सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीमहागणपतिवज्रपञ्जरकवचम्

stotra-ebfab513
रचयिता: पारंपरिक पाठ संख्या: 1
23px

श्रीमहागणपतिवज्रपञ्जरकवचम्

॥ पूर्वपीठिका ॥ महादेवि गणेशस्य वरदस्य महात्मनः । कवचं ते प्रवक्ष्यामि वज्रपञ्जरकाभिधम् ॥ ॥ विनियोगः ॥ ॐ अस्य श्रीमहागणपतिवज्रपञ्जरकवचस्य श्रीभैरव ऋषिः, गायत्रं छन्दः, श्रीमहागणपति देवता, गं बीजं, ह्रीं शक्तिः, कुरु कुरु कीलकं, वज्रविद्यादिसिद्ध्यर्थे महागणपतिवज्रपञ्जरकवचपाठे विनियोगः ॥ ॥ ऋष्यादिन्यासः ॥ श्रीभैरवर्षये नमः शिरसि । गायत्रछन्दसे नमो मुखे । श्रीमहागणपतिदेवतायै नमो हृदि । गं बीजाय नमो गुह्ये । ह्रींशक्तये नमो नाभौ । कुरु कुरु कीलकाय नमः पादयोः । वज्रविद्यादिसिद्ध्यर्थे महागणपतिवज्रपञ्जरकवचपाठे विनियोगाय नमः सर्वाङ्गे ॥ ॥ करन्यासः ॥ गां अङ्गुष्ठाभ्यां नमः । गीं तर्जनीभ्यां नमः । गूं मध्यमाभ्यां नमः । गैं अनामिकाभ्यां नमः । गौं कनिष्ठिकाभ्यां नमः । गः करतलकरपृष्ठाभ्यां नमः ॥ ॥ अङ्गन्यासः ॥ गां हृदयाय नमः । गीं शिरसे स्वाहा । गूं शिखायै वषट् । गैं कवचाय हुम् । गौं नेत्रत्रयाय वौषट् । गः अस्त्राय फट् ॥ ॥ ध्यानम् ॥ विघ्नेशं विश्ववन्द्यं सुविपुलयशसं लोकरक्षाप्रदक्षं साक्षात्सर्वापदासु प्रशमनसुमतिं पार्वतीप्राणसूनुम् । प्रायः सर्वासुरेन्द्रैः ससुरमुनिगणैः साधकैः पूज्यमानं कारुण्येनान्तरायामितभयशमनं विघ्नराजं नमामि ॥ ॥ कवचपाठः ॥ ॐ श्रीं ह्रीं गं शिरः पातु महागणपतिः प्रभुः । विनायको ललाटं मे विघ्नराजो भ्रुवौ मम ॥ १॥ पातु नेत्रे गणाध्यक्षो नासिकां मे गजाननः । श्रुती मेऽवतु हेरम्बो गण्डौ मे मोदकाशनः ॥ २॥ द्वैमातुरो मुखं पातु चाधरौ पात्वरिन्दमः । दन्तान्ममैकदन्तोऽव्याद्वक्रतुण्डोऽवताद्रसाम् ॥ ३॥ गाङ्गेयो मे गलं पातु स्कन्धौ सिंहासनोऽवतु । विघ्नान्तको भुजौ पातु हस्तौ मूषकवाहनः ॥ ४॥ ऊरू ममावतान्नित्यं देवस्त्रिपुरघातनः । हृदयं मे कुमारोऽव्याज्जयन्तः पार्श्वयुग्मकम् ॥ ५॥ प्रद्युम्नो मेऽवतात्पृष्ठं नाभिं शङ्करनन्दनः । कटिं नन्दिगणः पातु शिश्नं विश्वेश्वरोऽवतु ॥ ६॥ मेढ्रे मेऽवतु सौभाग्यो भृङ्गिरीटी च गुह्यकम् । विराटकोऽवतादूरू जानू मे पुष्पदन्तकः ॥ ७॥ जङ्घे मम विकर्तोऽव्याद्गुल्फावन्त्यगणोऽवतु । पादौ चित्तगणः पातु पादाधो लोहितोऽवतु ॥ ८॥ पादपृष्ठं सुन्दरोऽव्यान्नूपुराढ्यो वपुर्मम । विचारो जठरं पातु भूतानि चोग्ररूपकः ॥ ९॥ शिरसः पादपर्यन्तं वपुः सप्तगणोऽवतु । पादादिमूर्धपर्यन्तं वपुः पातु विनर्तकः ॥ १०॥ विस्मारितं तु यत्स्थानं गणेशस्तत्सदाऽवतु । पूर्वे मां ह्रीं करालोऽव्यादाग्नेये विकरालकः ॥ ११॥ दक्षिणे पातु संहारो नैरृते रुरुभैरवः । पश्चिमे मां महाकालो वायौ कालाग्निभैरवः ॥ १२॥ उत्तरे मां सितास्योऽव्यादैशान्यामसितात्मकः । प्रभाते शतपत्रोऽव्यात्सहस्रारस्तु मध्यमे ॥ १३॥ दन्तमाला दिनान्तेऽव्यान्निशि पात्रं सदाऽवतु । कलशो मां निशीथेऽव्यान्निशान्ते परशुस्तथा । सर्वत्र सर्वदा पातु शङ्खयुग्मं च मद्वपुः ॥ १४॥ ॐ ॐ राजकुले हौं हौं रणभये ह्रीं ह्रीं कुद्यूतेऽवतात् श्रीं श्रीं शत्रुगृहे शौं शौं जलभये क्लीं क्लीं वनान्तेऽवतु । ग्लौं ग्लूं ग्लैं ग्लं गुं सत्त्वभीतिषु महाव्याध्यार्तिषु ग्लौं गं गौं नित्यं यक्षपिशाचभूतफणिषु ग्लौं गं गणेशोऽवतु ॥ १५॥ ॥ फलश्रुतिः ॥ इतीदं कवचं गुह्यं सर्वतन्त्रेषु गोपितम् । वज्रपञ्जरनामानं गणेशस्य महात्मनः ॥ १॥ अङ्गभूतं मनुमयं सर्वाचारैकसाधनम् । विनानेन न सिद्धिः स्यात्पूजनस्य जपस्य च ॥ २॥ तस्मात्तु कवचं पुण्यं पठेद्वा धारयेत्सदा । तस्य सिद्धिर्महादेवि करस्था पारलौकिकी ॥ ३॥ यं यं कामयते कामं तं तं प्राप्नोति पाठतः । अर्धरात्रे पठेन्नित्यं सर्वाभीष्टफलं लभेत् ॥ ४॥ इति गुह्यं सुकवचं महागणपतेः प्रियम् । सर्वसिद्धिमयं दिव्यं गोपयेत्परमेश्वरि ॥ ॥ श्रीरुद्रयामले तन्त्रे श्रीमहागणपतिवज्रपञ्जरकवचम् ॥
पाठ जप: 0/108