સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

.. શ્રીમદ્વરવરમુનિ અષ્ટોત્તરશતનામાવલિઃ ..

॥ श्रीमद्वरवरमुनि अष्टोत्तरशतनामावलिः ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 3
23px

॥ श्रीमदरवरमुन्यष्टोत्तरशतनामावलिः ॥

ॐ श्रीशैलेशदयापात्राय नमः। ॐ धीभक्त्यादिगुणार्णवाय नमः ॐ यतीन्द्रप्रवणाय नमः ॐ वन्द्याय नमः ॐ रम्यजामातृयोगिराजे नम: ॐ यतीन्द्रापरपर्यायाय नम: ॐ पर्यायभुजगेश्वराय नम: ॐ वाचस्पतये नमः ॐ विशदवाक्चूडामणये नम: ॐ अप्रमेयधिये नम: १० ॐ श्रीमत्परमहंसार्याय नमः ॐ तत्त्वज्ञानविवर्धनाय नम: ॐ यथाभूतार्थकथनाय नमः ॐ यथादृष्टार्थबोधनाय नम: ॐ यथार्थसूक्तिनिवहाय नम: ॐ यथार्थानुग्रहोदयाय नमः ॐ त्रिदण्डमण्डनाय नम: ॐ सौम्यशिखावते नमः ॐ शोभनाकृतये नमः ॐ सर्वसौहार्दनिलयाय नम: २० ॐ सुमुखाय नमः ॐ सौख्यदायकाय नमः ॐ जयप्रदमहासूक्तये नमः ॐ जयशीलाय नमः ॐ जगद्गुरवे नमः ॐ तेजोनिधानवदनाय नमः ॐ तेजिष्ठाय नमः ॐ तीर्थपावनाय नमः ॐ क्षेत्रयात्रापवित्रात्मने नमः ॐ क्षेत्रक्षेत्रमविवर्धनाय नम: ३० ॐ सिद्धशासननिष्ठात्मने नमः ॐ सिद्धसर्वार्थसंचयाय नमः ॐ सिद्धिदाय नमः ॐ शुद्धहृदयाय नमः ॐ विशुद्धवपुषे नमः ॐ उज्ज्वलाय नमः ॐ अमन्दानन्दसंदोहसन्दायकवचोमृताय नमः ॐ अमृतप्रायवाग्गुम्भविवशीकृतरङ्गराजे नमः ॐ जगद्गुरुगुणस्तोमविशदीकरणप्रभवे नमः ॐ गुणैकदर्शिने नमः ४० ॐ गुढार्थव्याख्यात्रे नमः ॐ वाक्यतत्त्वविदे नमः ॐ विद्वद्वरेण्यसंस्तुत्यविमलोदयभाषणाय नमः ॐ जात्याश्रयनिमित्तादिदुष्टान्नपरिहारकाय नमः ॐ सर्वश्रमापहायुक्तये नमः ॐ समदर्शिने नमः ॐ सतां निधये नमः ॐ रजस्तमोविदूरात्मने नमः ॐ शुद्धसात्विकविग्रहाय नम: ॐ पद्मपाणये नमः ५० ॐ पद्मवक्त्त्राय नमः ॐ पवित्रधिये नमः ॐ दुर्गुणध्वान्तसंहर्त्रे नम: ॐ सद्गुणस्तोमशेवधये नमः ॐ श्रीपादतीर्थसंदानसमुज्जीवितचेतनाय नमः ॐ चैतन्यस्तन्यसंदानसंवर्धितमहीतलाय नम: ॐ कृत्स्नभूमण्डलव्यापिदिव्यकीर्तिसमुज्ज्वलाय नमः ॐ स्वपादरेखारूपश्रीतोताद्रिमुनिसंस्तुताय नमः ॐ अविज्ञातवृथाजल्पाय नमः ॐ सुविज्ञातार्थपञ्चकाय नमः ६० ॐ अविज्ञातनरस्तोत्राय नमः ॐ सुविज्ञातगुरुस्तुतये नमः ॐ गरिष्ठगोष्ठयधिष्ठात्रे नमः ॐ गरीयसे नमः ॐ गाढभक्तिदाय नमः ॐ रङ्गनाथमुखोदञ्चन्मङ्गलश्लोकसंस्तुताय नमः ॐ वादिभीतिकराचार्यसदाचार्याय नमः ॐ सदाश्रयाय नमः ॐ त्रैगुण्यसंगरहिताय नम: ७० ॐ त्रय्यन्तपरिपोषकाय नम: ॐ भगवद्गुणविद्धात्मने नमः ॐ भक्तिभूषाय नमः ॐ अभिरामवाचे नमः ॐ स्वरूपानुगुणोपायनिष्कर्षिणे नमः ॐ निस्समानधिये नमः ॐ निस्समाभ्यधिकाय नमः ॐ नेत्रे नमः ॐ निष्कृष्टज्ञानसागराय नमः ॐ उत्कृष्टजन्मनिष्कर्षिणे नम: ८० ॐ निष्कर्षध्याननिष्टधिये नमः ॐ शीतलोदारहृदयाय नमः ॐ हार्दभक्त्यमृतार्णवाय नम: ॐ अर्णवादपिगम्भीराय नमः ॐ दम्भसूयादविष्ठहृदे नमः ॐ शास्त्रतात्पर्यनिर्णेत्रे नम: ॐ शास्त्रविश्वासवर्धनाय नम: ॐ सर्वसंपत्परित्यागिने नमः ॐ पारमैकान्त्यभूषणाय नमः ॐ सुदृढाध्यवसायाढयाय नमः ९० ॐ सुप्रतिष्ठितदर्शनाय नमः ॐ गुणानुभवकैंकर्यनैयत्यनियताग्रण्ये नमः ॐ आचार्यप्रेमसम्पत्तिसमुज्ज्वलितमानसाय नमः ॐ आभ्यन्तरदृढप्रेम्णे नमः ॐ बाह्याडम्बरवर्जिताय नमः ॐ सर्वप्रमाणसग्राहिणे नमः ॐ सर्वभूतसुहृत्तमाय नमः ॐ सर्वपापफलध्वंसिने नमः ॐ सर्वपुण्यफलप्रदाय नमः ॐ सर्वदेशदशाकालसमिन्धानयशसे नमः १०० ॐ सर्वदेवालस्तोमसमुद्घोषितवैभवाय नमः ॐ सत्सम्प्रदायसिद्धान्तसम्बर्धनविचक्षणाय नमः ॐ सर्वदेवालयाराध्यदिव्यमङ्गलविग्रहाय नमः ॐ सर्वशास्त्रार्थवैशद्यसमुत्पादकसूक्तिदाय नमः ॐ सर्वसूरिगणांशात्मने नमः ॐ सर्वविज्ञानसागराय नमः ॐ सर्वाचार्यसमुत्तुङ्गाय नमः ॐ सर्वरक्षकरक्षकाय नमः १०८  

॥ इति श्रीमद्वरवरमुनि अष्टोत्तरशतनामावलिः ॥

પાઠ જપ: 0/108