः धृतिः सिद्धिः ह्रीः विद्या सन्ततिर्मतिः । सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया ॥ २३॥

नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् । व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ २४॥

सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् । प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ २५॥

त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः । शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ २६॥

एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् । उपगम्य तु राजानमिदं वचनमब्रवीत् ॥ २७॥

श‍ृणु राजन् महाबाहो मदीयं वचनं प्रभो । भविष्यति अचिरादेव सङ्ग्रामे विजयस्तव ॥ २८॥

मम प्रसादात् निर्जित्य हत्वा कौरव वाहिनीम् । राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ २९॥

भ्रातृभिः सहितो राजन् प्रीतिं यास्यसि पुष्कलाम् । मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥ ३०॥

ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः । तेषां तुष्टा प्रदास्यामि राज्यमायुः वपुः सुतम् ॥ ३१॥

प्रवासे नगरे वापि सङ्ग्रामे शतृसङ्कटे । अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ ३२॥

ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता । न तेषां दुर्लभं किञ्चित् अस्मिन् लोके भविष्यति ॥ ३३॥

इदं स्तोत्रवरं भक्त्या श‍ृणुयात् वा फठेत वा । तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ॥ ३४॥

मत्प्रसादाच्च वस्सर्वान् विराटनगरे स्थितान् । न प्रज्ञास्यन्ति कुरवः नरा वा तन्निवासिनः ॥ ३५॥

इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् । रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥ ३६॥

इति श्रीदुर्गा नक्षत्रमालिकास्तुतिः समाप्ता । एवं इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि अष्टमोऽध्यायान्तर्गतं युधिष्ठिरकृतं श्रीदुर्गास्तवम् ।

॥ ॐ तत्सत्॥

पाठ जप: 0/108