சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீமஹாக³ணபதி மந்த்ரவிக்³ரஹகவசம்

श्रीमहागणपति मन्त्रविग्रहकवचम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px
श्रीमहागणपति मन्त्रविग्रहकवचम् ॐ अस्य श्रीमहागणपतिमन्त्रविग्रहकवचस्य । श्रीशिव ऋषिः । देवीगायत्री छन्दः । श्री महागणपतिर्देवता । ॐ श्रीँ ह्रीँ क्लीँ ग्लौँ गँ बीजानि । गणपतये वरवरदेति शक्तिः । सर्वजनं मे वशमानय स्वाहा कीलकम् । श्री महागणपतिप्रसादसिद्ध्यते जपे विनियोगः । ॐ श्रीँ ह्रीँ क्लीँ अङ्गुष्ठाभ्यां नमः - हृदयाय नमः । ग्लौँ गँ गणपतये तर्जनीभ्यां नमः - शिरसे स्वाहा । वरवरद मध्यमाभ्यां नमः - शिखायै वषट् । सर्वजनं मे अनामिकाभ्यां नमः - कवचाय हुँ । वशमानय कनिष्ठिकाभ्यां नमः - नेत्रत्रयाय वौषट् । स्वाहा करतल करपृष्ठाभ्यां नमः - अस्त्राय फट् । ध्यानम् - बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः । पायाद्वल्लभया सपद्मकरयाश्लिष्टोज्वलद्भूषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः । (इति ध्यात्वा । लँ इत्यादि मानसोपचारैः सम्पूजयेत्) ॐ ओङ्कारो मे शिरः पातु श्रीँकारः पातु भालकम् । ह्रीँ बीजं मे ललातेऽव्यात् क्लीँ बीजं भ्रूयुगं मम ॥ १॥ ग्लौँ बीजं नेत्रयोः पातु गँ बीजं पातु नासिकाम् । गँ बीजं मुखपद्मेऽव्याद् महासिद्धिफलप्रदम् ॥ २॥ णकारो दन्तयोः पातु पकारो लम्बिकां मम । तकारः पातु मे ताल्वोर्येकार ओष्ठयोर्मम ॥ ३॥ वकारः कण्ठदेशेऽव्याद् रकारश्चोपकण्ठके । द्वितीयस्तु वकारो मे हृदयं पातु सर्वदा ॥ ४॥ रकारस्तु द्वितीयो वै उभौ पार्श्वौ सदा मम । दकार उदरे पातु सकारो नाभिमण्डले ॥ ५॥ र्वकारः पातु मे लिङ्गं जकारः पातु गुह्यके । नकारः पातु मे जङ्घे मेकारो जानुनोर्द्वयोः ॥ ६॥ वकारः पातु मे गुल्फौ शकारः पादयोर्द्वयोः । माकारस्तु सदा पातु दक्षपादाङ्गुलीषु च ॥ ७॥ नकारस्तु सदा पातु वामपादाङ्गुलीषु च । यकारो मे सदा पातु दक्षपादतले तथा ॥ ८॥ स्वाकारो ब्रह्मरूपाख्यो वामपादतले तथा । हाकारः सर्वदा पातु सर्वाङ्गे गणपः प्रभुः ॥ ९॥ पूर्वे मां पातु श्रीरुद्रः श्रीँ ह्रीँ क्लीँ फट् कलाधरः । आग्नेय्यां मे सदा पातु ह्रीँ श्रीँ क्लीँ लोकमोहनः ॥ १०॥ दक्षिणे श्रीयमः पातु क्रीँ ह्रँ ऐँ ह्रीँ ह्स्रौँ नमः । नैरृत्ये निरृतिः पातु आँ ह्रीँ क्रोँ क्रोँ नमो नमः ॥ ११॥ पश्चिमे वरुणः पातु श्रीँ ह्रीँ क्लीँ फट् ह्स्रौँ नमः । वायुर्मे पातु वायव्ये ह्रूँ ह्रीँ श्रीँ ह्स्फ्रेँ नमो नमः ॥ १२॥ उत्तरे धनदः पातु श्रीँ ह्रीँ श्रीँ ह्रीँ धनेश्वरः । ईशान्ये पातु मां देवो ह्रौँ ह्रीँ जूँ सः सदाशिवः ॥ १३॥ प्रपन्नपारिजाताय स्वाहा मां पातु ईश्वरः । ऊर्ध्वं मे सर्वदा पातु गँ ग्लौँ क्लीँ ह्स्रौँ नमो नमः ॥ १४॥ अनन्ताय नमः स्वाहा अधस्ताद्दिशि रक्षतु । पूर्वे मां गणपः पातु दक्षिणे क्षेत्रपालकः ॥ १५॥ पश्चिमे पातु मां दुर्गा ऐँ ह्रीँ क्लीँ चण्डिका शिवा । उत्तरे वटुकः पातु ह्रीँ वँ वँ वटुकः शिवः ॥ १६॥ स्वाहा सर्वार्थसिद्धेश्च दायको विश्वनायकः । पुनः पूर्वे च मां पातु श्रीमानसितभैरवः ॥ १७॥ आग्नेय्यां पातु नो ह्रीँ ह्रीँ हृँ क्रोँ क्रोँ रुरुभैरवः । दक्षिणे पातु मां क्रौँ क्रोँ ह्रैँ ह्रैँ मे चण्डभैरवः ॥ १८॥ नैरृत्ये पातु मां ह्रीँ हूँ ह्रौँ ह्रौँ ह्रीँ ह्स्रैँ नमो नमः । स्वाहा मे सर्वभूतात्मा पातु मां क्रोधभैरवः ॥ १९॥ पश्चिमे ईश्वरः पातु क्रीँ क्लीँ उन्मत्तभैरवः । वायव्ये पातु मां ह्रीँ क्लीँ कपाली कमलेक्षणः ॥ २०॥ उत्तरे पातु मां देवो ह्रीँ ह्रीँ भीषणभैरवः । ईशान्ये पातु मां देवः क्लीँ ह्रीँ संहारभैरवः ॥ २१॥ ऊर्ध्वं मे पातु देवेशः श्रीसम्मोहनभैरवः । अधस्ताद् वटुकः पातु सर्वतः कालभैरवः ॥ २२॥ इतीदं कवचं दिव्यं ब्रह्मविद्याकलेवरम् । गोपनीयं प्रयत्नेन यदीच्छेदात्मनः सुखम् ॥ २३॥ कवचस्य च दिव्यस्य सहस्रावर्तनान्नरः । देवतादर्शनं सद्यो लभते न विचारणा ॥ २४॥ इति श्रीमहागणपति मन्त्रविग्रहकवचम् ।
ஜப எண்ணிக்கை: 0/108