சனாதன ஸ்தோத்திர மஞ்சரி
கீ₃தா
ஸனாதன தே³வ

.. ஸப்தஶ்லோகீ கீ³தா ..

॥ सप्तश्लोकी गीता ॥
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 5
23px

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्। य: प्रयाति त्यजन्देह स याति परमां गतिम् ॥ १ ॥

स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघा: ॥ २ ॥

सर्वत:पाणिपादं तत्सर्वतोSक्षिशिरोमुखम् । सर्वत:श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ३ ॥

कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्य: । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं  तमस: परस्तान् ॥ ४ ॥

ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ ५ ॥

सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ ६ ॥

मन्मना भव मद्भक्तो मद्याजी मां   नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायण:॥ ७ ॥

ஜப எண்ணிக்கை: 0/108