॥ गायत्र्यष्टकम् ॥
॥ गायत्री स्तोत्रम् ॥ ॥ गायत्र्यष्टकम् ॥
सुकल्याणीं वाणीं सुरमुनिवरैः पूजितपदाम् शिवामाद्यां वन्द्यां त्रिभुवनमयीं वेदजननीम् । परं शक्तिं स्रष्टुं विविधविध रूपां गुणमयीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ १॥
विशुद्धां सत्त्वस्थामखिल दुरवस्थादिहरणीं निराकारां सारां सुविमल तपो मूर्तिमतुलाम् । जगज्ज्येष्ठां श्रेष्ठामसुरसुरपूज्यां श्रुतिनुतां भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ २॥
तपो निष्ठाभीष्टांस्वजनमनसन्तापशमनीं दयामूर्तिं स्फूर्तिं यतितति प्रसादैकसुलभाम् । वरेण्यां पुण्यां तां निखिल भव बन्धापहरणीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ३॥
सदाराध्यां साध्यां सुमति मति विस्तारकरणीं विशोकामालोकां हृदयगत मोहान्धहरणीम् । परां दिव्यां भव्यामगमभवसिन्ध्वेक तरणीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ४॥
अजां द्वैतां त्रैतां विविधगुणरूपां सुविमलां तमो हन्त्रीं-तन्त्रीं श्रुति मधुरनादां रसमयीम् । महामान्यां धन्यां सततकरुणाशील विभवां भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ५॥
जगद्धात्रीं पात्रीं सकल भव संहारकरणीं सुवीरां धीरां तां सुविमल तपो राशि सरणीम् । अनेकामेकां वै त्रिजगसदधिष्ठानपदवीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ६॥
प्रबुद्धां बुद्धां तां स्वजनमति जाड्यापहरणां हिरण्यां गुण्यां तां सुकविजन गीतां सुनिपुणीम् । सुविद्यां निरवद्याममल गुणगाथां भगवतीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ७॥
अनन्तां शान्तां यां भजति बुध वृन्दः श्रुतिमयीं सुगेयां ध्येयां यां स्मरति हृदि नित्यं सुरपतिः । सदा भक्त्या शक्त्या प्रणतमतिभिः प्रीतिवशगां भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ८॥
शुद्ध चित्तः पठेद्यस्तु गायत्र्या अष्टकं शुभम् । अहो भाग्यो भवेल्लोके तस्मिन् माता प्रसीदति ॥ ९॥
॥ इति गायत्र्यष्टकं अथवा स्तोत्रं सम्पूर्णम् ॥