ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

ಭಕ್ತಮನೋರಥಸಿದ್ಧಿಪ್ರದಂ ಗಣೇಶಸ್ತೋತ್ರಂ

भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम्
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 3
23px

भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम्

श्री गणेशाय नमः । स्कन्द उवाच । नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे । असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥ १॥ वामाङ्गभ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो । भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ २॥ मायासिद्धिस्तथा देवो मायिको बुद्धिसंज्ञितः । तयोर्योगे गणेशान त्वं स्थितोऽसि नमोऽस्तु ते ॥ ३॥ जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः । तयोर्योगे हि गणपो नाम तुभ्यं नमो नमः ॥ ४॥ चतुर्विधं जगत्सर्वं ब्रह्म तत्र तदात्मकम् । हस्ताश्चत्वार एवं ते चतुर्भुज नमोऽस्तु ते ॥ ५॥ स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् । तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥ ६॥ द्वंद्वं चरसि भक्तानां तेषां हृदि समास्थितः । चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥ ७॥ जगति ब्रह्मणि स्थित्वा भोगान्भुंक्षि स्वयोगगः । जगद्भिर्ब्रह्मभिस्तेन चेष्टितं ज्ञायते न च ॥ ८॥ चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् । मूषको मूषकारूढो हेरम्बाय नमो नमः ॥ ९॥ किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् । वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥ १०॥ इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह । वरं वृणु महाभाग दास्यामि दुर्लभं ह्यपि ॥ ११॥ त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् । मयि भक्तिकरं स्कंद सर्वसिद्धिप्रदं तथा ॥ १२॥ यं यमिच्छसि तं तं वै दास्यामि स्तोत्रयंत्रितः । पठते श‍ृण्वते नित्यं कार्तिकेय विशेषतः ॥ १३॥ इति श्रीमुद्गलपुराणन्तर्वर्ति गणेशस्तोत्रम् 
ಜಪ ಎಣಿಕೆ: 0/108