சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

முண்ட³மாலாதந்த்ரே ஶ்ரீது³ர்கா³கவசம் 

मुण्डमालातन्त्रे श्रीदुर्गाकवचम् 
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px

श्रीदुर्गाकवचम्

श्री शिव उवाच श‍ृणु देवि ! प्रवक्ष्यामि अप्रकाश्यं महीतले । श्रुत्वा पठित्वा कवचं सर्वसिद्धिमवाप्नुयात् ॥ १॥

अथ दुर्गाकवचम् । पार्वती मस्तकं पातु कपालं जगदम्बिका । कपालञ्चापि गण्डञ्च दुर्गा पातु महेश्वरि ॥ २॥

विश्वेश्वरी सदा पातु नेत्रञ्च शिवसुन्दरी कर्णौ नारायणी पातु मुखं नील-सरस्वती ॥ ३॥

कण्ठं मे विजया पातु वक्षोमूलं शिव प्रिया । नाभिदेशं जगद्धात्री जगदानन्द-वल्लभा ॥ ४॥

हृदयं चण्डिका पातु बाहू परम-देवता । केशांश्च पञ्चमी विद्या सभायां पातु भैरवी ॥ ५॥

नित्यानन्दा यशः पातु लिङ्गं लिङ्गेश्वरी सदा । भवानी पातु मे पुत्रं पत्नीं मे पातु दक्षजा ॥ ६॥

कामाख्या देह-कमलं पातु नित्यं नभोगतम् । महाकुण्डलिनी नित्यं पातु मे जठरं शिवा ॥ ७॥

वह्निजाया सदा यज्ञं पातु कर्म स्वधा पुनः । अरण्ये विजने पातु दुर्गा देवी रणे वने । जले पातु जगन्माता देवी त्रिभुवनेश्वरी ॥ ८॥

इत्येवं कवचं देवि दुर्ज्ञेयं राजमोहनम् । जपेन्मत्रं क्षितितले वश्यं याति महीपतिः ॥ ९॥

पूजया वरया भक्त्या क्रियया च विना शिवे ! । केवलं जपमात्रेण सिद्ध्यत्येव न संशयः ॥ १०॥

या पृच्छा ते निगदिता कथिता वरवर्णिनि ! । इदानीं देवदेवेशि ! किं भूयः श्रोतुमिच्छसि ॥ ११॥

इति मुण्डमालातन्त्रे पार्वतीश्वर संवादे षष्ठं पटलान्तर्गतं श्रीदुर्गाकवचम्

ஜப எண்ணிக்கை: 0/108