সনাতন দেব
॥ শ্রীগণপতিস্মরণম্ ॥
॥ श्रीगणपतिस्मरणम् ॥
॥ श्रीगणपतिस्मरणम् ॥
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ। निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥ सजयति सिन्धुरवदनो देवो यत्पादपंकजस्मरणम्। वासरमणिरिव तमसा राशिं नाशयति विघ्नानाम्॥ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः॥१॥ धूम्रकेतुर्गणाध्यक्षोभालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेत् शृणुयादपि ॥२॥ विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा। संग्रामे संकटे चैव विघ्नस्तस्य न जायते॥३॥ शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये॥४॥ नमस्तस्मै गणेशाय ब्रह्मविद्याप्रदायिने। यस्यागस्त्यायते नाम विघ्नसागरशोषणे॥५॥ यन्नामग्रहणाद्देवा अपि मंगलमाप्नुवन् । ऋद्धिसिद्ध्योः प्रदातारं तं नमामि गजाननम् ॥६॥
॥ इति श्रीगणपतिस्मरणम् ॥