अन्नपूर्णास्तोत्रम्
मन्दारकल्पहरिचन्दनपारिजात-
मध्ये शशाङ्कमणिमण्डितवेदिसंस्थे ।
अर्धेन्दुमौलिसुललाटषडर्धनेत्रे
भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ १॥
केयूरहारकटाङ्गद कर्णपूरे
काञ्ची कलापमणिकान्तलसद्दुकूले ।
दुग्धाऽन्नपात्रवरकाञ्चनदर्विहस्ते
भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ २॥
आलीकदम्बपरिसेवितपार्श्वभागे
शक्रादिभिमुकुलिताञ्जलिभिः पुरस्तात् ।
देवि! त्वदीयचरणौ शरणं प्रपद्ये
भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ ३॥
गन्धर्वदेवऋषिनारदकौशिकाऽत्रि
व्यासाऽम्वरीष कलशोद्भव कश्यपाद्याः ।
भक्त्या स्तुवन्ति निगमाऽऽगमसूक्तमन्त्रै
र्भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ ४॥
लीलावचांसि तव देवि! ऋगादिवेदाः
सृष्ट्यादिकर्मरचना भवदीयचेष्टा ।
त्वत्तेजसा जगदिदं प्रतिभाति नित्यं
भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ ५॥
शब्दात्मिके शशिकलाभरणार्धदेहे
शम्भोरुरस्थल निकेतन नित्यवासे ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ ६॥
सन्ध्यात्रये सकलभूसुरसेव्यमाने
स्वाहा स्वधामि पितृदेवगणार्तिहन्त्री ।
जायाः सुताः परिजनातिथयोऽन्नकामाः
भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ ७॥
सद्भक्तकल्पलतिके भुवनैकवन्द्ये
भूतेश हृत्कमलमग्न कुचाग्रभृङ्गे
कारुण्यपूर्णनयने किमुपेक्षसे मां
भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ ८॥
अम्ब! त्वदीय चरणाम्बुजसंश्रयेण
व्रह्मादयोऽप्यविकलां श्रियमाश्रयन्ते ।
तस्मादहं तव नतोऽस्मि पदारविन्दं
भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ ९॥
एकाग्रमूलनिलयस्य महेश्वरस्य
प्राणेश्वरी प्रणतभक्तजनाय शीघ्रम् ।
कामाक्षिरक्षितजगत्त्रितयेऽन्नपूर्णे!
भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॥ १०॥
भक्त्या पठन्ति गिरिजादशकं प्रभाते
मोक्षार्थिनो बहुजनाः प्रथितोऽन्नकामाः ।
प्रीता महेशवनिता हिमशैलकन्या
तेषां ददाति सुतरां मनसेप्सितानि ॥ ११॥
इति श्रीशङ्कराचार्यविरचितमन्नपूर्णास्तोत्रम्