ஶ்ரீது³ர்கா³த்⁴யானம்
श्रीदुर्गाध्यानम्
जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् । लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् ॥ १॥
अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् । नवयौवनसम्पन्नां सर्वाभरणभूषिताम् ॥ २॥
सुचारुदशनां तद्वत् पीनोन्नतपयोधराम् । त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् ॥ ३॥
मृणालायतसंस्पर्शदशबाहुसमन्विताम् । त्रिशूलं दक्षिणे पाणौ खड्गं चक्रं क्रमादधः ॥ ४॥
तीक्ष्णबाणं तथा शक्तिं दक्षिणे सन्निवेशयेत् । खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च ॥ ५॥
घण्टां वा परशुं वापि वामतः सन्निवेशयेत् । अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् ॥ ६॥
शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् । हृदि शूलेन निर्भिन्नं निर्यदन्त्रविभूषितम् ॥ ७॥
रक्तरक्तीकृताङ्गञ्च रक्तविस्फुरितेक्षणम् । वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ॥ ८॥
सपाशवामहस्तेन धृतकेशञ्च दुर्गया । वमद्रुधिरवक्त्रञ्च देव्याः सिंहं प्रदर्शयेत् ॥ ९॥
देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् । किञ्चिदूर्द्ध्वं तथा वाममङ्गुष्ठं महिषोपरि ॥ १०॥
शत्रुक्षयकरीं देवीं दैत्यदानवदर्पहाम् । प्रसन्नवदनां देवीं सर्व्वकामफलप्रदाम् । स्तूयमानञ्च तद्रूपममरैः सन्निवेशयेत् ॥ ११॥
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका । चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥ १२॥
आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् । चिन्तयेत् सततं दुर्गां धर्मकामार्थमोक्षदाम् ॥ १३॥
इति श्रीदुर्गाध्यानम् ।