சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீமஹாக³ணபதிபஞ்சகம்

श्रीमहागणपतिपञ्चकम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px

श्रीमहागणपतिपञ्चकम्

प्रातः स्मरामि गणनाथमुखारविन्दं नेत्रत्रयं मदसुगन्धितगण्डयुग्मम् । शुण्डञ्च रत्नघटमण्डितमेकदन्तं ध्यानेन चिन्तितफलं वितरन्नमीक्ष्णम् ॥ १॥ प्रातः स्मरामि गणनाथभुजानशेषा- नब्जादिभिर्विलसितान् लसिताङ्गदैश्च । उद्दण्डविघ्नपरिखण्डनचण्डदण्डान् वाञ्छाधिकं प्रतिदिनं वरदानदक्षान् ॥ २॥ प्रातः स्मरामि गणनाथविशालदेहं सिन्दूरपुञ्जपरिरञ्जितकान्तिकान्तम् । मुक्ताफलैर्मणिगणैर्लसितं समन्तात् श्लिष्टं मुदा दयितया किल सिद्धलक्ष्म्या ॥ ३॥ प्रातः स्तुवे गणपतिं गणराजराजं मोदप्रमोदसुमुखादिगणैश्च जुष्टम् । शक्त्यष्टभिर्विलसितं नतलोकपालं भक्तार्तिभञ्जनपरं वरदं वरेण्यम् ॥ ४॥ प्रातः स्मरामि गणनायकनामरूपं लम्बोदरं परमसुन्दरमेकदन्तम् । सिद्धिप्रदं गजमुखं सुमुखं शरण्यं श्रेयस्करं भुवनमङ्गलमादिदेवम् ॥ ५॥ यः श्लोकपञ्चकमिदं पठति प्रभाते भक्त्या गृहीतचरणो गणनायकस्य । तस्मै ददाति मुदितो वरदानदक्षः चिन्तामणिर्निखिलचिन्तितमर्थकामम् ॥ ६॥ इति श्रीदत्तात्रेयानन्दनाथविरचितं श्रीमहागणपतिपञ्चकम् ॥
ஜப எண்ணிக்கை: 0/108