సనాతన స్తోత్ర నిధి
విష్ణు స్తోత్రమ్
సనాతన దేవ

.. స్తోత్రరత్నం ..

॥ स्तोत्ररत्नम् ॥
రచయిత: పారంపరిక వీక్షణలు: 1
23px

॥ श्री आलवन्दार-स्तोत्रम् ॥

श्रीमद्यामुनाचार्यविरचितम्

स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम् । स्तोत्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम् ॥

नमो नमो यामुनाय यामुनाय नमो नमः । नमो नमो यामुनाय यामुनाय नमो नमः ॥

नमो यामुनपादाब्जरेणुभिः पावितात्मने । विदिताखिल वेद्याय गुरवे विदितात्मने ॥

नमोऽचिन्त्याद्भुताक्लिष्ट ज्ञानवैराग्यराशये । नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे ॥ १॥

तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्व ज्ञानानुरागमहिमातिशयान्तसीम्ने । नाथाय नाथमुनयेऽत्र परत्र चापि नित्यं यदीयचरणौ शरणं मदीयम् ॥ २॥

भूयो नमोऽपरिमिताच्युतभक्तितत्त्व- ज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः । लोकेऽवतीर्णपरमार्थसमग्रभक्ति- योगाय नाथमुनये यमिनां वराय ॥ ३॥

तत्त्वेन यश्चिदचिदीश्वरतत्स्वभाव भोगापवर्गतदुपायगतीरुदारः । सन्दर्शयन्निरममीत पुराणरत्नं तस्मै नमो मुनिवराय पराशराय ॥ ४॥

माता पिता युवतयस्तनया विभूति- स्सर्वं यदेव नियमेन मदन्वयानाम् । आद्यस्य नः कुलपतेर्वकुलाभिरामं श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ ५॥

यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मि- न्नस्मन्मनोरथपथस्सकलस्समेति । स्तोष्यामि नः कुलधनं कुलदैवतं त- त्पादारविन्दमरविन्दविलोचनस्य ॥ ६॥

तत्त्वेन यस्य महिमार्णवशीकराणु- श्शक्यो न मातुमपि शर्वपितामहाद्यैः । कर्तुं तदीयमहिमस्तुतिमुद्यताय मह्यं नमोऽस्तु कवये निरपत्रपाय ॥ ७॥

यद्वा श्रमावधि यथामति वाप्यशक्त- स्स्तौम्येवमेव खलु तेऽपि सदा स्तुवन्तः । वेदाश्चतुर्मुखमुखाश्च महार्णवान्तः को मज्जतोरणुकुलाचलयोर्विशेषः ॥ ८॥

किञ्चैष शक्त्यतिशयेन न तेऽनुकम्प्य- स्स्तोतापि तु स्तुतिकृतेन परिश्रमेण । तत्र श्रमस्तु सुलभो मम मन्दबुद्धे- रित्युद्यमोऽयमुचितो मम चाब्जनेत्र ॥ ९॥

नावेक्षसे यदि ततो भुवनान्यमूनि नालं प्रभो भवितुमेव कुतः प्रवृत्तिः । एवं निसर्गसुहृदि त्वयि सर्वजन्तो- स्स्वामिन्विचित्रमिदमाश्रितवत्सलत्वम् ॥ १०॥

स्वाभाविकानवधिकातिशयेशितृत्वं नारायण त्वयि न मृष्यति वैदिकः कः । ब्रह्मा शिवश्शतमखः परमस्वराडि- त्येतेऽपि यस्य महिमार्णवविप्रुषस्ते ॥ ११॥

कश्श्रीश्श्रियः परमसत्त्वसमाश्रयः कः कः पुण्डरीकनयनः पुरुषोत्तमः कः । कस्यायुतायुतशतैककलांशकांशे विश्वं विचित्रचिदचित्प्रविभागवृत्तम् ॥ १२॥

वेदापहारगुरुपातकदैत्यपीडा- द्यापद्विमोचनमहिष्ठफलप्रदानैः । कोऽन्यः प्रजापशुपतिः परिपाति कस्य पादोदकेन स शिवस्स्वशिरोधृतेन ॥ १३॥

कस्योदरे हरविरिञ्चिमुखः प्रपञ्चः को रक्षतीममजनिष्ट च कस्य नाभेः । क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः कः केन चैष परवानिति शक्यशङ्कः ॥ १४॥

त्वां शीलरूपचरितैः परमप्रकृष्ट- सत्त्वेन सात्विकतया प्रबलैश्च शास्त्रैः । प्रख्यातदैवपरमार्थविदां मतैश्च नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम् ॥ १५॥

उल्लङ्घितत्रिविधसीमसमातिशायि- सम्भावनं तव परिव्रढिमस्वभावम् । मायाबलेन भवताऽपि निगूह्यमानं पश्यन्ति केचिदनिशं त्वदनन्यभावाः ॥ १६॥

यदण्डमण्डान्तरगोचरं च यद्द- शोत्तराण्यावरणानि यानि च । गुणाः प्रधानं पुरुषः परम्पदं परात्परं ब्रह्म च ते विभूतयः ॥ १७॥

वशी वदान्यो गुणवानृजुश्शुचि- र्मृदुर्दयालुर्मधुरस्स्थिरस्समः । कृती कृतज्ञस्त्वमसि स्वभावत- स्समस्तकल्याणगुणामृतोदधिः ॥ १८॥

उपर्युपर्यब्जभुवोऽपि पूरुषा- न्प्रकल्प्य ते ये शतमित्यनुक्रमात् । गिरस्त्वदेकैकगुणावधीप्सया सदास्थिता नोद्यमतोऽतिशेरते ॥ १९॥

त्वदाश्रितानां जगदुद्भवस्थिति- प्रणाशसंसारविमोचनादयः । भवन्ति लीलाविधयश्च वैदिका- स्त्वदीयगम्भीरमनोऽनुसारिणः ॥ २०॥

नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये । नमो नमोऽनन्तमहाविभूतये नमो नमोऽनन्तदयैकसिन्धवे ॥ २१॥

न धर्मनिष्ठोऽस्मि न चात्मवेदी न भक्तिमांस्त्वच्चरणारविन्दे । अकिञ्चनोऽनन्यगतिश्शरण्यः त्वत्पादमूलं शरणं प्रपद्ये ॥ २२॥

न निन्दितं कर्म तदस्ति लोके सहस्रशो यन्न मया व्यधायि । सोऽहं विपाकावसरे मुकुन्द क्रन्दामि सम्प्रत्यगतिस्तवाग्रे ॥ २३॥

निमज्जतोऽनन्तभवार्णवान्त- श्चिराय मे कूलमिवासि लब्धः । त्वयापि लब्धं भगवन्निदानी- मनुत्तमं पात्रमिदं दयायाः॥ २४॥

अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम् । किन्तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरूपः ॥ २५॥

निरासकस्यापि न तावदुत्सहे महेश हातुं तव पादपङ्कजम् । रूषा निरस्तोऽपि शिशुस्स्तनन्धयो न जातु मातुश्चरणौ जिहासति ॥ २६॥

तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति । स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ॥ २७॥

त्वदङ्घ्रिमुद्दिश्य कदापि केनचि- द्यथा तथा वाऽपि सकृत्कृतोऽञ्चलिः । तदैव मुष्णात्यशुभान्यशेषत- श्शुभानि पुष्णाति न जातु हीयते ॥ २८॥

उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्व्याप्य परां च निर्वृतिम् । प्रयच्छति त्वच्चरणारुणाम्बुज- द्वयानुरागामृतसिन्धुशीकरः ॥ २९॥

विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम् । धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि चक्षुषा ॥ ३०॥

कदा पुनश्शङ्खरथाङ्गकल्पक ध्वजारविन्दाङ्कुशवज्रलाञ्छनम् । त्रिविक्रम त्वच्चरणाम्बुजद्वयं मदीयमूर्धानमलङ्करिष्यति ॥ ३१॥

विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविम् । निमग्ननाभिं तनुमध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणम् ॥ ३२॥

चकासतं ज्याकिणकर्कशैश्शुभै- श्चतुर्भिराजानुविलम्बिभिर्भुजैः । प्रियावतंसोत्पलकर्णभूषण- श्लथालकाबन्धविमर्दशंसिभिः ॥ ३३॥

उदग्रपीनांसविलम्बिकुण्डला- लकावलीबन्धुरकम्बुकन्धरम् । मुखश्रिया न्यक्कृतपूर्णनिर्मला- मृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियम् ॥ ३४॥

प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम् । शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकम् ॥ ३५॥

स्फुरत्किरीटाङ्गदहारकण्ठिका मणीन्द्रकाञ्जीगुणनूपुरादिभिः । रथाङ्गशङ्खासिगदाधनुर्वरै- र्लसत्तुलस्यावनमालयोज्ज्वलम् ॥ ३६॥

चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः । जगत्समस्तं यदपाङ्गसंश्रयं यदर्थमम्भोधिरमन्थ्यबन्धि च ॥ ३७॥

स्ववैश्वरूप्येण सदाऽनुभूतया- प्यपूर्ववद्विस्मयमादधानया । गुणेन रूपेण विलासचेष्टितै- स्सदा तवैवोचितया तव श्रिया॥ ३८॥

तया सहासीनमनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि । फणामणिव्रातमयूखमण्डल- प्रकाशमानोदरदिव्यधामनि ॥ ३९॥

निवासशय्यासनपादुकांशुको- पधानवर्षातपवारणादिभिः । शरीरभेदैस्तव शेषतां गतै- र्यथोचितं शेष इतीर्यते जनैः ॥ ४०॥

दासस्सखा वाहनमासनं ध्वजो- यस्ते वितानं व्यजनं त्रयीमयः । उपस्थितं तेन पुरो गरुत्मता त्वदङ्घ्रिसम्मर्दकिणाङ्कशोभिना ॥ ४१॥

त्वदीयभुक्तोज्झितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा । प्रियेण सेनापतिना न्यवेदि तत्त- थाऽनुजानन्तमुदारवीक्षणैः ॥ ४२॥

हताखिलक्लेशमलैस्स्वभावत- स्सदानुकूल्यैकरसैस्तवोचितैः । गृहीततत्तत्परिचारसाधनै- र्निषेव्यमाणं सचिवैर्यथोचितम् ॥ ४३॥

अपूर्वनानारसभावनिर्भर- प्रबुद्धया मुग्धविदग्धलीलया । क्षणाणुवत्क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजम् ॥ ४४॥

अचिन्त्यदिव्याद्भुतनित्ययौवन- स्वभावलावण्यमयामृतोदधिम् । श्रियश्श्रियं भक्तजनैकजीवितं समर्थमापत्सस्खमर्थिकल्पकम् ॥ ४५॥

भवन्तमेवानुचरन्निरन्तर- प्रशान्तनिश्शेषमनोरथान्तरः । कदाहमैकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः ॥ ४६॥

धिगशुचिमविनीतं निर्दयं मामलज्जं परमपुरुष योऽहं योगिवर्याग्रगण्यैः । विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरं तव परिजनभावं कामये कामवृत्तः ॥ ४७॥

अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे । अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ ४८॥

अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखवर्षिणि । भगवन्भवदुर्दिने पथ- स्खलितं मामवलोकयाच्युत ॥ ४९॥

न मृषा परमार्थमेव मे श‍ृणु विज्ञापनमेकमग्रतः । यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ दुर्लभः ॥ ५०॥

तदहं त्वदृते न नाथवा- न्मदृते त्वं दयनीयवान्न च । विधिनिर्मितमेतदन्ययं भगवन्पालय मा स्म जीहपः  ॥ ५१॥

वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथातथाविधः । तदयं तव पादपद्मयो- रहमद्यैव मया समर्पितः ॥ ५२॥

मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव । नियतस्वमिति प्रबुद्धधी- रथवा किन्नु समर्पयामि ते ॥ ५३॥

अवबोधितवानिमां यथा मयि नित्यां भवदीयतां स्वयम् । कृपयैवमनन्यभोग्यतां भगवन्भक्तिमपि प्रयच्छ मे ॥ ५४॥

तवदास्यसुखैकसङ्गिनां भवनेष्वस्त्वपि कीटजन्म मे । इतरावसथेषु मास्म भू- दपि मे जन्म चतुर्मुखात्मना ॥ ५५॥

सकृत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः । महात्मभिर्मामवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुस्सहः ॥ ५६॥

न देहं न प्राणान्न च सुखमशेषाभिलषितं न चात्मानं नान्यत्किमपि तव शेषत्वविभवात् । बहिर्भूतं नाथ क्षणमपि सहे यातु शतथा विनाशं तत्सत्यं मधुमथन विज्ञापनमिदम् ॥ ५७॥

दुरन्तस्यानादेरपरिहरणीयस्य महतो विहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि । दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे । तव स्मारं स्मारं गुणगणमितीच्छामि गतभीः ॥ ५८॥

अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रज- स्तमश्छन्नच्छद्मस्तुतिवचनभङ्गीमरचयम् । तथापीत्थं रूपं वचनमवलम्ब्यापि कृपया त्वमेवैवं भूतं धरणिधर मे शिक्षय मनः ॥ ५९॥

पिता त्वं माता त्वं दयित तनयस्त्वं प्रियसुहृ- त्त्वमेव त्वं मित्रं गुरुरसि गतिश्चासि जगताम् । त्वदीयस्त्वद्भृत्यस्तव परिजनस्त्वद्गतिरहं प्रपन्नश्चैवं सत्यहमपि तवैवास्मि हि भरः ॥ ६०॥

जनित्वाऽहं वंशे महति जगति ख्यातयशसां शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम् । निसर्गादेव त्वच्चरणकमलैकान्तमनसा- मधोधः पापात्मा शरणद निमज्जामि तमसि ॥ ६१॥

अमर्यादः क्षुद्रश्चलमतिरसूयाप्रसवभूः कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः । नृशंसः पापिष्टः कथमहमितो दुःखजलधे- रपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥ ६२॥

रघुवर यदभूस्त्वं तादृशो वायसस्य प्रणत इति दयालुर्यच्च चैद्यस्य कृष्णः । प्रतिभवमपराद्धुर्मुग्धसायुज्यदोऽभू- र्वद किमपदमागस्तस्य तेऽस्ति क्षमायाः ॥ ६३॥

ननु प्रपन्नस्सकृदेव नाथ तवाहमस्मीति च याचमानः । तवानुकम्प्यस्स्मरतः प्रतिज्ञां मदेकवर्जं किमिदं व्रतं ते ॥ ६४॥

अकृत्रिमत्वच्चरणारविन्द- प्रेमप्रकर्षावधिमात्मवन्तम् । पितामहं नाथमुनिं विलोक्य प्रसीद मद्वृत्तमचिन्तयित्वा ॥ ६५॥

यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः । वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥ ६६॥

॥ इति श्रीमद्यामुनमुनिविरचितं श्रीआलवन्दार-स्तोत्रम् सम्पूर्णम् ॥

జప గణన: 0/108