ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
Aadi Shankaracharya
ಸನಾತನ ದೇವ

.. ಗುರ್ವಷ್ಟಕಂ ..

॥ गुर्वष्टकम् ॥
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 8
ಲಿಪಿಯನ್ನು ಆಯ್ಕೆಮಾಡಿ: देवनागरी (संस्कृत)
14px

शरीरं सुरूपं तथा वा कलत्रं यशश्चारु चित्रं धनं मेरुतुल्यम्। मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम्॥१॥

कलत्रं धनं पुत्रपौत्रादिसर्वं गृहं बान्धवाः सर्वमेतद्धि जातम्। मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम्॥२॥

षडङ्गादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति। मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम्॥३॥

विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः। मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम्॥४॥

क्षमामण्डले भूपभूपालबृन्दैः सदा सेवितं यस्य पादारविन्दम्। मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम्॥५॥

यशो मे गतं दिक्षु दानप्रतापात् जगद्वस्तुसर्वं करे यत्प्रसादात्। मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम्॥६॥

न भोगे न योगे न वा वाजिराजौ न कन्तामुखे नैव वित्तेषु चित्तम्। मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम्॥७॥

अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्घ्ये। मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम्॥८॥

गुरोरष्टकं यः पठेत्पुण्यदेही यतिर्भूपतिर्ब्रह्मचारी च गेही। लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं गुरोरुक्तवाक्ये मनो यस्य लग्नम्॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं श्री गुर्वष्टकं सम्पूर्णम्॥

ಜಪ ಎಣಿಕೆ: 0/108